संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|द्वितीयो भागः|अथ माघमास:| रथसप्तम्यां स्नानविधि: अथ माघमास: ढुण्ढिराजपूजनम रथसप्तम्यां स्नानविधि: सूर्यपूजनविधि: भीष्मतर्पणविधि: महाशिवरात्रिपूजाविधि: लघुरुद्राभिषेकसङ्कल्प: माघमास: - रथसप्तम्यां स्नानविधि: सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची. Tags : poojavratपूजाव्रतसंस्कृत रथसप्तम्यां स्नानविधि: Translation - भाषांतर ॥ रथसप्तम्यां स्नानविधि: ॥सप्तमी चारुणोदयव्यापिनी ग्राह्या । दिनद्वये चेत्पूर्वा । तस्यां अरुणोदये स्नानं कार्यम् । आचम्य देशकालौ स्मृत्वा, ममेह जन्मनि जन्मान्तरे च सप्तविधपापक्षयार्थं अमुक तीर्थे स्नानमहं करिष्ये । स्नानमन्त्र:-यद्यज्जन्मकृतं पापं मया जन्मसु जन्मसु । तन्मे शोकं च रोगं च माकरी हन्तु सप्तमी । एतज्जन्मकृतं पापं यञ्च जन्मान्तरार्जितम् । मनोवाक्कायजं यञ्च ज्ञाताज्ञातं च यत्पुन: ॥ इति सप्तविधां पापं स्नानान्मे सप्तसप्तिके । सप्तव्याधिसमायुक्तं हर माकरि सप्तमि ॥ इक्षुदण्डेन जलं चालयित्वा सप्तार्कपत्राणि सप्तबद्रीपत्राणि च शिरसि निधाय स्नायात् । सूर्यार्घ्यमन्त्र:०सप्तसप्तिवह प्रीत सप्तलोकप्रदीपक । सप्तमीसहितो देव गृहाणार्घ्यं दिवाकर ॥ सप्तमीप्रार्थनामन्त्र:-जननी सर्वलोकानां सप्तमी सप्तसप्तिके । सप्तव्याहृतिके देवि नमस्ते सूर्यमण्डले ॥ इति प्रार्थ्य, नित्यकर्म समाप्य गृहमागच्छेत् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP