संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|वेणीसंहारः| द्वितीयोऽङ्कः वेणीसंहारः प्रथमोऽङ्कः द्वितीयोऽङ्कः तृतीयोऽङ्कः चतुर्थोऽङ्कः पञ्चमोऽङ्कः षष्ठोऽङ्कः वेणीसंहारः - द्वितीयोऽङ्कः भट्ट नारायण संस्कृत के महान नाटककार थे। वे अपनी केवल एक कृति वेणीसंहार के द्वारा संस्कृत साहित्य में अमर हैं। Tags : bhattanarayandramavenisamharनाटकभट्टनारायणवेणीसंहार द्वितीयोऽङ्कः Translation - भाषांतर ॥ ततः प्रविशति कञ्चुकी ॥कञ्चुकीःआदिष्टोऽस्मि महाराजदुर्योधनेन । विनयंधर सत्वरं गच्छ त्वं । अन्विष्यतां देवी भानुमती । अपि निवृत्ताम्बायाः पादवन्दनसमयान्न वेति । यतस्तां विलोक्य निहताभिमन्यवो राधेयजयद्रथप्रभृतयोऽस्मत्सेनापतयः समरभूमिं गत्वा सभाजयितव्या इति । तन्मया द्रुततरं गन्तव्यं । अहो प्रभविष्णुता महाराजस्य यन्मम जरसाभिभूतस्य मर्यादामात्रमेवावरोधव्यापारः । अथ वा किमिति जरामुपालभेय यतः सर्वान्तःपुरिकाणामेव व्यावहारिको वेषश्चेष्टा च । तथा हिपद्य २.१नोच्चैः सत्यपि चक्षुषीक्षितमलं श्रुत्वापि नाकर्णितं शक्तेनाप्यधिकार इत्यधिकृता यष्टिः समालम्बिता सर्वत्र स्खलितेषु दत्तमनसा यातं मया नोद्धतं सेवास्वीकृतजीवितस्य जरसा किं नाम यन्मे कृतं ॥२.१॥॥ परिक्रम्य दृष्ट्वाकाशे ॥विहंगिके अपि श्वश्रूजनपादवन्दनं कृत्वा प्रतिनिवृत्ता भानुमती ।॥ कर्णं दत्त्वा ॥किं कथयसि । एषा भानुमती देवी पत्युः समरविजयाशंसया निर्वर्तितगुरुदेवपादवन्दनाद्यप्रभृत्यारब्धनियमा बालोद्याने तिष्ठतीति । तद्भद्रे गच्छ त्वमात्मव्यापाराय यावदहमप्यत्रस्थां देवीं महाराजाय निवेदयामि ।॥ इति परिक्रम्य ॥साधु पतिव्रते साधु स्त्रीभावेऽपि वर्तमाना वरं भवती न पुनर्महाराजः योऽयमुद्यतेषु बलवत्स्वबलवत्सु वा वासुदेवसहायेषु पाण्डुपुत्रेष्वरिष्वद्याप्यन्तःपुरविहारमनुभवति ।॥ विचिन्त्य ॥इदमपरमयथातथं स्वामिनश्चेष्टितं । कुतःपद्य २.२आ शस्त्रग्रहणादकुण्ठपरशोस्तस्यापि जेता मुने स्तापायास्य न पाण्डुसूनुभिरयं भीष्मः शरैः शायितः प्रौढानेकधनुर्धरारिविजयश्रान्तस्य चैकाकिनो बालस्यायमरातिलूनधनुषः प्रीतोऽभिमन्योर्वधाथ् ॥२.२॥सर्वथा दैवं नः स्वस्ति करिष्यति । तद्यावदत्रस्थां देवीं महाराजाय निवेदयामि ।॥ इति निष्क्रान्तः ॥विष्कम्भकः ।॥ ततः प्रविशत्यासनस्था देवी भानुमती सखी चेटी च ॥सखीः२७}सहि भाणुमदि कीस दाणिं तुमं सिबिणादंसणमेत्तस्स किदे अहिमाणिणो महाराअदुज्जोहणस्स महिसी भविअ एव्वं विअलिअधीरभावा अदिमेत्तं संतप्पसि ।२७: सखि भानुमति कस्मादिदानीं त्वं स्वप्नदर्शनमात्रस्य कृतेऽभिमानिनो महाराजदुर्योधनस्य महिषी भूत्वैवं विगलितधीरभावातिमात्रं संतप्यसे ।चेटीः२८}भट्टिणि सोहणं भणादि सुवाणा । सिबिणान्तो जणो किं ण खु पलबदि ।२८: भट्टिनि शोभनं वदति सुवदना । स्वपञ्जनः किं न खलु प्रलपति ।भानुमतीः२९}हञ्जे एव्वं एदं । किं दु एदं सिबिणां अदिमेत्तं अकुसलदंसणं मे पडिभादि ।२९: हञ्जे एवमेतथ् । किं त्वयं स्वप्नोऽतिमात्रमकुशलदर्शनो मे प्रतिभाति ।सखीः३०}पिअसहि जै एव्वं ता कहेहि सिबिणां जेण अम्हे बि पडिट्ठाबान्तीओ धम्मप्पसंसाए देवदासंकित्तणेण दुव्वादिपडिग्गहेण अ पडिहडिस्सामो ।३०: प्रियसखि यद्येवं तत्कथय स्वप्नं येनावामपि प्रतिष्ठापयन्त्यौ धर्मप्रशंसया देवतासंकीर्तनेन दूर्वादिपरिग्रहेण च परिहरिष्यावः ।चेटीः३१}सोहणं क्खु भणादि सुवाणा । अकुसलदंसणा सिबिणऽ देवदाणं पसंसाए कुसलपरिणामा होन्ति त्ति सुणीअदि ।३१: शोभनं खलु भणति सुवदना । अकुशलदर्शनाः स्वप्ना देवतानां प्रशंसया कुशलपरिणामा भवन्तीति श्रूयते ।भानुमतीः३२}जै एव्वं ता कहैस्सं । अवहिदा दाव होहि ।३२: यद्येवं तत्कथयिष्ये । अवहिता तावद्भव ।सखीः३३}अवहिदम्हि । कहेदु पिअसही ।३३: अवहितास्मि । कथयतु प्रियसखी ।भानुमतीः३४}हला भएण विसुमरिदम्हि । ता चिट्ठ जाव सव्वं सुमरिअ कहैस्सं ।॥ इति चिन्तां नाटयति ॥३४: हला भयेन विस्मृतास्मि । तत्तिष्ठ यावत्सर्वं स्मृत्वा कथयिष्यामि ।॥ ततः प्रविशति दुर्योधनः कञ्चुकी च ॥दुर्योधनः:सूक्तमिदं कस्यचिथ् ।पद्य २.३गुप्त्या साक्षान्महानल्पः स्वयमन्येन वा कृतः ।करोति महतीं प्रीतिमपकारोऽपकारिणां ॥२.३॥येनाद्य द्रोणकर्णजयद्रथादिभिर्हतमभिमन्युमुपश्रुत्य समुच्छ्वासितमिव नश्चेतसा ।कञ्चुकीःदेव नेदमतिदुष्करमाचार्यशस्त्रप्रभावाणां कर्णजयद्रथयोर्वा । का नामात्र श्लाघा ।राजाःविनयंधर किमाह भवान् । एको बहुभिर्बालो लूनशरासनश्च निहत इत्यत्र का श्लाघा कुरुपुंगवानामिति । मूढ पश्य ।पद्य २.४हते जरति गाङ्गेये पुरस्कृत्य शिखण्डिनं ।या श्लाघा पाण्डुपुत्राणां सैवास्माकं भविष्यति ॥२.४॥कञ्चुकीः॥ सवैलक्ष्यम् ॥देव न ममायं संकल्पः । किं तु भवत्पौरुषप्रतीघातोऽस्माभिर्नावलोकितपूर्व इत्यत एवं विज्ञापयामि ।राजाःएवमिदं ।पद्य २.५सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजं ।स्वबलेन निहन्ति संयुगे न चिरात्पाण्डुसुतः सुयोधनं ॥२.५॥कञ्चुकीः॥ कर्णौ पिधाय सभयम् ॥शान्तं पापं । प्रतिहतममङ्गलं ।राजाःविनयंधर किं मयोक्तं ।कञ्चुकीः॥ सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजं । स्वबलेन निहन्ति संयुगे न चिरात्पाण्डुसुतं सुयोधनः ॥इति पठति ॥एतद्विपरीतमभिहितं देवेन ।राजाःविनयंधर अद्य खलु भानुमती यथापूर्वं मामनामन्त्र्य वासभवनात्प्रातरेव निष्क्रान्तेति व्याक्षिप्तं मे मनः । तदादेशय तमुद्देशं यत्रस्था भानुमती ।कञ्चुकीःइत इतो देवः ।॥ उभौ परिक्रामतः ॥कञ्चुकीः॥ पुरोऽवलोक्य समन्ततो गन्धमाघ्राय ॥देव पश्य पश्य । एतत्तुहिनकणशिशिरसमीरणोद्वेल्लितबन्धनच्युतशेफालिकाविरचितकुसुमप्रकरमीषदालोहितमुग्धवधूकपोलपाटललोध्रप्रसूनविजितश्यामलतासौभाग्यमुन्मीलितबकुलकुन्दकुसुमसुरभिशीतलं प्रभातकालरमणीयमग्रतस्ते बालोद्यानं । तदवलोकयतु देवः । तथा हिपद्य २.६प्रालेयमिश्रमकरन्दकरालकोशैः पुष्पैः समं निपतिता रजनीप्रबुद्धैः अर्कांशुभिन्नमुकुलोदरसान्द्रगन्ध संसूचितानि कमलान्यलयः पतन्ति ॥२.६॥राजाः॥ समन्तादवलोक्य ॥विनयंधर इदमपरममुष्मिन्नुषसि रमणीयं । पश्य ।पद्य २.७जृम्भारम्भप्रविततदलोपान्तजालप्रविष्टै र्हस्तैर्भानोर्नृपतय इव स्पृश्यमाना विबुद्धाः स्त्रीभिः सार्धं घनपरिमलस्तोकलक्ष्याङ्गरागा मुञ्चन्त्येते विकचनलिनीगर्भशय्यां द्विरेफाः ॥२.७॥कञ्चुकीःदेव नन्वेषा देवी भानुमती सुवदनया तरलिकया च पर्युपास्यमाना तिष्ठति । तदुपसर्पतु देवः ।राजाः॥ दृष्ट्वा ॥आर्य विनयंधर गच्छ त्वं सांग्रामिकं मे रथमुपकल्पयितुं । अहमप्येष देवीं दृष्ट्वानुपदमागत एव ।कञ्चुकीःएष कृतो देवादेशः ।॥ इति निष्क्रान्तः ॥सखीः३५}पिअसहि अबि सुमरिदं तुए ।३५: प्रियसखि अपि स्मृतं त्वया ।भानुमतीः३६}सहि सुमरिदं । अज्ज किल पमदवणे आसीणाए मम अग्गदो केण बि अदिसैददिव्वरूबिणा णौलेण अहिसदं वाबादिदं ।३६: सखि स्मृतं । अद्य किल प्रमदवन आसीनाया ममाग्रतः केनाप्यतिशयितदिव्यरूपिणा नकुलेनाहिशतं व्यापादितं ।उभेः३७}॥ अपवार्यात्मगतम् ॥सन्तं पाबं पडिहदं अमङ्गलं ।॥ प्रकाशम् ॥तदो तदो ।३७: शान्तं पापं प्रतिहतममङ्गलं । ततस्ततः ।भानुमतीः३८}अदिसंदाबोबगहीअहिऽए विसुमरिदं मए । ता पुणो बि सुमरिअ कहैस्सं ।३८: अतिसंतापोपगृहीतहृदयया विस्मृतं मया । तत्पुनरपि स्मृत्वा कथयिष्ये ।राजाःअहो देवी भानुमती सुवदनातरलिकाभ्यां सह किमपि मन्त्रयमाणा तिष्ठति । भवतु । अनेन लताजालेनान्तरितः शृणोमि तावदासां विश्रब्धालापं ।॥ इति तथा स्थितः ॥सखीः३९}सहि अलं संदाबेण । कहेदु पिअसही ।३९: सखि अलं संतापेन । कथयतु प्रियसखी ।राजाःकिं नु खल्वस्याः संतापकारणं । अथ वानामन्त्र्य मामियमद्य वासभवनान्निष्क्रान्तेति समर्थित एवास्या मया कोपः । अयि भानुमति अविषयः खलु दुर्योधनो भवत्याः कोपस्य ।पद्य २.८किं कण्ठे शिथिलीकृतो भुजलतापाशः प्रमादान्मया निद्राच्छेदविवर्तनेष्वभिमुखं नाद्यासि संभाविता अन्यस्त्रीजनसंकथालघुरहं स्वप्ने त्वया लक्षितो दोषं पश्यसि कं प्रिये परिजनोपालम्भयोग्ये मयि ॥२.८॥॥ विचिन्त्य ॥अथ वापद्य २.९इयमस्मदुपाश्रयैकचित्ता मनसा प्रेमनिबद्धमत्सरेण ।नियतं कुपितातिवल्लभत्वात्स्वयमुत्प्रेक्ष्य ममापराधलेशं ॥२.९॥तथापि शृणुमस्तावत्किं वक्ष्यतीति ।भानुमतीः४०}हला हं तदो तस्स अदिसैददिव्वरूबिणो णौलस्स दंसणेण उस्सुआ जादा ।४०: हला अहं ततस्तस्यातिशयितदिव्यरूपिणो नकुलस्य दर्शनेनोत्सुका जाता ।राजाः॥ सवैलक्ष्यम् ॥किं नामातिशयितदिव्यरूपिणो नकुलस्य दर्शनेनोत्सुका जाता । तत्किमनया पापया माद्रीसुतानुरक्तया वयमेवं विप्रलब्धाः ।॥ सोत्प्रेक्षमियमस्मदिति पठित्वा ॥मूढ दुर्योधन कुलटाविप्रलभ्यमानमात्मानं बहुमन्यमानोऽधुना किं वक्ष्यसि ।॥ किं कण्ठ इत्यादि पठित्वा दिशोऽवलोक्य ॥अहो एतदर्थमेवास्याः प्रातरेव विविक्तस्थानाभिलाषः सखीजनसंकथासु च पक्षपातः । दुर्योधनस्तु मोहादविज्ञातबन्धकीहृदयसारः क्वापि परिभ्रान्तः । आः पापे मत्परिग्रहपांसुलेपद्य २.१०तद्भीरुत्वं तव मम पुरः साहसानीदृशानि श्लाघा सास्मद्वपुषि विनयव्युत्क्रमेऽप्येष रागः तच्चौदार्यं मयि जडमतौ चापले कोऽपि पन्थाः ख्याते तस्मिन्वितमसि कुले जन्म कौलीनमेतथ् ॥२.१०॥सखीः४१}तदो तदो ।४१: ततस्ततः ।भानुमतीः४२}तदो उज्झिअ तं आसणट्ठाणं लदामण्डबं पविट्ठा । तदो सो बि मं अणुसरन्तो एव्व लदामण्डबं पविट्ठो ।४२: तत उज्झित्वा तदासनस्थानं लतामण्डपं प्रविष्टा । ततः सोऽपि मामनुसरन्नेव लतामण्डपं प्रविष्टः ।राजाःअहो कुटलोचितमस्याः पापाया अशालीनत्वं ।पद्य २.११यस्मिंश्चिरप्रणयनिर्भरबद्धभाव मावेदितो रहसि मत्सुरतोपभोगः तत्रैव दुश्चरितमद्य निवेदयन्ती ह्रीणासि पापहृदये न सखीजनेऽस्मिन् ॥२.११॥उभेः४३}तदो तदो ।४३: ततस्ततः ।भानुमतीः४४}तदो तेण सगव्वं पसारिअकरेण अपहरिअं मे थणंसुअं ।४४: ततस्तेन सगर्वं प्रसारितकरेणापहृतं मे स्तनांशुकं ।राजाः॥ विचिन्त्य ॥सगर्वं प्रसारितकरेणापहृतं मे स्तनांशुकं ।॥ सक्रोधम् ॥अलमतः परं श्रुत्वा । भवतु तावत्तस्य परवनितास्कन्दनप्रगल्भस्य माद्रीसुतहतकस्य जीवितमपहरामि ।॥ किंचिद्गत्वा विचिन्त्य ॥अथ वेयमेव तावत्पापशीला प्रथममनुशासनीया ।॥ इति निवर्तते ॥उभेः{ण्_४५}तदो तदो ।४५: ततस्ततः ।भानुमतीः४६}तदो हं अज्जौत्तस्स पभादमङ्गलतूररवमिस्सेण वारविलासिणीसंगीदसद्देण पडिबोधिदम्हि ।४६: ततोऽहमार्यपुत्रस्य प्रभातमङ्गलतूर्यरवमिश्रेण वारविलासिनीसंगीतशब्देन प्रतिबोधितास्मि ।राजाः॥ सवितर्कम् ॥किं नु प्रतिबोधितास्मीति स्वप्नदर्शनमनया वर्णितं भवेथ् ।॥ विचिन्त्य ॥भवतु सखीवचनाद्व्यक्तिर्भविष्यति ।॥ उभे सविषादमन्योऽन्यं पश्यतः ॥सुवदनाः४७}जं किं बि एत्थ अच्चाहिदं तं भाईरहीप्पमुहाणं णईणं सलिलेण अवहरीअदु । भावदाणं बम्हणाणं बि आसीसाए आहुदिहुदेण पज्जलिदेण भावदा हुदासणेण अ णस्सदु ।४७: यत्किमप्यत्रात्याहितं तद्भागीरथीप्रमुखाणां नदीनां सलिलेनापह्रियतां । भगवतां ब्राह्मणानामप्याशिषाहुतिहुतेन प्रज्वलितेन भगवता हुताशनेन च नश्यतु ।राजाःअलं विकल्पेन । स्वप्नदर्शनमेवैतदनया वर्णितं । मया पुनर्मन्दधियान्यथैव संभावितं ।पद्य २.१२दिष्ट्यार्धश्रुतिविप्रलम्भजनितक्रोधादहं नो गतो दिष्ट्या नो परुषं रुषार्धकथने किंचिन्मया व्याहृतं मां प्रत्याययितुं विमूढहृदयं दिष्ट्या कथान्तं गता मिथ्यादूषितयानया विरहितं दिष्ट्या न जातं जगथ् ॥२.१२॥भानुमतीः४८}हला कहेहि किं एत्थ सुहसूआं ।४८: हला कथय किमत्र शुभसूचकं ।सखी चेटी चः४९}॥ अन्योऽन्यमवलोक्यापवार्य ॥एत्थ णत्थि थोअं बि सुहसूआं । जै एत्थ अलीअं कहैस्सं ता पिअसहीए अबराहिणी भविस्सं । सो एव्व सिणिद्धो जणो जो पुच्छिदो परुसं बि हिदं भणादि ।॥ प्रकाशम् ॥सहि सव्वं एव्व एदं असुहणिवेदणं । ता देवदाणं पणामेण दुजादिजणपडिग्गहेण अ अन्तरीअदु । ण हु दाठिणो णौलस्स वा दंसणं अहिसदवहं अ सिबिणए पसंसन्ति विअक्खणा ।४९: अत्र नास्ति स्तोकमपि शुभसूचकं । यद्यत्रालीकं कथयिष्ये तत्प्रियसख्या अपराधिनी भविष्यामि । स एव स्निग्धो जनो यः पृष्टः परुषमपि हितं भणति । सखि सर्वमेवैतदशुभनिवेदनं । तद्देवतानां प्रणामेन द्विजातिजनप्रतिग्रहेण चान्तर्यतां । न खलु दंष्ट्रिणो नकुलस्य वा दर्शनमहिशतवधं च स्वप्ने प्रशंसन्ति विचक्षणाः ।राजाःअवितथमाह सुवदना । नकुलेन पन्नगशतवधः स्तनांशुकापहरणं च नियतमरिष्टोदर्कं तर्कयामि ।पद्य २.१३पर्यायेण हि दृश्यन्ते स्वप्नाः कामं शुभाशुभाः ।शतसंख्या पुनरियं सानुजं स्पृशतीव मां ॥२.१३॥॥ वामाक्षिस्पन्दनं सूचयित्वा ॥आः ममापि नाम दुर्योधनस्यानिमित्तानि हृदयक्षोभमावेदयन्ति ।॥ सावष्टम्भम् ॥अथ वा भीरुजनहृदयप्रकम्पनेषु का गणना दुर्योधनस्यैवंविधेषु । गीतश्चायमर्थोऽङ्गिरसा ।पद्य २.१४ग्रहाणां चरितं स्वप्नोऽनिमित्तान्युपयाचितं ।फलन्ति काकतालीयं तेभ्यः प्राज्ञा न बिभ्यति ॥२.१४॥तद्भानुमत्याः स्त्रीस्वभावसुलभामलीकाशङ्कामपनयामि ।भानुमतीः५०}हला सुवाणे पेक्ख दाव उदागिरिसिहरन्तरिदविमुक्करहवरो विअलिदसंझाराअप्पसण्णदुरालोअमण्डलो जादो भावं दिअहणाहो ।५०: हला सुवदने पश्य तावदुदयगिरिशिखरान्तरितविमुक्तरथवरो विगलितसंध्यारागप्रसन्नदुरालोकमण्डलो जातो भगवान्दिवसनाथः ।सखीः५१}सहि रोसाणिदकणापत्तसरिसेण लदाजालन्तरोबहिदकिरणणिवहेण पिञ्जरिदुज्जाणभूमिभॉ दुप्पेक्खणिज्जो भावं सहस्सरस्सी संवुत्तो । ता समओ दे लोहिदचन्दणकुसुमगब्भेण अग्घेण पज्जुबट्ठादुं ।५१: सखि रोषाणितकनकपत्रसदृशेन लताजालान्तरोपहितकिरणनिवहेन पिञ्जरितोद्यानभूमिभागो दुःप्रेक्षणीयो भगवान्सहस्ररश्मिः संवृत्तः । तत्समयस्ते लोहितचन्दनकुसुमगर्भेणार्घेण पर्युपस्थातुं ।भानुमतीः५२}हञ्जे तरलिए उबणेहि मे अग्घभाअणं जाव भावदो सहस्सरस्सिणो सबरिअं णिव्वत्तेमि ।५२: हञ्जे तरलिके उपनय मेऽर्घ्यभाजनं यावद्भगवतः सहस्ररश्मेः सपर्यां निर्वर्तयामि ।चेटीः५३}जं देवी आणबेदि ।॥ इति निष्क्रान्ता ॥५३: यद्देव्याज्ञापयति ।राजाःअयमेव साधुतरोवसरः प्रियासमीपमुपगन्तुं ।॥ इत्युपसर्पति ॥॥ प्रविश्य ॥चेटीः५४}भट्टिणि एदं अग्घभाअणं । ता णिव्वत्तीअदु भावदो सहस्सरस्सिणो सबरिआ ।५४: भट्टिनि इदमर्घ्यभाजनं । तन्निवर्त्यतां भगवतः सहस्ररश्मेः सपर्या ।सखीः५५}॥ विलोक्यात्मगतम् ॥कहं महारॉ आअदो । हन्त जादो से णिअमभङ्गो ।५५: कथं महाराज आगतः । हन्त जातोऽस्या नियमभङ्गः ।॥ राजोपसृत्य संज्ञया परिजनमुत्सार्य स्वयमेवार्घ्यपात्रं गृहीत्वा ददाति ॥भानुमतीः५६}॥ दिनकराभिमुखी भूत्वा ॥भावं अम्बरमहासरेक्कसहस्सपत्त पुव्वदिहावहूमुहमण्डलकुङ्कुमविसेसा सालभुअणेक्कराणप्पदीब जं एत्थ सिबिणादंसणे किं बि अच्चाहिदं तं भावदो पणामेण सभादुअस्स अज्जौत्तस्स कुसलपरिणामि होदु ।॥ अर्घ्यं दत्त्वा ॥हञ्जे तरलिए उबणेहि मे कुसुमाइं । अबराणं बि देवदाणं सबरिअं णिव्वत्तेमि ।॥ हस्तौ प्रसारयति ॥५६: भगवन्नम्बरमहासरएकसहस्रपत्र पूर्वदिशावधूमुखमण्डलकुङ्कुमविशेषक सकलभुवनैकरत्नप्रदीप यदत्र स्वप्नदर्शने किमप्यत्याहितं तद्भगवतः प्रणामेन सभ्रातृकस्यार्यपुत्रस्य कुशलपरिणामि भवतु । हञ्जे तरलिके उपनय मे कुसुमानि । अपरासामपि देवतानां सपर्यां निर्वर्तयामि ।॥ राजा पुष्पाण्युपनयति स्पर्शसुखमभिनीय च कुसुमानि भूमौ पातयति ॥भानुमतीः५७}॥ सरोषम् ॥अहो पमादो परिअणस्स ।॥ परिवृत्य दृष्ट्वा ससंभ्रमम् ॥कहं अज्जौत्तो ।५७: अहो प्रमादः परिजनस्य । कथमार्यपुत्रः ।राजाःदेवि अनिपुणः परिजनोऽयमेवंविधे सेवावकाशे । तत्प्रभवत्यत्रानुशासने देवी ।॥ भानुमती लज्जां नाटयति ॥राजाःअयि प्रियेपद्य २.१५विकिर धवलदीर्घापाङ्गसंसर्पि चक्षुः परिजनपथवर्तिन्यत्र किं संभ्रमेण स्मितमधुरमुदारं देवि मामालपोच्चैः प्रभवति मम पाण्योरञ्जलिः सेवितुं त्वां ॥२.१५॥भानुमतीः५८}अज्जौत्त अब्भणुण्णादाए तुए अत्थि मे कस्सिं बि णिअमे अहिलासो ।५८: आर्यपुत्र अभ्यनुज्ञातायास्त्वयास्ति मे कस्मिन्नपि नियमेऽभिलाषः ।राजाःश्रुतविस्तार एवास्मि भवत्याः स्वप्नवृत्तान्तं प्रति । तदलमेवं प्रकृतिसुकुमारमात्मानं खेदयितुं ।भानुमतीः५९}अज्जौत्त अदिमेत्तं मे सङ्का बाहेइ । ता अणुमण्णदु मं अज्जौत्त ।५९: आर्यपुत्र अतिमात्रं मां शङ्का बाधते । तदनुमन्यतां मामार्यपुत्रः ।राजाः॥ सगर्वम् ॥देवि अलमनया शङ्कया । पश्य ।पद्य २.१६किं नो व्याप्तदिशां प्रकम्पितभुवामक्षौहिणीनां फलं किं द्रोणेन किमङ्गराजविशिखैरेवं यदि क्लाम्यसि भीरु भ्रातृशतस्य मे भुजवनच्छायां सुखोपस्थिता त्वं दुर्योधनकेसरीन्द्रगृहिणी शङ्कास्पदं किं तव ॥२.१६॥भानुमतीः६०}अज्जौत्त ण हु किं बि मे सङ्काकालणं तुम्हेसु सण्णिहिदेसु । किं तु अज्जौत्तस्स एव्व मणोरहसंपत्तिं अभिणन्दामि ।६०: आर्यपुत्र न खलु किमपि मे शङ्काकारणं युष्मासु संनिहितेषु । किं त्वार्यपुत्रस्यैव मनोरथसंपत्तिमभिनन्दामि ।राजाःअयि सुन्दरि एतावन्त एव मनोरथा यदहं दयितया संगतः स्वेच्छया विहरामीति । पश्य ।पद्य २.१७प्रेमाबद्धस्तिमितनयनापीयमानाब्जशोभं लज्जायोगादविशदकथं मन्दमन्दस्मितं वा वक्त्रेन्दुं ते नियममुषितालक्तकाग्राधरं वा । पातुं वाञ्छा परमसुलभं किं नु दुर्योधनस्य ॥२.१७॥॥ नेपथ्ये महान्कलकलः । सर्व आकर्णयन्ति ॥भानुमतीः६१}॥ सभयं राजानं परिष्वज्य ॥परित्ताअदु परित्ताअदु अज्जौत्तो ।६१: परित्रायतां परित्रायतामार्यपुत्रः ।राजाः॥ समन्तादवलोक्य ॥प्रिये अलं संभ्रमेण । पश्य ।पद्य २.१८दिक्षु व्यूढाङ्घ्रिपाङ्गस्तृणजटिलचलत्पांशुदण्डोऽन्तरिक्षे झांकारी शर्करालः पथिषु विटपिनां स्कन्धकाषैः सधूमः प्रासादानां निकुञ्जेष्वभिनवजलदोद्गारगम्भीरधीर श्चण्डारम्भः समीरो वहति परिदिशं भीरु किं संभ्रमेण ॥२.१८॥सखीः६२}महारॉ पविसदु एदं दारुपव्वापासादं । उव्वेअकारी खु आं उत्थिदपरुसराकलुसीकिदणाणो उम्मूलिदतरुवरसद्दवित्तत्थमन्दुरापरिब्भट्ठवल्लहतुलंगमपज्जाउलीकिदजणपद्धई भीसणो समीरणासारो ।६२: महाराजः प्रविशत्विमं दारुपर्वतप्रासादं । उद्वेगकारी खल्वयमुत्थितपरुषरजःकलुषीकृतनयन उन्मूलिततरुवरशब्दवित्रस्तमन्दुरापरिभ्रष्टवल्लभतुरंगमपर्याकुलीकृतजनपद्धतिर्भीषणः समीरणासारः ।राजाः॥ सहर्षम् ॥उपकारि खल्विदं वात्याचक्रं सुयोधनस्य । यस्य प्रसादादयत्नपरित्यक्तनियमया देव्या संपादितोऽस्मन्मनोरथः । कथमिति ।पद्य २.१९न्यस्ता न भ्रुकुटिर्न बाष्पसलिलैराच्छादिते लोचने नीतं नाननमन्यतः सशपथं नाहं स्पृशन्वारितः तन्व्या मग्नपयोधरं भयवशादाबद्धमालिङ्गितं भङ्क्तास्या नियमस्य भीषणमरुन्नायं वयस्यो मम ॥२.१९॥तत्संपूर्णमनोरथस्य मे कामचारः संप्रति विहारेषु । तदितो दारुपर्वतप्रासादमेव गच्छामः ।॥ सर्वे वात्याबाधां रूपयन्तो यत्नतः परिक्रामन्ति ॥राजाःपद्य २.२०कुरु घनोरु पदानि शनैः शनैरयि विमुञ्च गतिं परिवेपिनीं ।पतसि बाहुलतोपरिबन्धनं मम निपीडय गाढमुरःस्थलं ॥२.२०॥॥ प्रवेशं रूपयित्वा ॥प्रिये अलब्धावकाशः समीरणः संवृतत्वाद्गर्भगृहस्य । विस्रब्धमुन्मीलय चक्षुरुन्मृष्टरेणुनिकरं ।भानुमतीः६३}॥ सहर्षम् ॥दिट्ठिआ इह दाव उप्पादसमीरणो ण बाधेदि ।६३: दिष्ट्येह तावदुत्पातसमीरणो न बाधते ।सखीः६४}महाराअ आरोहणसंभमणिस्सहं पिअसहीए ऊरुजुअलं । ता कीस दाणिं महारॉ आसणवेदिं ण भूसेदि ।६४: महाराज आरोहणसंभ्रमनिःसहं प्रियसख्या ऊरुयुगलं । तत्कस्मादिदानीं महाराज आसनवेदीं न भूषयति ।राजाः॥ देवीमवलोक्य ॥भवति अनल्पमेवापकृतं वात्यासंभ्रमेण । तथा हिपद्य २.२१रेणुर्बाधां विधत्ते तनुरपि महतीं नेत्रयोरायतत्वा दुत्कम्पोऽल्पोऽपि पीनस्तनभरितमुरः क्षिप्तहारं दुनोति ऊर्वोर्मन्देऽपि याते पृथुजघनभराद्वेपथुर्वर्धतेऽस्या वात्या खेदं कृशाङ्गयाः सुचिरमवयवैर्दत्तहस्ता करोति ॥२.२१॥॥ सर्व उपविशन्ति ॥राजाःतत्किमित्यनास्तीर्णं कठिनं शिलातलमध्यास्ते देवी ।पद्य २.२२लोलांशुकस्य पवनाकुलितांशुकान्तं त्वद्दृष्टिहारि मम लोचनबान्धवस्य अध्यासितुं तव चिरं जघनस्थलस्य पर्याप्तमेव करभोरु ममोरुयुग्मं ॥२.२२॥॥ प्रविश्य पटाक्षेपेण संभ्रान्तः ॥कञ्चुकीःदेव भग्नं भग्नं ।॥ सर्वे सातङ्कं पश्यन्ति ॥राजाःकिं नाम ।कञ्चुकीःभग्नं भीमेन ।राजाःआः किं प्रलपसि ।भानुमतीः६५}अज्ज किं अणत्थं मन्तेसि ।६५: आर्य किमनर्थं मन्त्रयसे ।कञ्चुकीः॥ सभयम् ॥ननु भग्नं भीमेन भवतः ।राजाःधिक्प्रलापिन्वृद्धापसद कोऽयमद्य ते व्यामोहः ।कञ्चुकीःदेव न खलु कश्चिद्व्यामोहः । सत्यमेव ब्रवीमि ।पद्य २.२३भग्नं भीमेन भवतो मरुता रथकेतनं ।पतितं किङ्किणीक्वाणबद्धाक्रन्दमिव क्षितौ ॥२.२३॥राजाःबलवत्समीरणवेगात्कम्पिते भुवने भग्नः स्यन्दनकेतुः । तत्किमित्युद्धतं प्रलपसि भग्नं भग्नमिति ।कञ्चुकीःदेव न किंचिथ् । किं तु शमनार्थमस्यानिमित्तस्य विज्ञापयितव्यो देव इति स्वामिभक्तिर्मां मुखरयति ।भानुमतीः६६}अज्जौत्त परिहरीअदु एदं अणिमित्तं पसण्णबम्हणवेआणुघोसेण होमेण अ ।६६: आर्यपुत्र परिहार्यतामेतदनिमित्तं प्रसन्नब्राह्मणवेदानुघोषेण होमेन च ।राजाः॥ सावज्ञम् ॥ननु गच्छ । पुरोहितसुमित्राय निवेदय ।कञ्चुकीःयदाज्ञापयति देवः ।॥ इति निष्क्रान्तः ॥॥ प्रविश्य ॥प्रतीहारीः६७}॥ सोद्वेगमुपसृत्य ॥जादु जादु महारॉ । महाराअ एसा खु जामादुणो सिन्धुराअस्स मादा दुस्सला अ पडिहारभूमीए चिट्ठदि ।६७: जयतु जयतु महाराजः । महाराज एषा खलु जामातुः सिन्धुराजस्य माता दुःशला च प्रतीहारभूमौ तिष्ठति ।राजाः॥ किंचिद्विचिन्त्यात्मगतम् ॥किं जयद्रथमाता दुःशला चेति । कच्चिदभिमन्युवधामर्षितैः पाण्डुपुत्रैर्न किंचिदत्याहितमाचेष्टितं भवेथ् ।॥ प्रकाशम् ॥गच्छ । प्रवेशय शीघ्रं ।प्रतीहारीः६८}जं महारॉ आणबेदि ।॥ इति निष्क्रान्तः ॥६८: यन्महाराज आज्ञापयति ।॥ ततः प्रविशति संभ्रान्ता जयद्रथमाता दुःशला च । उभे सास्रं दुर्योधनस्य पादयोः पततः ॥माताः६९}परित्ताअदु परित्ताअदु कुलुणाहो ।६९: परित्रायतां परित्रायतां कुरुनाथः ।॥ दुःशला रोदिति ॥राजाः॥ ससंभ्रममुत्थाप्य ॥अम्ब समाश्वसिहि समाश्वसिहि । किमत्याहितं । अपि कुशलं समराङ्गणेष्वप्रतिरथस्य जयद्रथस्य ।माताः७०}जाद कुदो कुसलं ।७०: जात कुतः कुशलं ।राजाःकथमिव ।माताः७१}॥ साशङ्कम् ॥अज्ज खु पुत्तवहामरिसुद्दीबिदेण गण्डीविणा अणत्थमिदे दिअसणाहे तस्स वहो पडिण्णादो ।७१: अद्य खलु पुत्रवधामर्षोद्दीपितेन गाण्डीविनानस्तमिते दिवसनाथे तस्य वधः प्रतिज्ञातः ।राजाः॥ सस्मितम् ॥इदं तदश्रुकारणमम्बाया दुःशलायाश्च । पुत्रशोकादुन्मत्तस्य किरीटिनः प्रलापैरेवमवस्था । अहो मुग्धत्वमबलानां । अम्ब कृतं विषादेन । वत्से दुःशले अलमश्रुपातेन । कुतश्चायं तस्य धनंजयस्य प्रभावो दुर्योधनबाहुपरिघरक्षितस्य महारथजयद्रथस्य विपत्तिमुत्पादयितुं ।माताः७२}जाद पुत्तबन्धुवहामरिसुद्दीबिदकोबाणला अणवेक्खिदसरीरा वीरा परिक्कमन्ति ।७२: जात पुत्रबन्धुवधामर्षोद्दीपितकोपानला अनपेक्षितशरीरा वीराः परिक्रामन्ति ।राजाः॥ सोपहासम् ॥एवमेतथ् । सर्वजनप्रसिद्धैवामर्षिता पाण्डवानां । पश्य ।पद्य २.२४हस्ताकृष्टविलोलकेशवसना दुःशासनेनाज्ञया पाञ्चाली मम राजचक्रपुरतो गौर्गौरिति व्याहृता तस्मिन्नेव स किं नु गाण्डिवधरो नासीत्पृथानन्दनो यूनः क्षत्रियवंशजस्य कृतिनः क्रोधास्पदं किं न तथ् ॥२.२४॥माताः७३}असमत्तपडिण्णाभरस्स अत्तवहो से पडिण्णादो ।७३: असमाप्तप्रतिज्ञाभरस्यात्मवधोऽस्य प्रतिज्ञातः ।राजाःयद्येवमलमानन्दस्थानेऽपि ते विषादेन । ननु वक्तव्यमुत्सन्नः सानुजो युधिष्ठिर इति । अन्यच्च मातः का शक्तिरस्ति धनंजयस्यान्यस्य वा कुरुशतपरिवारवर्धितमहिम्नः कृपकर्णद्रोणाश्वत्थामादिमहारथद्विगुणीकृतनिरावरणविक्रमस्य नामापि ग्रहीतुं ते तनयस्य । अयि सुतपराक्रमानभिज्ञेपद्य २.२५धर्मात्मजं प्रति यमौ च कथैव नास्ति मध्ये वृकोदरकिरीटभृतोर्बलेन एकोऽपि विस्फुरितमण्डलचापचक्रं कः सिन्धुराजमभिषेणयितुं समर्थः ॥२.२५॥भानुमतीः७४}अज्जौत्त जै बि एव्वं तह बि गुरुकिदपडिण्णाभरो धणंजओ णिदाणं क्खु संकाए ।७४: आर्यपुत्र यद्यप्येवं तथापि गुरुकृतप्रतिज्ञाभरो धनंजयः निदानं खलु शङ्कायाः ।माताः७५}जादे साहु कालोइदं तुए मन्तिदं ।७५: जाते साधु कालोचितं त्वया मन्त्रितं ।राजाःआः ममापि नाम दुर्योधनस्य शङ्कास्थानं पाण्डवाः । पश्य ।पद्य २.२६कोदण्डज्याकिणाङ्कैरगणितरिपुभिः कङ्कटोन्मुक्तदेहैः श्लिष्टान्योऽन्यातपत्रैः सितकमलवनभ्रान्तिमुत्पादयद्भिः रेणुग्रस्तार्कभासां प्रचलदसिलतादन्तुराणां बलाना माक्रान्ता भ्रातृभिर्मे दिशि दिशि समरे कोटयः संपतन्ति ॥२.२६॥अपि च भानुमति विज्ञातपाण्डवप्रभावे किं त्वमप्येवमाशङ्कसे । पश्य ।पद्य २.२७दुःशासनस्य हृदयक्षतजाम्बुपाने दुर्योधनस्य च यथा गदयोरुभङ्गे तेजस्विनां समरमूर्धनि पाण्डवानां ज्ञेया जयद्रथवधेऽपि तथा प्रतिज्ञा ॥२.२७॥कः कोऽत्र भोः । जैत्रं मे रथमुपकल्पय तावथ् । यावदहमपि तस्य प्रगल्भपाण्डवस्य जयद्रथपरिरक्षणेनैव मिथ्याप्रतिज्ञावैलक्ष्यसंपादितमशस्त्रपूतं मरणमुपदिशामि ।॥ प्रविश्य ॥कञ्चुकीःदेवपद्य २.२८उद्घातक्वणितविलोलहेमघण्टः प्रालम्बद्विगुणितचामरप्रहासः सज्जोऽयं नियमितवल्गिताकुलाश्वः शत्रूणां क्षपितमनोरथो रथस्ते ॥२.२८॥राजाःदेवि प्रविश त्वमभ्यन्तरमेव ।॥ यावदहमपि तस्य प्रगल्भपाण्डवस्य इत्यादि पठन्परिक्रामति ॥॥ इति निस्क्रान्ताः सर्वे ॥इति द्वितीयोऽङ्कः । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP