संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|वेणीसंहारः| पञ्चमोऽङ्कः वेणीसंहारः प्रथमोऽङ्कः द्वितीयोऽङ्कः तृतीयोऽङ्कः चतुर्थोऽङ्कः पञ्चमोऽङ्कः षष्ठोऽङ्कः वेणीसंहारः - पञ्चमोऽङ्कः भट्ट नारायण संस्कृत के महान नाटककार थे। वे अपनी केवल एक कृति वेणीसंहार के द्वारा संस्कृत साहित्य में अमर हैं। Tags : bhattanarayandramavenisamharनाटकभट्टनारायणवेणीसंहार पञ्चमोऽङ्कः Translation - भाषांतर ॥ ततः प्रविशति रथयानेन गान्धारी संजयो धृतराष्ट्रश्च ॥धृतराष्ट्रः:वत्स संजय कथय कथय कस्मिन्नुद्देशे कुरुकुलकाननैकप्रवालो वत्सो मे दुर्योधनस्तिष्ठति । कच्चिज्जीवति वा न वा ।गान्धारीः१४०}जाद जै सच्चं जीवदि मे वच्छो ता कधेहि कस्सिं देसे वट्टदि ।१४०: जात यदि सत्यं जीवति मे वत्सस्तत्कथय कस्मिन्देशे वर्तते ।संजयः:नन्वेष महाराज एक एव न्यग्रोधच्छायायामुपविष्टस्तिष्ठति ।गान्धारीः१४१}॥ सकरुणम् ॥जाद एआई त्ति भणासि । किं णु क्खु संपदं भादुसदं से पासे भविस्सदि ।१४१: जात एकाकीति भणसि । किं नु खलु सांप्रतं भ्रातृशतमस्य पार्श्वे भविष्यति ।संजयः:तात अम्ब अवतरतं स्वैरं रथाथ् ।॥ उभाववतरणं नाटयतः ॥॥ ततः प्रविशति सव्रीडमुपविष्टो दुर्योधनः ॥संजयः:॥ उपसृत्य ॥विजयतां महाराजः । नन्वेष तातोऽम्बया सह प्राप्तः । किं न पश्यति महाराजः ।॥ दुर्योधनो वैलक्ष्यं नाटयति ॥धृतराष्ट्रः:पद्य ५.१शल्यानि व्यपनीय कङ्कवदनैरुन्मोचिते कङ्कटे बद्धेषु व्रणपट्टकेषु शनकैः कर्णे कृतापाश्रयः दूरान्निर्जितसान्त्वितान्नरपतीनालोकय§ल्लीलया सह्या पुत्रक वेदनेति न मया पापेन पृष्टो भवान् ॥५.१॥॥ धृतराष्ट्रो गान्धारी च स्पर्शेनोपेत्यालिङ्गतः ॥गान्धारीः१४२}वच्छ अदिगाढप्पहारवेअणापज्जाउलस्स अम्हेसु संणिहिदेसु बि ण पसरदि दे वाणी ।१४२: वत्स अतिगाढप्रहारवेदनापर्याकुलस्यास्मासु संनिहितेष्वपि न प्रसरति ते वाणी ।धृतराष्ट्रः:वत्स दुर्योधन किमकृतपूर्वः संप्रति मय्यप्ययमव्याहारः ।गान्धारीः१४३}वच्छ जै तुमं बि अम्हे णालबसि ता किं संपदं वच्छो दुस्सासणो आलबदु दुम्मरिसणो वा अध अण्णो वा ।॥ इति रोदिति ॥१४३: वत्स यदि त्वमप्यस्मान्नालपसि तत्किं सांप्रतं वत्सो दुःशासन आलपतु दुर्मर्षणो वाथान्यो वा ।दुर्योधनः:पद्य ५.२पापोऽहमप्रतिकृतानुजनाशदर्शी तातस्य बाष्पपयसां तव चाम्ब हेतुः दुर्जातमत्र विमले भरतान्ववाये किं मां सुतक्षयकरं सुत इत्यवैषि ॥५.२॥गान्धारीः१४४}जाद अलं परिदेविदेण । तुमं बि दाव एक्को इमस्स अन्धजुअलस्स मग्गोबदेसओ । ता चिरं जीव । किं मे रज्जेण जएण वा ।१४४: जात अलं परिदेवितेन । त्वमपि तावदेकोऽस्यान्धयुगलस्य मार्गोपदेशकः । तच्चिरं जीव । किं मे राज्येन जयेन वा ।दुर्योधनः:पद्य ५.३मातः किमप्यसदृशं कृपणं वचस्ते सुक्षत्रिया क्व भवती क्व च दीनतैषा निर्वत्सले सुतशतस्य विपत्तिमेतां त्वं नानुचिन्तयसि रक्षसि मामयोग्यं ॥५.३॥नूनं विचेष्टितमिदं सुतशोकस्य ।संजयः:महाराज किं वायं लोकवादो वितथो न घटस्य कूपपाते रज्जुरपि तत्र प्रक्षेप्तव्येति ।दुर्योधनः:अपुष्कलमिदं । उपक्रियमाणाभावे किमुपकरणेन ।॥ इति रोदिति ॥धृतराष्ट्रः:॥ दुर्योधनं परिष्वज्य ॥वत्स समाश्वसिहि समाश्वासय चास्मानिमामतिदीनां मातरं च ।दुर्योधनः:तात दुर्लभः समाश्वास इदानीं युष्माकं । किं तुपद्य ५.४कुन्त्या सह युवामद्य मया निहतपुत्रया ।विराजमानौ शोकेऽपि तनयाननुशोचतं ॥५.४॥गान्धारीः१४५}जाद एदं एव्व संपदं पभूदं जं तुमं बि दाव एक्को जीवसि । ता जाद अकालो दे समरस्स । पसीद । एसो दे सीसञ्जली । णिवत्तीअदु समरव्वाबारादो । अपच्छिमं करेहि मे वाणं ।१४५: जात एतदेव सांप्रतं प्रभूतं यत्त्वमपि तावदेको जीवसि । तज्जात अकालस्ते समरस्य । प्रसीद । एष ते शीर्षाञ्जलिः । निवर्त्यतां समरव्यापाराथ् । अपश्चिमं कुरु मे वचनं ।धृतराष्ट्रः:वत्स शृणु वचनं तवाम्बाया मम च निहताशेषबन्धुवर्गस्य । पश्य ।पद्य ५.५दायादा न ययोर्बलेन गणितास्तौ द्रोणभीष्मौ हतौ कर्णस्यात्मजमग्रतः शमयतो भीतं जगत्फाल्गुनाथ्वत्सानां निधनेन मे त्वयि रिपुः शेषप्रतिज्ञोऽधुना मानं वैरिषु मुञ्च तात पितरावन्धाविमौ पालय ॥५.५॥दुर्योधनः:समरात्प्रतिनिवृत्य किं मया कर्तव्यं ।गान्धारीः१४६}जाद जं पिदा दे विउरो वा भणादि ।१४६: जात यत्पिता ते विदुरो वा भणति ।संजयः:देव एवमिदं ।दुर्योधनः:संजय अद्याप्युपदेष्टव्यमस्ति ।संजयः:देव यावत्प्राणिति तावदुपदेष्टव्यभूमिर्विजिगीषुः प्रज्ञावतां ।दुर्योधनः:॥ सक्रोधम् ॥शृणुमस्तावद्भवत एव प्रज्ञावतः संप्रत्यस्मदनुरूपमुपदेशं ।धृतराष्ट्रः:वत्स युक्तवादिनि संजये किमत्र क्रोधेन । यदि प्रकृतिमापद्यसे तदहमेव भवन्तं ब्रवीमि । श्रूयतां ।दुर्योधनः:कथयतु तातः ।धृतराष्ट्रः:वत्स किं विस्तरेण । संधत्तां भवानिदानीमपि युधिष्ठिरमीप्सितपणबन्धेन ।दुर्योधनः:तात तनयस्नेहवैक्लव्यादम्बा बालिशत्वात्संजयश्च काममेवं ब्रवीतु । युष्माकमप्येवं व्यामोहः । अथ वा प्रभवति पुत्रनाशजन्मा हृदयज्वरः । अन्यच्च तात अस्खलितभ्रातृशतोऽहं यदा तदावधीरितवासुदेवसामोपन्यासः । संप्रति हि दृष्टपितामहाचार्यानुजराजचक्रविपत्तिः स्वशरीरमात्रस्नेहादुदात्तपुरुषव्रीडावहमसुखावसानं च कथमिव करिष्यति दुर्योधनः सह पाण्डवैः संधिं । अन्यच्च नयवेदिन्संजयपद्य ५.६हीयमानाः किल रिपोर्नृपाः संदधते परान् ।दुःशासने हतेऽहीनाः सानुजाः पाण्डवाः कथं ॥५.६॥धृतराष्ट्रः:वत्स एवं गतेऽपि मत्प्रार्थनया न किंचिन्न करोति युधिष्ठिरः । अन्यच्च सर्वदैवाप्रकृष्टमात्मानं मन्यते युधिष्ठिरः ।दुर्योधनः:कथमिव ।धृतराष्ट्रः:वत्स श्रूयतां प्रतिज्ञा युधिष्ठिरस्य । नाहमेकस्यापि भ्रातुर्विपत्तौ प्राणान्धारयामीति । बहुच्छलत्वात्संग्रामस्यानुजनाशमाशङ्कमानो यदैव भवते रोचते तदैवासौ सज्जः संधातुं ।संजयः:एवमिदं ।गान्धारीः१४७}जाद उपपत्तिजुत्तं पडिबज्जस्स पिदुणो वाणं ।१४७: जात उपपत्तियुक्तं प्रतिपद्यस्व पितुर्वचनं ।दुर्योधनः:तात अम्ब संजयपद्य ५.७एकेनापि विनानुजेन मरणं पार्थः प्रतिज्ञातवा न्भ्रातःणां निहते शतेऽभिलषते दुर्योधनो जीवितुं तं दुःशासनशोणिताशनमरिं भिन्नं गदाकोटिभि र्भीमं दिक्षु न विक्षिपामि कृपणः संधिं विदध्यामहं ॥५.७॥गान्धारीः१४८}हा जाद दुस्सासण हा मदङ्कदुल्ललित हा जुअराअ अस्सुदपुव्वा क्खु कस्स बि लोए ईदिसी विपत्ती । हा वीरसदप्पसविणि हदगन्धारि दुक्खसदं पसूदासि ण उण सुदसदं ।१४८: हा जात दुःशासन हा मदङ्कदुर्ललित हा युवराज अश्रुतपूर्वा खलु कस्यापि लोक ईदृशी विपत्तिः । हा वीरशतप्रसविनि हतगान्धारि दुःखशतं प्रसूतासि न पुनः सुतशतं ।॥ सर्वे रुदन्ति ॥संजयः:॥ बाष्पमुत्सृज्य ॥तात अम्ब प्रतिबोधयितुं महाराजमिमां भूमिं युवामागतौ । तदात्मापि तावत्संस्तभ्यतां ।धृतराष्ट्रः:वत्स दुर्योधन एवं विमुखेषु भागधेयेषु त्वयि चामुञ्चति सहजं मानमरिषु त्वदेकशेषजीवितालम्बनेयं तपस्विनी गान्धारी कमवलम्बतां शरणमहं च ।दुर्योधनः:श्रूयतां यत्प्रतिपत्तुमिदानीं प्राप्तकालं ।पद्य ५.८कलितभुवना भुक्तैश्वर्यास्तिरस्कृतविद्विषः प्रणतशिरसां राज्ञां चूडासहस्रकृतार्चनाः अभिमुखमरीन्घ्नन्तः संख्ये हताः शतात्मजा वहतु सगरेणोढां तातो धुरं सहितोऽम्बया ॥५.८॥विपर्यये त्वस्याधिपतेरुल्लङ्घितः क्षात्रधर्मः स्याथ् ।॥ नेपथ्ये महान्कलकलः ॥गान्धारीः१४९}॥ आकर्ण्य सभयम् ॥जाद कहिं एदं हाहाकारमिस्सं तूररसिदं सुणीअदि ।१४९: जात कुत्रैतद्धाहाकारमिश्रं तूर्यरसितं श्रूयते ।संजयः:अम्ब भूमिरियमेवंविधानां भीरुजनत्रासनानां महानिनादानां ।धृतराष्ट्रः:वत्स संजय ज्ञायतामतिभैरवः खलु विस्तारी हाहारवः । कारणेनास्य महता भवितव्यं ।दुर्योधनः:तात प्रसीद । पराङ्मुखं खलु दैवमस्माकं । यावदपरमपि किंचिदत्याहितं न श्रावयति तावदेवाज्ञापय मां संग्रामावतरणाय ।गान्धारीः१५०}जाद मुहुत्तां दाव मं मन्दभाइणिं समस्सासेहि ।१५०: जात मुहूर्तं तावन्मां मन्दभाग्यां समाश्वासय ।धृतराष्ट्रः:वत्स यद्यपि भवान्समराय कृतनिश्चयस्तथापि रहः परप्रतीघातोपायश्चिन्त्यतां ।दुर्योधनः:पद्य ५.९प्रत्यक्षं हतबान्धवा मम परे हन्तुं न योग्या रहः किं वा तेन कृतेन तैरिव कृतं यन्न प्रकाशं रणे गान्धारीः१५१}जाद एआई तुमं । को दे सहाअत्तणं करिस्सदि ।१५१: जात एकाकी त्वं । कस्ते साहाय्यं करिष्यति ।दुर्योधनः:पद्य ५.९एकोऽहं भवतीसुतक्षयकरो मातः कियन्तोऽरयः साम्यं केवलमेतु दैवमधुना निष्पाण्डवा मेदिनी ॥५.९॥॥ नेपथ्ये । कलकलानन्तरम् ॥भो भो योधाः निवेदयन्तु भवन्तः कौरवेश्वराय । इदं महत्कदनं प्रवृत्तं । अलमप्रियश्रवणपराङ्मुखतया । यतः कालानुरूपं प्रतिविधातव्यमिदानीं । तथा हिपद्य ५.१०त्यक्तप्राजनरश्मिरङ्किततनुः पार्थाङ्कितैर्मार्गणै र्वाहैः स्यन्दनवर्त्मनां परिचयादाकृष्यमाणः शनैः वार्तामङ्गपतेर्विलोचनजलैरावेदयन्पृच्छतां शून्येनैव रथेन याति शिबिरं शल्यः कुरूञ्शल्ययन् ॥५.१०॥दुर्योधनः:॥ श्रुत्वा साशङ्कम् ॥आः केनेदमविस्पष्टमशनिपातदारुणमुद्घोषितं । कः कोऽत्र भोः ।॥ प्रविश्य संभ्रान्तः ॥सूतः:हा हताः स्मः ।॥ इत्यात्मानं पातयति ॥दुर्योधनः:अयि कथय कथय ।सूतः:आयुष्मन्किमन्यथ् ।पद्य ५.११शल्येन यथा शल्येन मूर्च्छितः प्रविशता जनौघोऽयं ।शून्यं कर्णस्य रथं मनोरथमिवाधिरूढेन ॥५.११॥दुर्योधनः:हा वयस्य कर्ण ।॥ इति मोहमुपगतः ॥गान्धारीः१५२}जाद समस्सस समस्सस ।१५२: जात समाश्वसिहि समाश्वसिहि ।संजयः:समाश्वसितु समाश्वसितु देवः ।धृतराष्ट्रः:भोः कष्टं कष्टं ।पद्य ५.१२भीष्मे द्रोणे च निहते य आसीदवलम्बनं ।वत्स्सय मे सुहृच्छूरो राधेयः सोऽप्ययं हतः ॥५.१२॥वत्स समाश्वसिहि समाश्वसिहि । ननु भो हतविधेपद्य ५.१३अन्धोऽनुभूतशतपुत्रविपत्तिदुःखः शोच्यां दशामुपगतः सह भार्ययाहं अस्मिन्नशेषितसुहृद्गुरुबन्धुवर्गे दुर्योधनेऽपि हि कृतो भवता निराशः ॥५.१३॥वत्स दुर्योधन समाश्वसिहि समाश्वसिहि । समाश्वासय तपस्विनीं मातरं च ।दुर्योधनः:॥ लब्धसंज्ञः ॥पद्य ५.१४अयि कर्ण कर्णसुखदां प्रयच्छ मे गिरमुद्गिरन्निव मुदं मयि स्थिरां सततावियुक्तमकृताप्रियं प्रियं वृषसेनवत्सल विहाय यासि मां ॥५.१४॥॥ पुनर्मोहमुपगतः ॥॥ सर्वे समाश्वासयन्ति ॥दुर्योधनः:पद्य ५.१५मम प्राणाधिके तस्मिन्नङ्गानामधिपे हते ।उच्छ्वसन्नपि लज्जेऽहमाश्वासे तात का कथा ॥५.१५॥अपि चपद्य ५.१६शोचामि शोच्यमपि शत्रुहतं न वत्सं दुःशासनं तमधुना न च बन्धुवर्गं येनातिदुःश्रवमसाधु कृतं तु कर्णे कर्तास्मि तस्य निधनं समरे कुलस्य ॥५.१६॥गान्धारीः१५३}जाद सिढिलेहि दाव खणमेत्तं बप्फमोक्खं ।१५३: जात शिथिलय तावत्क्षणमात्रं बाष्पमोक्षं ।धृतराष्ट्रः:वत्स क्षणमात्रं परिमार्जयाश्रूणि ।दुर्योधनः:पद्य ५.१७मामुद्दिश्य त्यजन्प्राणान्केनचिन्न निवारितः ।तत्कृते त्यजतो बाष्पं किं मे दीनस्य वार्यते ॥५.१७॥सूत केनैतदसंभावनीयमस्मत्कुलान्तकरं कर्म कृतं स्याथ् ।सूतः:आयुष्मन्नेवं किल जनः कथयति ।पद्य ५.१८भूमौ निमग्नचक्रश्चक्रायुधसारथेः शरैस्तस्य ।निहतः किलेन्द्रसूनोरस्मत्सेनाकृतान्तस्य ॥५.१८॥दुर्योधनः:पद्य ५.१९कर्णाननेन्दुस्मरणात्क्षुभितः शोकसागरः ।वाडवेनेव शिखिना पीयते क्रोधजेन मे ॥५.१९॥तात अम्ब प्रसीदतं ।पद्य ५.२०ज्वलनः शोकजन्मा मामयं दहति दुःसहः ।समानायां विपत्तौ मे वरं संशयितो रणः ॥५.२०॥धृतराष्ट्रः:॥ दुर्योधनं परिष्वज्य रुदन् ॥पद्य ५.२१भवति तनय सत्यं संशयः साहसेषु द्रवति हृदयमेतद्भीममुत्प्रेक्ष्य भीमं अनिकृतिनिपुणं ते चेष्टितं मानशौण्ड च्छलबहुलमरीणां संगरं हा हतोऽस्मि ॥५.२१॥गान्धारीः१५४}जाद तेण एव्व सुदसदकदन्तेण विओदलेण समं समलं मग्गेसि ।१५४: जात तेनैव सुतशतकृतान्तेन वृकोदरेण समं समरं मार्गयसे ।दुर्योधनः:तिष्ठतु तावद्वृकोदरः ।पद्य ५.२२पापेन येन हृदयस्थमनोरथो मे सर्वाङ्गचन्दनरसो नयनामलेन्दुः पुत्रस्तवाम्ब तव तात नयैकशिष्यो कर्णो हतः सपदि तत्र शराः पतन्तु ॥५.२२॥सूत अलमिदानीं कालातिपातेन । सज्जं मे रथमुपाहर । भयं चेत्पाण्डवेभ्यस्तिष्ठ । गदामात्रसहाय एव समरभुवमवतरामि ।सूतः:अलमन्यथा संभावितेन । अयमहमागत एव ।॥ इति निष्क्रान्तः ॥धृतराष्ट्रः:वत्स दुर्योधन यदि स्थिर एवास्मान्दग्धुमयं ते व्यवसायस्तत्संनिहितेषु वीरेषु सेनापतिः कश्चिदभिषिच्यतां ।दुर्योधनः:नन्वभिषिक्त एव ।गान्धारीः१५५}जाद कदरो उण सो जहिं एदं हदासं ओलम्बिस्सं ।१५५: जात कतरः पुनः स यत्रेमां हताशामवलम्बिष्ये ।धृतराष्ट्रः:किं वा शल्य उत वाश्वत्थामा ।संजयः:हा कष्टं ।पद्य ५.२३गते भीष्मे हते द्रोणे कर्णे च विनिपातिते ।आशा बलवती राजञ्शल्यो जेष्यति पाण्डवान् ॥५.२३॥दुर्योधनः:किं वा शल्येनोत वाश्वत्थाम्ना ।पद्य ५.२४कर्णालिङ्गनदायी वा पार्थप्राणहरोऽपि वा ।अनिवारितसंपातैरयमात्माश्रुवारिभिः ॥५.२४॥॥ नेपथ्ये कलकलं कृत्वा ॥भो भोः कौरवबलप्रधानयोधा अलमस्मानवलोक्य भयादितस्ततो गमनेन । कथयन्तु भवन्तः कस्मिन्नुद्देशे सुयोधनस्तिष्ठति ।॥ सर्वे ससंभ्रममाकर्णयन्ति ॥॥ प्रविश्य संभ्रान्तः ॥सूतः:आयुष्मन्पद्य ५.२५प्राप्तावेकरथारूढौ पृच्छन्तौ त्वामितस्ततः ।सर्वेःकश्च कश्च ।सूतः:पद्य ५.२५स कर्णारिः स च क्रूरो वृककर्मा वृकोदरः ॥५.२५॥गान्धारीः१५६}॥ सभयम् ॥जाद किं एत्थ पडिपज्जिदव्वं ।१५६: जात किमत्र प्रतिपत्तव्यं ।दुर्योधनः:ननु संनिहितैवेयं गदा ।गान्धारीः१५७}हा हदम्हि मन्दभाइणी ।१५७: हा हतास्मि मन्दभागिनी ।दुर्योधनः:अम्ब अलमिदानीं कार्पण्येन । संजय रथमारोप्य पितरौ शिबिरं प्रतिष्ठस्व । प्राप्तोऽस्मच्छोकापनोदप्रणयी जनः ।धृतराष्ट्रः:वत्स क्षणमेकं प्रतीक्षस्व यावदनयोर्भावमुपलभे ।दुर्योधनः:तात किमनेनोपलब्धेन ।॥ तथा प्रविशतो रथारूढौ भीमार्जुनौ ॥भीमः:भो भोः सुयोधनानुजीविनः किमिति संभ्रमादयथायथं चरन्ति भवन्तः । अलमावयोः शङ्कया ।पद्य ५.२६कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽतिमानी कृष्णाकेशोत्तरीयव्यपनयनमरुत्पाण्डवा यस्य दासाः राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं क्वास्ते दुर्योधनोऽसौ कथयत न रुषा द्रष्टुमागतौ स्वः ॥५.२६॥धृतराष्ट्रः:संजय दारुणः खलूपक्षेपः पापस्य ।संजयः:तात कर्मणा कृतनिःशेषविप्रियाः संप्रति वाचा व्यवस्यन्ति ।दुर्योधनः:सूत कथय गत्वोभयोरयं तिष्ठतीति ।सूतः:यदाज्ञापयति देवः ।॥ तावुपसृत्य ॥भो वृकोदरार्जुनौ एष महाराजस्तातेनाम्बया च सह न्यग्रोधच्छायायामुपविष्टस्तिष्ठति ।अर्जुनः:आर्य प्रसीद । न युक्तं पुत्रशोकपीडितौ पितरौ पुनरस्मद्दर्शनेनोद्वेजयितुं । तद्गच्छावः ।भीमः:मूढ अनुल्लङ्घनीयः सदाचारः । न युक्तमनभिवाद्य गुरून्गन्तुं ।॥ उपसृत्य ॥संजय पित्रोर्नमस्कृतिं श्रावय । अथ वा तिष्ठ । स्वयं विश्राव्य नामकर्मणी वन्दनीया गुरवः ।॥ इति रथादवतरतः ॥अर्जुनः:॥ उपगम्य ॥तात अम्बपद्य ५.२७सकलरिपुजयाशा यत्र बद्धा सुतैस्ते तृणमिव परिभूतो यस्य गर्वेण लोकः रणशिरसि निहन्ता तस्य राधासुतस्य प्रणमति पितरौ वां मध्यमः पाण्डवोऽयं ॥५.२७॥भीमः:पद्य ५.२८चूर्णिताशेषकौरव्यः क्षीबो दुःशासनासृजा ।भङ्क्ता सुयोधनस्योर्वोर्भीमोऽयं शिरसाञ्चति ॥५.२८॥धृतराष्ट्रः:दुरात्मन्वृकोदर न खल्विदं भवतैव केवलं सपत्नानामपकृतं । यावत्क्षत्रं तावत्समरविजयिनो जिता हताश्च वीराः । तत्किमेवं विकत्थनाभिरस्मानुद्वेजयसि ।भीमः:तात अलं मन्युना ।पद्य ५.२९कृष्टा केशेषु कृष्णा तव सदसि पुरः पाण्डवानां नृपैर्यैः सर्वे ते क्रोधवह्नौ कृतशलभकुलावज्ञया येन दग्धाः एतस्माच्छ्रावयेऽहं न खलु भुजबलश्लाघया नापि दर्पा त्पुत्रैः पौत्रैश्च कर्मण्यतिगुरुणि कृते तात साक्षी त्वमेव ॥५.२९॥दुर्योधनः:अरे रे मरुत्तनय किमेवं वृद्धस्य राज्ञः पुरतो निन्दितव्यमात्मकर्म श्लाघसे । अपि चपद्य ५.३०कृष्टा केशेषु भार्या तव तव च पशोस्तस्य राज्ञः तयोर्वा प्रत्यक्षं भूपतीनां मम भुवनपतेराज्ञया द्यूतदासी अस्मिन्वैरानुबन्धे वद किमपकृतं तैर्हता ये नरेन्द्रा बाह्वोर्वीर्यातिरेकद्रविणगुरुमदं मामजित्वैव दर्पः ॥५.३०॥आः दुरात्मन् । एष न भवसि ।॥ इति सक्रोधमुत्थाय हन्तुमिच्छति ॥॥ धृतराष्ट्रो धृत्वोपवेशयति । भीमः क्रोधं नाटयति ॥अर्जुनः:आर्य प्रसीद । किमत्र क्रोधेन ।पद्य ५.३१अप्रियाणि करोत्येष वाचा शक्तो न कर्मणा ।हतभ्रातृशतो दुःखी प्रलापैरस्य का व्यथा ॥५.३१॥भीमः:अरे रे भरतकुलकलङ्कपद्य ५.३२अत्रैव किं न विशसेयमहं भवन्तं दुःशासनानुगमनाय कटुप्रलापिन् विघ्नं गुरू न कुरुतो यदि मद्गदाग्र निर्भिद्यमानरणितास्थनि ते शरीरे ॥५.३२॥अन्यच्च मूढपद्य ५.३३शोकैः स्त्रीवन्नयनसलिलं यत्परित्याजितोऽसि भ्रातुर्वक्षःस्थलविघटने यच्च साक्षीकृतोऽसि आसीदेतत्तव कुनृपतेः कारणं जीवितस्य क्रुद्धे युष्मत्कुलकमलिनीकुञ्जरे भीमसेने ॥५.३३॥दुर्योधनः:दुरात्मन्भरतकुलापसद द्यूतदास पाण्डवपशो नाहं भवानिव विकत्थनाप्रगल्भः । किं तुपद्य ५.३४द्रक्ष्यन्ति न चिरात्सुप्तं बान्धवास्त्वां रणाङ्गणे ।मद्गदाभिन्नवक्षोऽस्थिवेणिकाभीमभूषणं ॥५.३४॥भीमः:॥ विहस्य ॥यद्येवं नाश्रद्धेयो भवान् । तथापि प्रत्यासन्नमेव कथयामि ।पद्य ५.३५पीनाभ्यां मद्भुजाभ्यां भ्रमितगुरुगदाघातसंचूर्णितोरोः क्रूरस्याधाय पादं तव शिरसि नृणां पश्यतां श्वः प्रभाते त्वन्मुख्यभ्रातृचक्रोद्दलनगलदसृक्चन्दनेनानखाग्रं स्त्यानेनार्द्रेण चाक्तः स्वयमनुभविता भूषणं भीममस्मि ॥५.३५॥॥ नेपथ्ये ॥भो भो भीमसेनार्जुनौ एष खलु निहताशेषारातिचक्र आक्रान्तपरशुरामाभिरामयशाः प्रतापतापितदिङ्मण्डलस्थापितस्वजनः श्रीमानजातशत्रुर्देवो युधिष्ठिरः समाज्ञापयति ।उभौःकिमाज्ञापयत्यार्यः ।॥ पुनर्नेपथ्ये ॥पद्य ५.३६कुर्वन्त्वाप्ता हतानां रणशिरसि जना वह्निसाद्देहभारा नश्रून्मिश्रं कथंचिद्ददतु जलममी बान्धवा बान्धवेभ्यः मार्गन्तां ज्ञातिदेहान्हतनरगहने खण्डितान्गृध्रकङ्कै रस्तं भास्वान्प्रयातः सह रिपुभिरयं संह्रियन्तां बलानि ॥५.३६॥उभौःयदाज्ञापयत्यार्यः ।॥ इति निष्क्रान्तौ ॥॥ नेपथ्ये ॥अरे रे गाण्डीवाकर्षणबाहुशालिन्नर्जुनार्जुन क्वेदानीं गम्यते ।पद्य ५.३७कर्णक्रोधेन युष्मद्विजयि धनुरिदं त्यक्तमेतान्यहानि प्रौढं विक्रान्तमासीद्वन इव भवतां शूरशून्ये रणेऽस्मिन् स्पर्शं स्मृत्वोत्तमाङ्गे पितुरनवजितन्यस्तहेतेरुपेतः कल्पाग्निः पाण्डवानां द्रुपदसुतचमूघस्मरो द्रौणिरस्मि ॥५.३७॥धृतराष्ट्रः:॥ आकर्ण्य सहर्षम् ॥वत्स दुर्योधन द्रोणवधपरिभवोद्दीपितक्रोधपावकः पितुरपि समधिकबलः शिक्षावानमरोपमश्चायमश्वत्थामा प्राप्तः । तत्प्रत्युपगमनेन तावदयं संभाव्यतां वीरः ।गान्धारीः१५८}जाद पच्चुग्गच्छ एदं महाभाअं ।१५८: जात प्रत्युद्गच्छैनं महाभागं ।दुर्योधनः:तात अम्ब किमनेनाङ्गराजवधाशंसिना वृथायौवनशस्त्रबलभरेण ।धृतराष्ट्रः:वत्स न खल्वस्मिन्काले पराक्रमवतामेवंविधानां वाङ्मात्रेणापि विरागमुत्पादयितुमर्हसि ।॥ प्रविश्य ॥अश्वत्थामाःविजयतां कौरवाधिपतिः ।दुर्योधनः:॥ उत्थाय ॥गुरुपुत्र इत आस्यतां ।॥ इत्युपवेशयति ॥अश्वत्थामाःराजन्दुर्योधनपद्य ५.३८कर्णेन कर्णसुभगं बहु यत्तदुक्त्वा यत्संगरेषु विहितं विदितं त्वया तथ्द्रौणिस्त्वधिज्यधनुरापतितोऽभ्यमित्र मेषोऽधुना त्यज नृप प्रतिकारचिन्तां ॥५.३८॥दुर्योधनः:॥ साभ्यसूयम् ॥आचार्यपुत्रपद्य ५.३९अवसानेऽङ्गराजस्य योद्धव्यं भवता किल ।ममाप्यन्तं प्रतीक्षस्व कः कर्णः कः सुयोधनः ॥५.३९॥अश्वत्थामाः॥ स्वगतम् ॥कथमद्यापि स एव कर्णपक्षपातोऽस्मासु च परिभवः ।॥ प्रकाशम् ॥राजन्कौरवेश्वर एवं भवतु ।॥ इति निष्क्रान्तः ॥धृतराष्ट्रः:वत्स क एष ते व्यामोहो यदस्मिन्नपि काले एवंविधस्य महाभागस्याश्वत्थाम्नो वाक्पारुष्येणापरागमुत्पादयसि ।दुर्योधनः:किमस्याप्रियमनृतं च मयोक्तं । किं वा नेदं क्रोधस्थानं । पश्य ।पद्य ५.४०अकलितमहिमानं क्षत्रियैरात्तचापैः समरशिरसि युष्मद्भाग्यदोषाद्विपन्नं परिवदति समक्षं मित्रमङ्गाधिराजं मम खलु कथयास्मिन्को विशेषोऽर्जुने वा ॥५.४०॥धृतराष्ट्रः:वत्स तवापि कोऽत्र दोषः । अवसानमिदानीं भरतकुलस्य । संजय किमिदानीं करोमि मन्दभाग्यः ।॥ विचिन्त्य ॥भवत्वेवं तावथ् । संजय मद्वचनाद्ब्रूहि भारद्वाजमश्वत्थामानं ।पद्य ५.४१स्मरति न भवान्पीतं स्तन्यं विभज्य सहामुना मम च मृदितं क्ष्ॐअं बाल्ये त्वदङ्गविवर्तनैः अनुजनिधनस्फीताच्छोकादतिप्रणयाच्च य द्वचनविकृतिष्वस्य क्रोधो मुधा क्रियते त्वया ॥५.४१॥संजयः:यदाज्ञापयति तातः ।॥ इत्युत्तिष्ठति ॥धृतराष्ट्रः:अपि चेदमन्यत्त्वया वक्तव्यं ।पद्य ५.४२यन्मोचितस्तव पिता वितथेन शस्त्रं यत्तादृशः परिभवः स तथाविधोऽभूथ्एतद्विचिन्त्य बलमात्मनि पौरुषं च दुर्योधनोक्तमपहाय विधास्यसीति ॥५.४२॥संजयः:यदाज्ञापयति तातः ।॥ इति निष्क्रान्तः ॥दुर्योधनः:सूत सांग्रामिकं मे रथमुपकल्पय ।सूतः:यदाज्ञापयत्यायुष्मान् ।॥ इति निष्क्रान्तः ॥धृतराष्ट्रः:गान्धारि इतो वयं मद्राधिपतेः शल्यस्य शिबिरमेव गच्छावः । वत्स त्वमप्येवं कुरु ।॥ इति परिक्रम्य निष्क्रान्ताः सर्वे ॥इति पञ्चमोऽङ्कः । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP