संस्कृत सूची|शास्त्रः|आयुर्वेदः|रससंकेतकलिका| अध्यायः ४ रससंकेतकलिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ रससंकेतकलिका - अध्यायः ४ रससंकेतकलिका ग्रंथात रसासंबंधी उपयुक्त माहिती देण्यात आलेली आहे. Tags : rasasanketakalikaVedआयुर्वेदरससंकेतकलिका अध्यायः ४ Translation - भाषांतर कियन्तोऽप्यथ वक्ष्यन्ते रसा प्रत्ययकारका ।शास्त्रं दृष्ट्वा गुरोर्वक्त्रात्संप्रदायाद्यथागता ॥१॥पारदो रसकस्तालस्तुत्थं गन्धकटङ्कणम् ।सर्वमेतत्समं शुद्धं कारवेल्ल्या रसैर्दिनम् ॥२॥मर्दयेत्तेन विदध्याच्च ताम्रपात्रोदरं घनम् ।अङ्गुलार्धार्धमानेन तत्पचेत्सिकताद्वये ॥३॥यन्त्रे यावत्स्फुटन्त्येव व्रीह्यस्तस्य पृष्ठत ।तत सुशीतले ग्राह्यस्ताम्रपात्रोदराद्बुधै ॥४॥तत्समं मरिचं दत्त्वा सर्वमेकत्र चूर्णयेत् ।द्विगुञ्जं पर्णखण्डेन वातिके पैत्तिके ज्वरे ॥५॥गुञ्जैकं ससितं दद्यात्त्रिगुञ्जं व्योषयुक्कफे ।संनिपाते ज्वरे देयो वल्लैकर्माद्रकद्रवै ॥६॥त्रिदिनैविषमं तीव्रमेकद्वित्रिचतुर्थकम् ।नाशयेच्छीतभञ्ज्याख्यो रसो रुद्रेण निर्मित ॥७॥सूतं गन्धं शिलां तालं संमथ्य निम्बुजैर्द्रवै ।लिप्त्वा तन्वर्कपत्राणि यन्त्रे भस्माभिधे क्षिपेत् ॥८॥यामाष्टौ ज्वालयेदग्निं स्वाङ्गशीतं समुद्धरेत् ।विषोषणं चतुर्थांशं दत्त्वा वल्लमिता गुटी ॥९॥देवदालीरसैर्बद्धा रसश्चैतन्यभैरव ।दत्तार्द्रकरसै सर्वसंनिपातविघातकृत् ॥१०॥भूमौ गतं विसंज्ञं च शीतार्तं तन्द्रितं नरम् ।तत्क्षणाद्बोधयेद्दाहे कुर्याच्छीतोपचारकान् ॥११॥वाराहच्छागमात्स्याश्वमायूरं पित्तपञ्चकम् ।अनेन भावितश्चापि देयश्चैतन्यभैरव ॥१२॥विषं रसं कलैकांशं काचलिप्तशरावके ।रुद्ध्वा चुल्ल्यां मन्दवह्नौ पचेद्यामद्वयं तत ॥१३॥स्वयं शीतं च गृह्णीयादुपरिष्टाच्छरावकात् ।वायुवर्जं क्षिपेत्कूप्यां संनिपातेऽहिदंष्टके ॥१४॥सूच्यग्रेण च दातव्य क्षणाञ्जागर्ति मानव ।नो चेत्तालुप्रदेशे च क्षुरक्षुण्णे प्रचारयेत् ॥१५॥रसगन्धकनेपाला वृद्धा दन्त्यम्बुमदिता ।द्वौ यामौ ज्वरनाशाय गुञ्जैका सितया सह ॥१६॥पुरं टङ्कद्रयां कृष्णधूर्तबीजाष्टबल्लकम् ।पालिकात्रितयं देयं चातुर्थिकज्वरापहम् ॥१७॥ज्वरागमनवेलायां शीतवारिचतुर्घटै ।शिरोऽभिषिञ्च्य दातव्यं पथ्ये क्षीरं सशर्करम् ॥१८॥निम्नबीजं शिलाजाजी धूम कृष्णा समांशकम् ।कारवेल्ल्या रसैर्भाव्यमेकविंशतिवारकान् ॥१९॥यत्पार्श्वतोऽञ्जयेन्नेत्रे ज्वरं तत्पार्श्वजं जयेत् ।अर्धनारीनटेशाह्वो रस कौतुककारक ॥२०॥हिङ्गुलं मरिचं गन्धं पिप्पली टङ्कणं विषम् ।कनकस्य तु बीजानि समांशं विजयारसै ॥२१॥मर्दयेद्याममात्रं तु चणमात्रा वटी कृता ।ज्वरातिसारं ग्रहणीं नाशयेद्धेमसुन्दर ॥२२॥शुद्धसूतं पलं चार्कक्षीरैर्मर्द्य पुन पुन ।द्विपलं शुद्धगन्धस्य महाकम्बुपलाष्टकम् ॥२३॥उभे वह्निरसैर्भाव्ये पेष्ये शोष्ये दिनत्रयम् ।मेलयेत्पूर्वसूतेन तदर्धं टङ्कणं क्षिपेत् ॥२४॥अर्कक्षीरै पुन सर्वं यामैकं मर्दयेद्दृढम् ।तच्छुष्कं चूर्णलिप्तेऽथ भाण्डे रुद्ध्वा पुटे पचेत् ॥२५॥चतुर्गुञ्जामितं खादेन्मरिचाज्येन संयुतम् ।देयं दध्योदनं पथ्यं विजया सगुडा निशि ॥२६॥ग्रहणीदोषनाशार्थं नास्त्यनेन समं भुवि ।ग्रहजीर्नाशयेत्सर्वा अर्कलोकेश्वरो रस ॥२७॥कटुत्रिकरसैर्भाव्यं तालमेकं चतुशिला ।दिनं वासारसै पिष्ट्वा वालुकायन्त्रपाचितम् ॥२८॥द्वियामान्ते समुद्धृत्य तत्तुल्यं च कटुत्रयम् ।निर्गुण्डीमूलचूर्णं च वासारससमन्विता ॥२९॥शिलातालेश्वरस्यास्य गुञ्जैका श्वासकासजित् ।सूतं हेमाभ्रजं भस्म शिलागन्धकतालकम् ॥३०॥त्र्येकैकभूभवैकाख्यान्कृत्वैवं क्रमशोऽशकान् ।वराटी पूरयेत्तेन छागीक्षीरेण टङ्कणम् ॥३१॥पिष्ट्वा तेन मुखं रुद्ध्वा शरावे भूपुटे पचेत् ।स्वाङ्गशीतं समुद्धृत्य कुर्यात्तं वस्त्रगालितम् ॥३२॥रसो राजमृगाङ्कोऽयं चतुर्गुञ्च क्षयापह ।सुवर्णं भस्मसूतं च वल्लार्धं मधुना लिहेत् ॥३३॥पथ्यभुग्ब्रह्मचर्येण मृगाङ्को वा क्षयापह ।शिलाजतु मधुव्योषतप्त्यलोहरजांसि य ॥३४॥क्षीरभुग्लेढि तस्याशु क्षयक्षयकरो रस ।शुल्वश्यामास्नुहीदन्तीपथ्यानेपालकान्क्रमात् ॥३५॥भूद्यवेकैकाग्नियुग्मांश्च गृहीत्वोष्णाम्बुना पिबेत् ।अष्टोदराणि हन्त्येष विशेषेण जलोदरम् ॥३६॥आध्मानगुल्मशूलघ्न उदरध्वान्तभास्कर ।दुग्धं शङ्खवराटं च तुल्यार्कं नवनीतयुक् ॥३७॥टङ्कार्धं भक्षयेत्सर्वशूलघ्न शङ्खभास्कर ।शुद्धं सूतं तथा गन्धं क्रमादेकद्विभागकम् ॥३८॥तुल्यार्कं भावयेदार्द्ररसैश्चापि त्रिसप्तधा ।गोलं कृत्वान्धमूषायां रुद्ध्वा गजपुटे पचेत् ॥३९॥घृतं शुण्ठ्या च गुञ्जैकं शीतोदं ससितं ह्यनु ।त्रिदोषं नाशयेच्छीघ्रं क्रियां शीतां प्रयोजयेत् ॥४०॥स्थूलं कृशं कृशं स्थूलं करोत्यग्निप्रदीपनम् ।त्रिदोषात्पतितं रक्तं व्रणनाड्यभिघातजम् ॥४१॥यकृत्प्लीहोत्थितं यच्च यच्च कुष्ठकरं त्वसृक् ।शोधयेद्दुष्टरक्तं च रसो रक्तारिसंज्ञक ॥४२॥सूततारार्ककं बोलं मर्द्यमर्कपयस्त्र्यहम् ।वल्लैकं मधुना लेह्यं स्थौल्यमाशु व्यपोहति ॥४३॥द्विपलं क्षौद्रशीतोदमनुपानं पिबेत्तत ।वडवाग्निरसे पथ्यं दध्यादि श्लेष्मलं त्यजेत् ॥४४॥सूतार्कौ गन्धकं मर्द्यं दिनं निर्गुण्डिकाद्रवै ।यामैकं वालुकायन्त्रे पक्त्वा देयो द्विगुञ्जक ॥४५॥बीजपूरजटाक्वाथं ससितं पाययेदनु ।रसस्त्रिविक्रमो मूत्रकृच्छ्रोधाश्मरीप्रणुत् ॥४६॥निस्तुषीकृत्य वाकुच्या बीजानां पलविंशतिम् ।गोजलस्थां त्रिसप्ताहं लोहं पथ्यापलद्वयम् ॥४७॥गृहीत्वा गोजलाच्छोष्ये सूर्यतापेऽतिनिष्ठुरे ।काकोदुम्बरिकाद्रोणत्वचां क्वाथे त्रिसप्तकम् ॥४८॥भावयेत्तस्य चूर्णस्य गन्धसूतं समं कृतम् ।अम्लेन कज्जलीं कृत्वा सर्वमेकत्र कारयेत् ॥४९॥शिग्रुमूलरसेनापि नागवल्लीदलेन च ।भावनां त्रिदिनं दत्त्वा कर्षार्धांशां गुटीं कुरु ॥५०॥एकैकां भक्षयेत्प्रात श्वेतकुष्ठोपशान्तये ।चित्रकाङ्घ्रित्वचश्चूर्णं रात्रौ गोदुग्धके वरम् ॥५१॥क्षिपेदधि विलोड्याथ ग्राहयेत्तक्रमुत्तमम् ।तत्तक्रकुडवं चैकं मध्येऽष्टवल्लगन्धकम् ॥५२॥प्रक्षिप्य गुटिकां पश्चात्प्रपिबेद्द्वित्रिसंख्यकाम् ।नवनीतेन चाभ्यङ्ग कार्य स्थेयमथातपे ॥५३॥सर्वश्वित्रे प्रजायन्ते स्फोटकाश्चाग्निदग्धवत् ।प्रथमे सप्तके पाको जायेताथ द्वितीयके ॥५४॥रोहणं च तृतीये हि प्राप्नुवन्ति न संशय ।निम्बुकस्य रसोपेतं कुङ्कुमालेपनं हितम् ॥५५॥सतक्रा गुटिका वापि रसस्यालेपने हिता ।श्वित्राणां रोहणं रम्यं वर्णदं जायते भृशम् ॥५६॥त्रिवेलं तक्रभक्तं च पूर्वे देयं च सप्तके ।मकुष्ठां अपि रूक्षाश्च देया जाते द्विसप्तके ॥५७॥तृतीये सप्तके देया मकुष्ठास्त्रिफलाघृतम् ।घृतमल्पं प्रदातव्यं श्वित्रकुष्ठी वरो भवेत् ॥५८॥चम्पकाभं वरं देहं कान्तियुक्तं च नीरुजम् ।प्राप्नुयाच्छ्रीयुत सम्यङ्मनुजो भूमिमण्डले ॥५९॥रसराजप्रभावेण सत्यं सत्यं च नान्यथा ।शुद्धं सूतं मृतं लोहं ताप्यगन्धकातालकम् ।पथ्याग्निमन्थनिर्गुण्डीत्र्यूषणं टङ्कणं विषम् ॥६०॥तुल्यांशं मर्दयेत्खल्वे दिनं निर्गुण्डिकाद्रवै ।मुण्डीद्रवैर्दिनैकं तु गुञ्जैकं वटकीकृतम् ॥६१॥भक्षयेद्वातरोगार्तो रसं स्वच्छन्दभैरवम् ।लघुरास्नाह्वयं क्वाथं सपुरं ह्यनुपानकम् ॥६२॥शुद्धं सूतं वचाक्वाथैस्त्रिदिनं मर्दयेत्तत ।शङ्खपुष्पीरसैस्तद्वद्गन्धकं मर्दितं क्षिपेत् ॥६३॥गोमूत्रमर्दितं गोलं मूषायां तु निरोधयेत् ।सप्तधालेप्य मृद्वस्त्रै पुटितं स्वाङ्गशीतलम् ॥६४॥चूर्णीकृतं चतुर्वल्लां समसर्षपचूर्णकम् ।जीर्णधृतानुपानं च नस्ये स्नेहं तु सार्षपम् ॥६५॥कारयेत्तेन चाभ्यङ्गं दिनानामेकविंशतिम् ।उन्मादापस्मृती हन्ति ह्युन्मादगजकेशरी ॥६६॥सूतं गन्धं अयस्ताम्रं एकद्व्यर्धार्धकं पलम् ।द्रावयेल्लोहजे पात्रे क्षिपेदेरण्डपत्त्रके ॥६७॥चूर्णितं वस्त्रपूतं च लोहपात्रे पुन पचेत् ।जाम्बीरं बैजपूरं वा रसं पात्रमितं क्षिपेत् ॥६८॥संचूर्ण्य पञ्चकोलोत्थै कषायैश्चाम्लवेतसै ।भावना खलु दातव्या पञ्चाशत्प्रमितास्तत ॥६९॥भृष्टटङ्कणचूर्णं तु दद्यात्सर्वसमानकम् ।टङ्कणार्धं विडं दद्याद्विडतुल्यं मरीचकम् ॥७०॥सप्तधा भावयेत्यश्चाच्चणकक्षारवारिणा ।एव सिद्धरसाद्वल्लद्वितयं वा चतुष्टयम् ॥७१॥सैन्धवं माषमेकं तु जीरकं च द्विमाषकम् ।तक्रेण योजितं चैतदनुपानं पिबेत्सुधी ॥७२॥भोजयेत्कण्ठपर्यन्तं गुरुमामिषभोजनम् ।क्षिप्रं तज्जीर्यते भुक्तं पुन काङ्क्षति भोजनम् ॥७३॥घटश्रवेन्द्रभीमैश्च कुम्भयोनिचतुर्मुखै ।शनैश्चरेण रुद्रेण ब्रह्मणा सेवितोऽग्नये ॥७४॥अस्य संसेवनादेते सर्वे जाता महाशना ।अत संसेव्यते भूपैर्महदग्निविवृद्धये ॥७५॥कुर्याद्दीपनं अद्भुतं पचनं दुष्टामयोच्छेदनं तुन्दस्थौल्यनिबर्हणं गरहर शूलार्तिमूलापह ।गुल्मप्लीहविनाशनो बहुरुजां विध्वंसन स्रंसनो वातग्रन्थिमहोदरापहरण क्रव्यादनामा रस ॥७६॥सिहणक्षोणिपालाय भूरिभोज्यप्रियाय च ।दत्तवान्भैरवानन्दो भूपो ग्रामाष्टकं ददौ ॥७७॥सूतं भुजंगममृतं लवणं हरिद्रा व्योषं धनंजयजटावनिभूतधात्री ।क्वष्टादशद्वयनिधित्रयवेदसंख्या शोभाञ्जनार्द्रककरीरकबीजपूरै ॥७८॥निम्बूफणीश्वरलता सुपलाशतोयैर्भाव्यं विशोष्य खरले प्रपिधाय चूर्णम् ।वस्त्रस्रुतं सकलवातगणान्निहन्ति वह्नेरपाटवमरोचकशूलवान्ती ॥७९॥सूतं गन्धं विषं शङ्खं कपर्दं टङ्कणोषणे ।चन्द्रैकाग्निगजत्रिद्विवसुभागैर्मितं क्रमात् ॥८०॥जम्बीरकेन संमर्द्यं भवेदग्निकुमारक ।वाते मन्दानलेऽजीर्णे ज्वरश्लेष्मविषूचिके ॥८१॥गुञ्जामात्रं प्रदातव्यो विण्मूत्रशिरसो ग्रहे ।कासे श्वासे क्षये शूले सर्वरोगे तु योजयेत् ॥८२॥नृसारं स्फटिका सौरं त्रयमेकत्र चूर्णयेत् ।तत्क्षिपेन्मृन्मये कूपे शुभे हस्तमिते दृढे ॥८३॥सरन्ध्रोदरकाचोत्थे कूपे तत्संनियोजयेत् ।सप्तधा वेष्टयेत्पश्चात्तत्संधिं वस्त्रमृत्स्नया ॥८४॥खर्परे वालुकापूर्णे तिर्यगौषधकूपकम् ।अर्धं यन्त्रे निधायात्र श्रीगुरो संप्रदायत ॥८५॥अधोमुखं द्वितीयं तु स्थाप्यं चुल्ले पराङ्मुखे ।अध प्रज्वालयेदग्निं हठाद्यावद्रस स्रवेत् ॥८६॥धारयेत्काचजे पात्रे शङ्खद्रावरसं तत ।शाणैकं सेवयेत्पश्चाद्दन्तस्पर्शविवर्जितम् ॥८७॥गुल्मोदरयकृत्प्लीहविद्रधिग्रन्थिशूलनुत् ।बलपुष्टिप्रदो ह्येष भुक्तं जारयते क्षणात् ॥८८॥विलोक्यतामहो लोका रसमाहात्म्यमद्भुतम् ।कपर्दकाम्बुलोहानि यस्मिन्क्षिप्ते गलन्ति हि ॥८९॥पारदं तत्तृतीयांशं गन्धं दत्त्वा तु मर्दयेत् ।दशांशनवसारेण युतं चोन्मत्तवारिणा ॥९०॥खल्वे संमर्द्य तत्सर्वं काचकूप्यां निवेशयेत् ।गुरूक्तसम्प्रदायेन वालुकायन्त्रमध्यगम् ॥९१॥पचेत्षोडशयामांश्च मन्दमध्यहठाग्निना ।पक्व सुशीतलो ग्राह्यो हरगौरीरसो भवेत् ॥९२॥सूतं गन्धं समं कृत्वा सर्पाक्षीरसमर्दितम् ।पूर्ववत्पाचितं त्वन्ये हरगौरीरसं विदु ॥९३॥पारदाद्द्विगुणं गन्धं दत्त्वा कार्पासिकाद्रवै ।पूर्ववत्पाचितो ह्येष कामदेवरस स्मृत ॥९४॥समांशं क्षिप्यते स्वर्णं रूप्यं ताम्रं च मर्दयेत् ।मुसल्या चाखुपर्ण्या च मातुलुङ्गरसैस्त्र्यहम् ॥९५॥मोचचिञ्चात्मगुप्ताभिस्तदा मृत्युञ्जयो रस ।त्रयाणां सेवनं पथ्यमुच्यते क्रमशो गुणा ।एकमासं सिताज्याभ्यां सदा सेव्यो नरोत्तमै ॥९६॥एवं निषेव्य सूतेन्द्रं भुञ्जीत मधुरं सदा ।शाल्यन्नं गोपय खण्डं सितां जाङ्गलमामिषम् ॥९७॥गोधूमजान्विकारांश्च माषान्नं कदलीफलम् ।पनसं चाथ खर्जूरं द्राक्षां च नालिकेरकम् ॥९८॥सेवेत सर्वं तत्प्राज्ञो वृष्यं यत्किंचिदुच्यते ।वलीं संवत्सराद्धन्ति पलितं च द्विहायनात् ॥९९॥सेवया वज्रदेहोऽस्य द्रावद्वयेनिताशतम् ।न रेतसंक्षयस्तस्य षण्ढोऽपि पुरुषायते ॥१००॥ऊर्ध्वलिङ्ग सदा तिष्ठेल्ललनामक्षयं व्रजेत् ।तप्तहाटकवर्णाभ श्रीधीमेधाविभूषित ॥१०१॥हयवेगो मयूराक्षो वाराहश्रुतिरेव च ।अपर कामदेवोऽपि मानिनीमानमर्दन ॥१०२॥राजयक्ष्मादिरोगांश्च मेहान्जीर्णज्वरानपि ।ग्रहणीं हन्त्यतीसारं गोतक्राद्बहुमूत्रताम् ॥१०३॥सर्वरोगहरो ह्येष निजौषधानुपानत ।हरगौरीकामदेवरसो मृत्युञ्जयाभिध ॥१०४॥किमत्र बहुनोक्तेन जरामृत्युहरास्त्रय ।कज्जलीं सूतगन्धाभ्यां तुल्यमुन्मत्तबीजकम् ।तत्तैलमर्दितं सेव्य द्विवल्लां ससितापय ॥१०५॥मेहौघं नाशयेद्वीर्यं स्तम्भयेद्द्रावयेत्स्त्रियम् ।रस कामप्रदो नणां मानिनीमानमर्दन ॥१०६॥हेमबीजविषवङ्गसूतकं हंसपादकरं च जारणम् ।शुद्धसूतस्त्र्यहं स्वेद्यो मन्दाग्नौ दध्नि महिषे ।त्रुटिते त्रुटिते दद्याद्दधि तुर्येऽह्नि चोद्धरेत् ॥१०७॥तस्मिन्स्वर्णं क्षिपेत्प्राज्ञश्चतुषष्ठितमांभकम् ।मर्दयेन्निम्बुनीरेण यावदैक्यं हि जायते ॥१०८॥पुन संस्वेद्य तं सूतं वटशुङ्गाहिवल्लिजै ।काकमाच्या च जीवन्त्या रसै स्याद्यामयुग्मकात् ॥१०९॥दिनं शीताम्बुकुम्भस्थं दिनैकं दध्नि महिषे ।एवं सिद्धरसाद्वल्लं प्रत्यहं ब्रह्मचर्यधृक् ॥११०॥मासैकं सेवते भर्ता सितादुग्धौदनप्रिय ।त्रिफलानिम्बकार्पासीरसैर्नारी क्रमात्पृथक् ॥१११॥दिनानि सप्तसंख्यानि पीत्वा ऋतुसमागमे ।रसं वल्लं त्र्यहं चैकं कार्पास्यम्बुसितायुतम् ॥११२॥टङ्कणं स्फटिका सूतं पक्वाम्लिकरसान्वितम् ।त्रिदिनं मधुना योनेर्लेपं शुद्धिकरं परम् ॥११३॥महिष्या दधिमध्यस्थं दिवा सूतं त्रिमाषकम् ।स्त्रीसेवासमये रात्रौ भक्षयेद्दधिसंयुतम् ॥११४॥संभोगान्ते तथा स्थेयं यामार्धं संपुटेन च ।सर्वलक्षणसम्पन्नं सूतं जनयते वरम् ॥११५॥तापादिके समुत्पन्ने देयं द्राक्षासितादिकम् ।कार्य शीतोपचारश्च युवत्या भिषजा सदा ॥११६॥आयुर्वृद्धिं बलं कान्तिं नष्टवीर्यविवर्धनम् ।कुर्याद्रोगहर पुत्रप्रदो रुद्रविनिर्मित ॥११७॥रसं नागाञ्जनं चन्द्रं एकैकद्व्यर्धभागकम् ।सूक्ष्मचूर्णीकृतं नेत्रस्याञ्जनाद्दिव्यदृष्टिकृत् ॥११८॥सूतं गन्धं समं शुद्धं सप्तधा भावयेत्क्रमात् ।स्नुह्यर्कदुग्धै श्रीखण्डद्वयपथ्योभयारसै ॥११९॥समं नेपालजं चूर्णं देयमेकत्र मर्दयेत् ।उष्णाम्बुना वल्लयुग्मं देयमष्टगुणे गुडे ॥१२०॥मला पूर्वं जलं पश्चात्ततश्चाम शनै शनै ।उदराच्च विनान्त्राणि सर्वं निर्याति किल्बिषम् ॥१२१॥जाते विरेके संशुद्धे पथ्यं दध्योदनं हितम् ।जयेज्ज्वरादिकान्रोगान्रस सारणसुन्दर ॥१२२॥राढार्कौ मधुकं चैकसार्धद्विपञ्चभागकम् ।टङ्कैकोऽम्बुयुतो दत्तो रसोऽयं वामक स्मृत ॥१२३॥रसं गन्धं समं व्योषं मर्द्यमुन्मत्तकैर्दिनम् ।उन्मत्ताख्यो रसो नाम नस्यं स्यात्सन्निपातजित् ॥१२४॥ताम्रपत्रं गन्धलिप्तं वह्नौ तप्तं तु ताडितम् ।तच्चूर्णं तक्रसंयुक्तं वल्लार्धं वामयेद्भृशम् ॥१२५॥स्फटिका तुत्थनेपालं मरिचं निम्बबीजकम् ।पुत्रजीवकमज्जा च निम्बुकेनार्कभाजने ॥१२६॥भावना सप्त दातव्या गुटी गुञ्जामिताञ्जनात् ।सन्निपातमपस्मारं विषं सर्पस्य नाशयेत् ॥१२७॥आकल्लकं विषं कृष्णं हेमद्रुफलभस्मकम् ।उद्धूलनं स्वेदहरमेकद्वित्र्यष्टभागकै ॥१२८॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP