संस्कृत सूची|शास्त्रः|आयुर्वेदः|रससंकेतकलिका| अध्यायः २ रससंकेतकलिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ रससंकेतकलिका - अध्यायः २ रससंकेतकलिका ग्रंथात रसासंबंधी उपयुक्त माहिती देण्यात आलेली आहे. Tags : rasasanketakalikaVedआयुर्वेदरससंकेतकलिका अध्यायः २ Translation - भाषांतर षड्लोह)हेमरूप्यार्कवङ्गाहिलोहैर्लोहा षडीरिता ।अकृत्रिमा इमे घोषावर्तकाद्यास्तु कृत्रिमा ॥१॥शुद्धा मृता निरुत्थाश्च सर्वरोगहरा स्मृता ।अशुद्धान्हीनपाकांश्च रोगमृत्युप्रदांस्त्यजेत् ॥२॥लोहं सूतयुतं दोषांस्त्यजेत्सूतश्च लोहयुक् ।अत स्वर्णादिलोहानि विना सूतं न मारयेत् ॥३॥स्वर्णं पञ्चविधं प्रोक्तं प्राकृतं सहजाग्निजे ।एतत्स्वर्णत्रयं देवभोज्यं षोडशवर्णकम् ॥४॥खनिजं रसवादोत्थं सुपत्त्रीकृत्य शोधितम् ।तच्चतुर्दशवर्णाढ्यं मनुजार्हं रुजापहम् ॥५॥सुवर्णं सप्तशो वाप्यं काञ्चनाररसे शुचि ।सुवर्णे गलिते नागं प्रक्षिपेत्षोडशांशकम् ॥६॥अम्लेन मर्दयित्वा तु कृत्वा तस्य च गोलकम् ।गन्धकं गोलकसमं विनिक्षिप्याधरोत्तरम् ॥७॥शरावसंपुटे कृत्वा संनिरुध्य प्रतापयेत् ।त्रिंशद्वनोत्पलैरग्नौ सप्तधा भस्मतां व्रजेत् ॥८॥तिक्तं कषायं ज्वरहृत्स्वादुपाकं बलावहम् ।वयोधीकान्तिदं वृष्यं शोषालक्ष्मीविषापहम् ॥९॥कैलासे सहजं रूप्यं खनिजं कृत्रिमं भुवि ।व्युत्क्रमेण गुणै श्रेष्ठं नागोत्तीर्णं रसे हितम् ॥१०॥श्वेतागस्तिरसे रूप्यं स्वर्णवच्छुचि मारणम् ।गन्धकाम्लकसंयोगान्नागं हित्वा क्षिपेत्त्रपु ॥११॥वयशुक्रबलोत्साहकरं सर्वामयापहम् ।एतद्भस्माम्ललिप्तोऽसिस्ताम्रवर्णस्तदा मृति ॥१२॥सुवर्णमथवा रूप्यं योगे यत्र न विद्यते ।तत्र कान्तोद्भवं लोहं क्षेप्यं तैस्तत्समं गुणै ॥१३॥द्व्यर्कौ नेपालम्लेच्छौ तु रसे नेपाल उत्तम ।घनघातसह स्निग्धो रक्तपत्रोऽमलो मृदु ॥१४॥म्लेच्छस्तु क्षालित कृष्णो रूक्ष स्तब्धो घनासह ।मिश्रितो नागलोहाभ्यां न श्रेष्ठो रसकर्मणि ॥१५॥ताम्रं तु विषवज्ज्ञेयं यत्नत साध्यते हि तत् ।एको दोषो विषे सम्यक्ताम्रे त्वष्टौ प्रकीर्तिता ॥१६॥कुष्ठं रेको वमिर्भ्रान्तिस्तापो वातश्च कामला ।देहस्य नाशनं दोषा इत्यष्टौ कथिता बुधै ॥१७॥गवां मूत्रै पचेच्चाहस्ताम्रपत्रं दृढाग्निना ।वारिणा क्षालयेत्पश्चादेकविंशतिधा शुचि ॥१८॥पारदं गन्धकं ताम्रं सममम्लेन मर्दयेत् ।जायते त्रिपुटाद्भस्म वालुकायन्त्रतोऽथवा ॥१९॥गन्धार्कौ द्व्येकभागौ च शरावसंपुटे पुटेत् ।स्वाङ्गशीतं च संपेष्य खल्वे वस्त्रेण गालयेत् ॥२०॥सामुद्रं तत्समं कृत्वा पुन पुटनमाचरेत् ।तदेव तत्क्षये देयं सामुद्रं च पुन पुन ॥२१॥कासीसस्य जलेनैव वारं वारं तु भावयेत् ।चतुषष्टिपुटैरित्थं निरुत्थं योगवाहिकम् ॥२२॥तत्ताम्रं सौरणे कन्दे पुटेत्पञ्चामृतेऽथवा ।अष्टौ दोषांश्च पूर्वोक्तान्न करोति गुणावहम् ॥२३॥हन्ति गुल्मक्षयाजीर्णकासपाण्ड्वामयज्वरान् ।स्थौल्योदरे कफं शूलमूर्ध्वाधशोधनं परम् ॥२४॥खुरकं मिश्रकं चेति द्विविधं वङ्गमुच्यते ।खुरकं तु गुणै श्रेष्ठं मिश्रकं न रसे हितम् ॥२५॥कन्याभृङ्गरसे वङ्गनागौ शोध्यौ त्रिसप्तधा ।अथवा ब्रह्मवृक्षोत्थे क्वाथे निर्गुण्डिजेऽथवा ॥२६॥मृद्भाजने द्रुते वङ्गे चिञ्चाश्वत्थत्वचो रज ।क्षिपेत्तस्य चतुर्थांशं लोहदर्व्या प्रचालयेत् ॥२७॥यावद्भस्मत्वमायाति तत खल्वे सतालकम् ।ब्रह्मद्रुक्वाथकल्काभ्यां मर्द्यं गजपुटे पचेत् ॥२८॥पुटे पुटे दशांशांशं दत्त्वैवं दशधा पुटेत् ।वङ्गभस्म निरुत्थं तत्पाण्डुमेहगदापहम् ॥२९॥करीषसंपुटे वङ्गपत्रं छागशकृद्युतम् ।म्रियते पुटमात्रेण तन्मेहान्हन्ति विंशतिम् ॥३०॥वङ्गवन्नागभस्मापि कृत्वादौ तत्समां शिलाम् ।क्षिप्त्वा तुषोदकैर्मर्द्यं दद्याद्गजपुटं तत ॥३१॥षष्ट्यंशं गन्धकं दत्त्वा पाच्यं षष्टिपुटावधि ।नागभस्म निरुत्थं तद्वङ्गभस्मगुणाधिकम् ॥३२॥मृतं वङ्गं च नागं च रसभस्म समं गुणै ।परस्परमलाभे च योजयेत्तत्परस्परम् ॥३३॥मुण्डं तीक्ष्णं तथा कान्तं भेदास्तस्य त्रयोदशा ।मृदु कुण्ठं च काण्डारं त्रिविधं मुण्डमुच्यते ॥३४॥खरसारं च होत्रासं तारावर्तं विडं तथा ।कान्तं लोहं गजाख्यं च षड्विधं तीक्ष्णमुच्यते ॥३५॥पात्रे यस्मिन्प्रसरति जले तैलबिन्दुर्न लिप्तो हिङ्गुर्गन्धं विसृजति निजं तिक्ततां निम्बकल्क ।पाके दुग्धं भवति शिखराकारतां नैति भूमौ कान्तं लोहं तदिदमुदितं लक्षणैर्नैव चान्यत् ॥३६॥कान्तं लोहं चतुर्धोक्तं रोमकं भ्रामकं तथा ।चुम्बकं द्रावकं चेति गुणास्तस्योत्तरोत्तरा ॥३७॥मुण्डादिसर्वलोहानि ताम्रवच्छोधयेत्सुधी ।लोहपाकस्त्रिधा प्रोक्तो मृदुर्मध्य खरस्तथा ।पङ्कशुष्करसौ पूर्वौ वालुकासदृश खर ॥३८॥लोहपत्रं गन्धलिप्तं वह्नौ तप्तं पुन पुन ।क्षिपेन्मीनाक्षिकानीरे यावत्तत्रैव शीर्यते ॥३९॥रसहिङ्गुलगन्धेन तुल्यं तन्मर्दयेद्दृढम् ।निर्गुण्डीवृषमत्स्याक्षीरसैर्गजपुटान्मृति ॥४०॥लोहचूर्णं वराक्वाथे पिण्डं कृत्वा पुन पुन ।षोडशाङ्गुलमाने हि निर्वातगर्तके पुटेत् ॥४१॥चतुषष्टिपुटैरेव जायते पद्मरागवत् ।निरुत्थाम्बुतरं योगवाहि स्यात्सर्वरोगहृत् ॥४२॥जम्बूत्वचारसे तिन्दुमार्कण्डपत्रजेऽथवा ।त्रिसप्तधातपे शोष्यं पेष्यं वारितरं भवेत् ॥४३॥चिञ्चापत्रनिभं लोहपत्रं दन्तीद्रवे क्षिपेत् ।घर्मे धृत्वा रसो देयो मृतं यावद्भवेच्च तत् ॥४४॥मत्स्याक्षीरसमध्यस्थं लोहपत्रं विनिक्षिपेत् ।त्रिंशद्दिनानि घर्मे तु ततो वारितरं भवेत् ॥४५॥लोहमध्वाज्यगं तारं ध्मातं चेत्पूर्वमानकम् ।तदा लोहं निरुत्थं स्यादन्यथा साधयेत्पुन ॥४६॥वराक्वाथेऽवशेषो तु तत्तुल्यं घृतमायसम् ।सिता लोहमिता ताम्रे पक्वं चामृतवद्भवेत् ॥४७॥ग्रहणीपाण्डुशोफार्शोज्वरगुल्मप्रमेहकान् ।हन्ति प्लीहामयं लोहं बलबुद्धिविवर्धनम् ॥४८॥कुष्माण्डं तिलतैलं च माषान्नं राजिका तथा ।मद्यमम्लरसं चैव त्यजेल्लोहस्य सेवक ॥४९॥गोमूत्रे त्रिफलाक्वाथे तप्तं शोध्यं त्रिसप्तधा ।स्वर्णादि सर्वलोहानां किट्टं तत्तद्गुणावहम् ॥५०॥किट्टाद्दशगुणं मुण्डं मुण्डात्तीक्ष्णं शताधिकम् ।तीक्ष्णाल्लक्षगुणं कान्तं भक्षणात्कुरुते गुणम् ॥५१॥लवणान्तर्गतं भाण्डे सत्त्वं खर्परसम्भवम् ।सुखं रुद्ध्वा विपक्वं तन्म्रियते गजवह्निना ॥५२॥(रसक मृत मेदिच्- प्रोपेर्तिएस्)मृतस्तु रसको रूक्षस्त्रिदोषघ्नो ज्वरापह ।योगवाह्यतिसारघ्न क्लेदघ्नो विड्विबन्धकृत् ॥५३॥कांस्यपित्तलयो प्रोक्ते ताम्रवच्छुद्धिमारणे ।सिता गव्ययुता देया धातुभक्षणवैकृतौ ॥५४॥अथैक पारदाद्भागो गन्धको द्विगुणस्तत ।तयो समं सुवर्णादिनिरुत्थं शीघ्रमारणम् ॥५५॥(धातुस निरुत्थ परीक्षा)समध्वाज्यटङ्कणैर्गुञ्जागुडाभ्यां मृतधातव ।ध्माता पिण्डकृता नैव जीवन्ति ते निरुत्थका ॥५६॥सगन्धश्चोत्थितो धातुर्मर्द्य कन्यारसे दिनम् ।पक्वो गजपुटो दिव्यं सर्वो याति निरुत्थताम् ॥५७॥पीतं सितासितं रक्तमेकैकं खं चतुर्विधम् ।पिनाकं दर्दुरं नागं वज्रं चाग्नौ परीक्षयेत् ॥५८॥न पत्राणि न शब्दांश्च कुर्यात्तद्वज्रसंज्ञकम् ।त्रीणि ध्मातानि किट्टं हि वज्री सत्त्वं विमुञ्चति ॥५९॥तत्सत्त्वं विधिवद्ग्राह्यं शोध्यं मार्यं च लोहवत् ।सत्त्वाभावे तु निश्चन्द्रं रसेष्विष्टं तदुच्यते ॥६०॥धान्याभ्रं मेघनादैर्झषनयनजलैर्जम्भलैष्टङ्कणेन खल्वे संमर्द्य गाढं तदनु गजपुटान्द्वादशैवं प्रदद्यात् ।मीनाक्षीभृङ्गतोयैस्त्रिफलजलयुतैर्मर्दयेत्सप्तरात्रं गन्धं तुल्यं च दत्त्वा प्रवरगजपुटात्पञ्चतां याति चाभ्रम् ॥६१॥मृतं निश्चन्द्रतां यातमरुणं चामृतोपमम् ।सचन्द्रं विषवज्ज्ञेयं मृत्युकृद्व्याघ्ररोमवत् ॥६२॥वराम्बु गोघृतं चाभ्रं कलाषड्दिक्क्रमांशकम् ।मृद्वग्निना पचेल्लोहे चामृतीकरणं भवेत् ॥६३॥वयस्तम्भकारी जरामृत्युहारी बलारोग्यधारी महाकुष्ठहारी ।मृतो मेघक सर्वरोगेषु योज्य सदा सूतराजस्य वीर्येण तुल्य ॥६४॥क्षाराम्लं द्विदलं वर्ज्यं कर्कोटिकारवेल्लकम् ।वृन्ताकं च करीरं च तैलं चाभ्रकसेवने ॥६५॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP