TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

वेणीसंहारः - तृतीयोऽङ्कः

भट्ट नारायण संस्कृत के महान नाटककार थे। वे अपनी केवल एक कृति वेणीसंहार के द्वारा संस्कृत साहित्य में अमर हैं।


तृतीयोऽङ्कः
॥ ततः प्रविशति विकृतवेषा राक्षसी ॥


राक्षसीः
॥ विकृतं विहस्य सपरितोषम् ॥

पद्य ३.१
हदमाणुशमंशभालए कुम्भशहश्शवशाहिं शंचिदे ।
अणिशं अ पिबामि शोणिअं वलिशशदं शमले हुवीअदु ॥३.१॥

७७}॥ नृत्यन्ती सपरितोषम् ॥
जै शिन्धुलाअवहदिअहे विअ दिअहे दिअहे शमलकम्म पडिबज्जै अज्जुणे तदो पज्जत्तभलिदकोट्ठागाले मंशशोणिएहिं मे गेहे हुवीअदि ।॥ परिक्रम्य दिशोऽवलोक्य ॥
अह कहिं णु खु लुहिलप्पिए हुवीअदि । ता जाव इमश्शिं शमले पिअभत्तालं लुहिलप्पिअं अण्णेशामि ।॥ परिक्रम्य ॥
होदु शद्दाबैश्शं दाव । अले लुहिलप्पिआ लुहिलप्पिआ इदो एहि इदो एहि ।


७६: हतमानुषमांसभारके कुम्भसहस्रवसाभिः संचिते । अनिशं च पिबामि शोणितं वर्षशतं समरो भवतु ॥१ ॥

७७: यदि सिन्धुराजवधदिवस इव दिवसे दिवसे समरकर्म प्रतिपद्यतेऽर्जुनस्तदा पर्याप्तभृतकोष्ठागारं मांसशोणितैर्मे गृहं भविष्यति । अथ क्व नु खलु रुधिरप्रियो भविष्यति । तद्यावदेतस्मिन्समरे प्रियभर्तारं रुधिरप्रियमन्वेष्यामि । भवतु शब्दायिष्ये तावथ् । अरे रुधिरप्रिय रुधिरप्रिय इत एहीत एहि ।

॥ ततः प्रविशति तथाविधो राक्षसः ॥


राक्षसः:
॥ श्रमं नाटयन् ॥

पद्य ३.२
पच्चग्गहदाणं मंशए जै उण्हे लुहिले अ लम्भै ।
ता एशे मह पलिश्शमे खणमेत्तं एव्व लहु णश्शै ॥३.२॥


७८: प्रत्यग्रहतानां मांसं यद्युष्णं रुधिरं च लभ्येत । तदेष मम परिश्रमः क्षणमात्रमेव लघु नश्येथ् ॥२ ॥

॥ राक्षसी पुनर्व्याहरति ॥


राक्षसः:
७९}॥ आकर्ण्य ॥
अले के एशे मं सद्दाबेदि ।॥ विलोक्य ॥
कहं पिआ मे वशागन्धा ।॥ उपसृत्य ॥
वशागन्धे कीश मं शद्दाबेशि ।

पद्य ३.३
लुहिलाशवपाणमत्तिए लणहिण्डणखलन्तगत्तिए ।
शद्दाअशि कीश मं पिए पुलिशशहश्शं हदं शुणीअदि ॥३.३॥


७९: अरे कैषा मां शब्दायते । कथं प्रिया मे वसागन्धा । वसागन्धे कस्मान्मां शब्दायसे ।

८०: रुधिरासवपानमत्तिके रणहिण्डनस्खलद्गात्रिके । शब्दायसे कस्मान्मां प्रिये पुरुषसहस्रं हतं श्रूयते ॥३ ॥


राक्षसीः
८१}अले लुहिलप्पिआ एदं क्खु मए तुह कालणादो पच्चग्गहदश्श कश्श बि लाएशिणो पहूदवशाशिणेहचिक्कणं कोण्हं णवलुहिलं अग्गमंशं अ आणीदं । ता पिबाहि णं ।


८१: अरे रुधिरप्रिय इदं खलु मया तव कारणात्प्रत्यग्रहतस्य कस्यापि राजर्षेः प्रभूतवसास्नेहचिक्कणं कोष्णं नवरुधिरमग्रमांसं चानीतं । तत्पिबैतथ् ।


राक्षसः:
८२}॥ सपरितोषम् ॥
शाहु वशागन्धे शाहु । शोहणं तुए किदं । बलिअम्हि पिबाशिदे । ता उबणेहि ।


८२: साधु वसागन्धे साधु । शोभनं त्वया कृतं । बलवदस्मि पिपासितः । तदुपनय ।


राक्षसीः
८३}अले लुहिलप्पिआ एदिशे हदणलगातुलंगमशोणिअवशाशमुद्ददुश्शंचले शमलाङ्गणे पडिब्भमन्ते तुमं पिबाशिए शि त्ति अच्चलिअं अच्चलिअं ।


८३: अरे रुधिरप्रिय ईदृशे हतनरगजतुरंगमशोणितवसासमुद्रदुःसंचरे समराङ्गणे परिभ्रमंस्त्वं पिपासितोऽसीत्याश्चर्यमाश्चर्यं ।


राक्षसः:
८४}ऐ शुत्थिदे णं पुत्तशोअशंतत्तहिआं शामिणिं हिडिम्बादेइं पेक्खिदुं गदम्हि ।


८४: अयि सुस्थिते ननु पुत्रशोकसंतप्तहृदयां स्वामिनीं हिडिम्बादेवीं प्रेक्षितुं गतोऽस्मि ।


राक्षसीः
८५}लुहिलप्पिआ अज्ज बि शामिणीए हिडिम्बादेईए घडुक्काशोए ण उबशम्मदि ।


८५: रधिरप्रिय अद्यापि स्वामिन्या हिडिम्बादेव्या घटोत्कचशोको नोपशाम्यति ।


राक्षसः:
८६}वशागन्धे कुदो शे उबशमे । केवलं अहिमण्णुवहशोअशमाणदुक्खाए शुभद्दादेवीए जण्णशेणीए अ कधं कधं वि शमाशाशीअदि ।


८६: वसागन्धे कुतोऽस्या उपशमः । केवलमभिमन्युवधशोकसमानदुःखया सुभद्रादेव्या याज्ञसेन्या च कथं कथमपि समाश्वास्यते ।


राक्षसीः
८७}लुहिलप्पिआ गेण्ह एदं हत्थिशिलकबालशंचिअं अग्गमंशोबदंशं । पिबाहि णवशोणिआसवं ।


८७: रुधिरप्रिय गृहाणैतद्धस्तिशिरःकपालसंचितमग्रमांसोपदंशं । पिब नवशोणितासवं ।


राक्षसः:
८८}॥ तथा कृत्वा ॥
वशागन्धे अह किअप्पहूदं तुए शंचिअं लुहिलं अग्गमंशं अ ।


८८: वसागन्धे अथ कियत्प्रभूतं त्वया संचितं रुधिरमग्रमांसं च ।


राक्षसीः
८९}अले लुहिलप्पिआ पुव्वशंचिअं जाणाशि जेव्व तुमं । णवशंचिअं शिणु दाव । भादत्तशोणिअकुम्भे शिन्धुलाअवशाकुम्भे दुवे दुबदमच्छाहिबभूलिश्शवशोमदत्तबल्हीअप्पमुहाणं णलिन्दाणं अण्णाणं बि पाकिदपुलिशाणं लुहिलवशामंशश्श घडा अबिणद्धमुहा शहश्शशंक्खा शन्ति मे गेहे ।


८९: अरे रुधिरप्रिय पूर्वसंचितं जानास्येव त्वं । नवसंचितं शृणु तावथ् । भगदत्तशोणितकुम्भः सिन्धुराजवसाकुम्भौ द्वौ द्रुपदमत्स्याधिपभूरिश्रवःसोमदत्तबाल्हीकप्रमुखाणां नरेन्द्राणामन्येषामपि प्राकृतपुरुषाणां रुधिरवसामांसस्य घटा अपिनद्धमुखाः सहस्रसंख्याः सन्ति मे गेहे ।


राक्षसः:
९०}॥ सपरितोषमालिङ्ग्य ॥
शाहु शुग्घलिणीए शाहु । इमिणा दे शुग्घलिणित्तेण अज्ज उण शामिणीए हिडिम्बादेवीए शंविहाणेण अ पणट्ठं मे जम्मदालिद्दं ।


९०: साधु सुगृहिणि साधु । अनेन ते सुगृहिणीत्वेनाद्य पुनः स्वामिन्या हिडिम्बादेव्याः संविधानेन च प्रनष्टं मे जन्मदारिद्र्यं ।


राक्षसीः
९१}लुहिलप्पिआ केदिशे शामिणीए शंविहाणे किदे ।


९१: रुधिरप्रिय कीदृशं स्वामिन्या संविधानं कृतं ।


राक्षसः:
९२}वशागन्धे अज्ज क्खु अहं शामिणीए हिडिम्बादेवीए शवहुमाणं शद्दाबिअ आणत्ते जह लुहिलप्पिआ अज्ज पहुदि तुए अज्जौत्तश्श भीमशेणश्श पिट्ठदोणुपिट्ठं शमले आहिण्डिदव्वं त्ति । ता तश्श अणुमग्गगामिणो हदमाणुशशोणिअणईदंशणप्पणट्ठबुभुक्खापिबाशश्श इह एव्व मे शग्गलू हुवीअदि । तुमं बि विश्शद्धा भविअ लुहिलवशाहिं कुम्भशहश्शं शंचेहि ।


९२: वसागन्धे अद्य खल्वहं स्वामिन्या हिडिम्बादेव्या सबहुमानं शब्दाय्याज्ञप्तो यथा रुधिरप्रिय अद्य प्रभृति त्वयार्यपुत्रस्य भीमसेनस्य पृष्ठतोऽनुपृष्ठं समर आहिण्डितव्यमिति । तत्तस्यानुमार्गगामिनो हतमानुषशोणितनदीदर्शनप्रनष्टबुभुक्षापिपासस्येहैव मे स्वर्गलोको भविष्यति । त्वमपि विस्रब्धा भूत्वा रुधिरवसाभिः कुम्भसहस्रं संचिनु ।


राक्षसीः
९३}लुहिलप्पिआ किंणिमित्तं कुमालभीमशेणश्श पिट्ठदोणुपिट्ठं आहिण्डीअदि ।


९३: रुधिरप्रिय किंनिमित्तं कुमारभीमसेनस्य पृष्ठतोऽनुपृष्ठमाहिण्ड्यते ।


राक्षसः:
९४}वशागन्धे तेण हि शामिणा विओदलेण दुश्शाशणश्श लुहिलं पादुं पडिण्णादं । तं च अम्हेहिं लक्खशेहिं अणुप्पविशिअ पादव्वं त्ति ।


९४: वसागन्धे तेन हि स्वामिना वृकोदरेण दुःशासनस्य रुधिरं पातुं प्रतिज्ञातं । तच्चास्माभी राक्षसैरनुप्रविश्य पातव्यमिति ।


राक्षसीः
९५}॥ सहर्षम् ॥
शाहु शामिणि शाहु । शुशंविहाणे मे भत्ता तुए कदे ।


९५: साधु स्वामिनि साधु । सुसंविधानो मे भर्ता त्वया कृतः ।

॥ नेपथ्ये महान्कलकलः । उभावाकर्णयतः ॥


राक्षसीः
९६}॥ आकर्ण्य ससंभ्रमम् ॥
अले लुहिलप्पिआ किं णु क्खु एशे महन्ते कलाले शुणीअदि ।


९६: अरे रुधिरप्रिय किं नु खल्वेष महान्कलकलः श्रूयते ।


राक्षसः:
९७}॥ दृष्ट्वा ॥
वशागन्धे एशे क्खु धिट्ठज्जुण्णेण दोणे केशेशु आकिट्ठिअ अशिबत्तेण वाबादीअदि ।


९७: वसागन्धे एष खलु धृष्टद्युम्नेन द्रोणः केशेष्वाकृष्यासिपत्रेण व्यापाद्यते ।


राक्षसीः
९८}॥ सहर्षम् ॥
लुहिलप्पिआ एहि । गच्छिअ दोणश्श लुहिलं पिवम्ह ।


९८: रुधिरप्रिय एहि । गत्वा द्रोणस्य रुधिरं पिबावः ।


राक्षसः:
९९}॥ सभयम् ॥
वशागन्धे बम्हणशोणिअं क्खु एदं गलां दहन्ते दहन्ते पविशदि । ता किं एदिणा ।


९९: वसागन्धे ब्राह्मणशोणितं खल्वेतद्गलं दहद्दहत्प्रविशति । तत्किमेतेन ।

॥ नेपथ्ये पुनः कलकलः ॥


राक्षसीः
१००}लुहिलप्पिआ पुणो बि एशे महन्ते कलाले शुणीअदि ।


१००: रुधिरप्रिय पुनरप्येष महान्कलकलः श्रूयते ।


राक्षसः:
१०१}वशागन्धे एशे क्खु अश्शत्थामे आकिट्ठिदाशिबत्ते इदो एव्व आअच्छदि । कदा बि दुबदसुदलोशेण अम्हे बि वाबादैश्शदि । ता एहि । अतिक्कमम्ह ।


१०१: वसागन्धे एष खल्वश्वत्थामाकृष्टासिपत्र इत एवागच्छति । कदाचिद्द्रुपदसुतरोषेणावामपि व्यापादयिष्यति । तदेहि । अतिक्रमावः ।

॥ इति निष्क्रान्तौ ॥

प्रवेशकः ।


॥ ततः प्रविशत्युत्खातखड्गः कलकलमाकर्णयन्नश्वत्थामा ॥


अश्वत्थामाः
पद्य ३.४
महाप्रलयमारुतक्षुभितपुष्करावर्तक प्रचण्डघनगर्जितप्रतिरवानुकारी मुहुः
रवः श्रवणभैरवः स्थगितरोदसीकन्दरः कुतोऽद्य समरोदधेरयमभूतपूर्वः पुरः ॥३.४॥

॥ विचिन्त्य ॥
ध्रुवं गाण्डीविना सात्यकिना वृकोदरेण वा यौवनदर्पादतिक्रान्तमर्यादेन परिकोपितस्तातः समुल्लङ्घ्य शिष्यप्रियतामात्मप्रभावसदृशमाचेष्टते । तथा हि
पद्य ३.५
यद्दुर्योधनपक्षपातसदृशं युक्तं यदस्त्रग्रहे रामाल्लब्धसमस्तहेतिगुरुणो वीर्यस्य यत्सांप्रतं
लोके सर्वधनुष्मतामधिपतेर्यच्चानुरूपं रुषः प्रारब्धं रिपुघस्मरेण नियतं तत्कर्म तातेन मे ॥३.५॥

॥ पृष्ठतो विलोक्य ॥
तदलमिदानीं मम रथप्रतीक्षयानया । सशस्त्र एवास्मि सजलजलधरप्रभाभासुरेण सुप्रग्रहविमलकलधौतत्सरुणामुना खड्गेन । यावत्समरभुवमवतरामि ।॥ परिक्रम्य । वामाक्षिस्पन्दनं सूचयित्वा ॥
आः कथं ममापि नामाश्वत्थाम्नः समरमहोत्सवप्रमोदनिर्भरस्य तातविक्रमदर्शनलालसस्यानिमित्तानि समरगमनविघ्नमुत्पादयन्ति । भवतु गच्छामि ।॥ सावष्टम्भं परिक्रम्याग्रतो विलोक्य ॥
कथमवधीरितक्षात्रधर्माणामुज्झितसत्पुरुषोचितलज्जावगुण्ठनानां विस्मृतस्वामिसत्कारलघुचेतसां द्विरदतुरंगमचरणचारिणामगणितकुलयशःसदृशपराक्रमव्रतानां रणभूमेः समन्तादपक्रामतामयं महान्नादो बलानां ।॥ निरूप्य ॥
हा धिक्कष्टं । कथमेते महारथाः कर्णादयोऽपि समरात्पराङ्मुखा भवन्ति । कथं नु ताताधिष्ठितानामपि बलानामियमवस्था भवेथ् । भवतु संस्तम्भयामि । भो भोः कौरवसेनासमुद्रवेलापरिपालनमहामहीधरा नरपतयः कृतं कृतममुना समरपरित्यागसाहसेन ।
पद्य ३.६
यदि समरमपास्य नास्ति मृत्यो र्भयमिति युक्तमितोऽन्यतः प्रयातुं
अथ मरणमवश्यमेव जन्तोः किमिति मुधा मलिनं यशः कुरुध्वे ॥३.६॥

अपि च
पद्य ३.७
अस्त्रज्वालावलीढप्रतिबलजलधेरन्तरौर्वायमाणे सेनानाथे स्थितेऽस्मिन्मम पितरि गुरौ सर्वधन्वीश्वराणां
कर्णालं संभ्रमेण व्रज कृप समरं मुञ्च हार्दिक्य शङ्कां ताते चापद्वितीये वहति रणधुरां को भयस्यावकाशः ॥३.७॥


॥ नेपथ्ये ॥


कुतोऽद्यापि ते तातः ।


अश्वत्थामाः
॥ श्रुत्वा ॥
किं ब्रूथ । कुतोऽद्यापि ते तात इति ।॥ सरोषम् ॥
आः क्षुद्राः समरभीरवः कथमेवं प्रलपतां वः सहस्रधा न दीर्णमनया जिह्वया ।
पद्य ३.८
दग्धुं विश्वं दहनकिरणैर्नोदिता द्वादशार्का वाता वाता दिशि दिशि न वा सप्तधा सप्त भिन्नाः
छन्नं मेघैर्न गगनतलं पुष्करावर्तकाद्यैः पापं पापाः कथयत कथं शौर्यराशेः पितुर्मे ॥३.८॥


॥ प्रविश्य संभ्रान्तः सप्रहारः ॥


सूतः:
परित्रायतां परित्रायतां कुमारः ।॥ इति पादयोः पतति ॥



अश्वत्थामाः
॥ विलोक्य ॥
अये कथं तातस्य सारथिरश्वसेनः । आर्य ननु त्रैलोक्यत्राणक्षमस्य सारथिरसि । किं मत्तः परित्राणमिच्छसि ।


सूतः:
॥ उत्थाय सकरुणम् ॥
कुतोऽद्यापि ते तातः ।


अश्वत्थामाः
॥ सावेगम् ॥
किं तात एव नास्ति ।


सूतः:
अथ किं ।


अश्वत्थामाः
हा तात ।॥ इति मोहमुपगतः ॥



सूतः:
कमार समाश्वसिहि समाश्वसिहि ।


अश्वत्थामाः
॥ लब्धसंज्ञः सास्रम् ॥
हा तात हा सुतवत्सल हा लोकत्रयैकधनुर्धर हा जामदग् न्यास्त्रसर्वस्वप्रतिग्रहप्रणयिन्क्वासि । प्रयच्छ मे प्रतिवचनं ।


सूतः:
कमार अलमत्यन्तशोकावेगेन । वीरपुरुषोचितां विपत्तिमुपगते पितरि त्वमपि तदनुरूपेणैव वीर्येण शोकसागरमुत्तीर्य सुखी भव ।


अश्वत्थामाः
॥ अश्रूणि विमुच्य ॥
आर्य कथय कथय कथं तादृग्भुजवीर्यसागरस्तातोऽपि नामास्तमुपगतः ।
पद्य ३.९
किं भीमाद्गुरुदक्षिणां गुरुगदाद्भीमप्रियः प्राप्तवान्



सूतः:
शान्तं पापं । शान्तं पापं ।


अश्वत्थामाः
पद्य ३.९
अन्तेवासिदयालुरुज्झितनयेनासादितो जिष्णुना ।



सूतः:
कथमेवं भविष्यति ।


अश्वत्थामाः
पद्य ३.९
गोविन्देन सुदर्शनस्य नियतं धारापथं प्रापितः



सूतः:
एतदपि नास्ति ।


अश्वत्थामाः
पद्य ३.९
शङ्के नापदमन्यतः खलु गुरोरेभ्यश्चतुर्थादहं ॥३.९॥



सूतः:
कुमार
पद्य ३.१०
एतेऽपि तस्य कुपितस्य महास्त्रपाणेः किं धूर्जटेरिव तुलामुपयान्ति संख्ये
शोकोपरुद्धहृदयेन यदा तु शस्त्रं त्यक्तं तदास्य विहितं रिपुणातिघोरं ॥३.१०॥



अश्वत्थामाः
किं पुनः कारणं शोकस्यास्त्रपरित्यागस्य वा ।


सूतः:
ननु कुमार एव कारणं ।


अश्वत्थामाः
कथमहमेव नाम ।


सूतः:
श्रूयतां ।॥ अश्रूणि विमुच्य ॥

पद्य ३.११
अश्वत्थामा हत इति पृथासूनुना स्पष्टमुक्त्वा स्वैरं शेषे गज इति किल व्याहृतं सत्यवाचा
तच्छ्रुत्वासौ दयिततनयः प्रत्ययात्तस्य राज्ञः शस्त्राण्याजौ नयनसलिलं चापि तुल्यं मुमोच ॥३.११॥



अश्वत्थामाः
हा तात हा सुतवत्सल हा वृथामदर्थपरित्यक्तजीवित हा शौर्यराशे हा शिष्यप्रिय हा युधिष्ठिरपक्षपातिन् ।॥ इति रोदिति ॥



सूतः:
कुमार अलमत्यन्तपरिदेवनकार्पण्येन ।


अश्वत्थामाः
पद्य ३.१२
श्रुत्वा वधं मम मृषा सुतवत्सलेन तात त्वया सह शरैरसवो विमुक्ताः
जीवाम्यहं पुनरयं भवता वियुक्तः क्रूरेऽपि तन्मयि मुधा तव पक्षपातः ॥३.१२॥

॥ इति मोहमुपगतः ॥



सूतः:
समाश्वसितु समाश्वसितु कमारः ।

॥ ततः प्रविशति कृपः ॥


कृपः:
॥ सोद्वेगं निःश्वस्य ॥

पद्य ३.१३
धिक्सानुजं कुरुपतिं धिगजातशत्रुं दिग्भूपतीन्विफलशस्त्रभृतो धिगस्मान्
केशग्रहः खलु तदा द्रुपदात्मजाया द्रोणस्य चाद्य लिखितैरिव वीक्षितो यैः ॥३.१३॥

तत्कथं नु खलु वत्सं द्रक्ष्याम्यश्वत्थामानं । अथ वा हिमवत्सारगुरुचेतसि ज्ञातलोकस्थितौ तस्मिन्न खलु शोकावेगमहमाशङ्के । किं तु पितुः परिभवसदृशमुपश्रुत्य न जाने किं व्यवस्यतीति । अथ वा
पद्य ३.१४
एकस्य तावत्पाकोऽयं दारुणो भुवि वर्तते ।
केशग्रहे द्वितीयेऽस्मिन्नूनं निःशेषिताः प्रजाः ॥३.१४॥

॥ विलोक्य ॥
तदयं वत्सस्तिष्ठति । यावदुपसर्पामि ।॥ उपसृत्य ससंभ्रमम् ॥
वत्स समाश्वसिहि समाश्वसिहि ।


अश्वत्थामाः
॥ संज्ञां लब्ध्वा सास्रम् ॥
हा तात हा सकलभुवनैकगुरो ।॥ आकाशे ॥
युधिष्ठिर युधिष्ठिर
पद्य ३.१५
आ जन्मनो न वितथं भवता किलोक्तं न द्वेक्षि यज्जनमतस्त्वमजातशत्रुः
ताते गुरौ द्विजवरे मम भाग्यदोषा त्सर्वं तदेकपद एव कथं निरस्तं ॥३.१५॥



सूतः:
कुमार एष ते मातुलः शारद्वतः पार्श्वे तिष्ठति ।


अश्वत्थामाः
॥ पार्श्वे विलोक्य सबाष्पम् ॥
मातुल मातुल
पद्य ३.१६
गतो येनाद्य त्वं सह रणभुवं सैन्यपतिना य एकः शूराणां गुरुकण्डूनिकषणः
परीहासाश्चित्राः सततमभवन्येन भवतः स्वसुः श्लाघ्यो भर्ता क्व नु खलु स ते मातुल गतः ॥३.१६॥



कृपः:
परिगतपरिगन्तव्य एव भवान् । तदलमत्यन्तशोकावेगेन ।


अश्वत्थामाः
मातुल परित्यक्तमेव मया परिदेवनं । एषोऽहं सुतवत्सलं तातमेवानुगच्छामि ।


कृपः:
वत्स अनुपपन्नं भवद्विधानामिदं ।


सूतः:
कुमार अलमतिसाहसेन ।


अश्वत्थामाः
आर्य शारद्वत
पद्य ३.१७
मद्वियोगभयात्तातः परलोकमितो गतः ।
करोमि विरहं तस्य वत्सलस्य कथं पितुः ॥३.१७॥



कृपः:
वत्स यावदयं संसारस्तावत्प्रसिद्धैवेयं लोकयात्रा यत्पुत्रैः पितरो लोकद्वयेऽप्यनुवर्तनीया इति । पश्य ।
पद्य ३.१८
निवापाञ्जलिदानेन केतनैः श्राद्धकर्मभिः ।
तस्योपकारे शक्तस्त्वं किं जीवन्किमुतान्यथा ॥३.१८॥



सूतः:
आयुष्मन्यथैव मातुलस्ते शारद्वतः कथयति तत्तथा ।


अश्वत्थामाः
आर्य सत्यमेवेआञ्¦ं । किं त्वतिदुर्वहत्वाच्छोकभारस्य न शक्नोमि तातविरहितः क्षणमपि प्राणान्धारयितुं । तद्गच्छामि तमेवोद्देशं यत्र तथाविधमपि पितरं द्रक्ष्यामि ।॥ उत्तिष्ठन्खड्गमालोक्य विचिन्त्य ॥
कृतमद्यापि शस्त्रग्रहणविडम्बनया । भगवञ्शस्त्र
पद्य ३.१९
गृहीतं येनासीः परिभवभयान्नोचितमपि प्रभावाद्यस्याभून्न खलु तव कश्चिन्न विषयः
परित्यक्तं तेन त्वमसि सुतशोकान्न तु भया द्विमोक्ष्ये शस्त्र त्वामहमपि यतः स्वस्ति भवते ॥३.१९॥

॥ इत्युत्सृजति ॥


॥ नेपथ्ये ॥


भो भो राजानः कथमिह भवन्तः सर्वे गुरोर्भारद्वाजस्य परिभवममुना नृशंसेन प्रयुक्तमुपेक्षन्ते ।


अश्वत्थामाः
॥ आकर्ण्य शनैः शस्त्रं स्पृशन् ॥
किं गुरोर्भारद्वाजस्य परिभवः ।

॥ पुनर्नेपथ्ये ॥


पद्य ३.२०
आचार्यस्य त्रिभुवनगुरोर्न्यस्तशस्त्रस्य शोका द्द्रोणस्याजौ नयनसलिलक्षालितार्द्राननस्य
मौलौ पाणिं पलितधवले न्यस्य कृत्वा नृशंसं धृष्टद्युम्नः स्वशिबिरमयं याति सर्वे सहध्वं ॥३.२०॥



अश्वत्थामाः
॥ सक्रोधं सकम्पं च कृपसूतौ दृष्ट्वा ॥
किं नामेदं ।
पद्य ३.२१
प्रत्यक्षमात्तधनुषां मनुजेश्वराणां प्रायोपवेशसदृशं व्रतमास्थितस्य
तातस्य मे पलितमौलिनिरस्तकाशे व्यापारितं शिरसि शस्त्रमशस्त्रपाणेः ॥३.२१॥



कृपः:
वत्स एवं किल जनः कथयति ।


अश्वत्थामाः
किं तातस्य दुरात्मना परिमृष्टमभूच्छिरः ।


सूतः:
॥ सभयम् ॥
कुमार आसीदयं तस्य तेजोराशेर्देवस्य नवः परिभवावतारः ।


अश्वत्थामाः
हा तात हा पुत्रप्रिय मम मन्दभागधेयस्य कृते शस्त्रपरित्यागात्तथाविधेन क्षुद्रेणात्मा परिभावितः । अथ वा
पद्य ३.२२
परित्यक्ते देहे रणशिरसि शोकान्धमनसा शिरः श्वा काको वा द्रुपदतनयो वा परिमृशेथ्
स्फुरद्दिव्यास्त्रौघद्रविणमदमत्तस्य च रिपो र्ममैवायं पादः शिरसि निहितस्तस्य न करः ॥३.२२॥

आः दुरात्मन्पाञ्चालापसद
पद्य ३.२३
तातं शस्त्रग्रहणविमुखं निश्चयेनोपलभ्य त्यक्त्वा शङ्कां खलु विदधतः पाणिमस्योत्तमाङ्गे
अश्वत्थामा करधृतधनुः पाण्डुपाञ्चालसेना तूलोत्क्षेपप्रलयपवनः किं न यातः स्मृतिं ते ॥३.२३॥

युधिष्ठिर युधिष्ठिर अजातशत्रो अमिथ्यावादिन्धर्मपुत्र सानुजस्य ते किमनेनापकृतं । अथ वा किमनेनालीकप्रकृतिजिह्मचेतसा । अर्जुन सात्यके बाहुशालिन्वृकोदर माधव युक्तं नाम भवतां सुरासुरमनुजलोकैकधनुर्धरस्य द्विजन्मनः परिणतवयसः सर्वाचार्यस्य विशेषतो मम पितुरमुना द्रुपदकुलकलङ्केन मनुजपशुना स्पृश्यमानमुत्तमाङ्गमुपेक्षितं । अथ वा सर्व एवैते पातकिनः । किमेतैः
पद्य ३.२४
कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः
नरकरिपुणा सार्धं तेषां सभीमकिरीटिना मयमहमसृङ्मेदोमांसैः करोमि दिशां बलिं ॥३.२४॥



कृपः:
वत्स किं न संभाव्यते भारद्वाजतुल्ये बाहुशालिनि दिव्यास्त्रग्रामकोविदे भवति ।


अश्वत्थामाः
भो भोः पाण्डवमत्स्यसोमकमागधाद्याः क्षत्रियापसादाः
पद्य ३.२५
पितुर्मूर्ध्नि स्पृष्टे ज्वलदनलभास्वत्परशुना कृतं यद्रामेण श्रुतिमुपगतं तन्न भवतां
किमद्याश्वत्थामा तदरिरुधिरासारविघसं न कर्म क्रोधान्धः प्रभवति विधातुं रणमुखे ॥३.२५॥

सूत गच्छ त्वं सर्वोपकरणैः सांग्रामिकैः सर्वायुधैरुपेतं महाहवलक्षणं नामास्मत्स्यन्दनमुपनय ।


सूतः:
यदाज्ञापयति कुमारः ।॥ इति निष्क्रान्तः ॥



कृपः:
वत्स अवश्यप्रतिकर्तव्येऽस्मिन्दारुणे परिभवाग्नौ सर्वेषामस्माकं कोऽन्यस्त्वामन्तरेण शक्तः प्रतिकर्तुं । किं तु


अश्वत्थामाः
किमतः परं ।


कृपः:
सैनापत्येऽभिषिक्तं भवन्तमिच्छामि समरभुवनमवतारयितुं ।


अश्वत्थामाः
मातुल परतन्त्रमिदमकिंचित्करं च ।


कृपः:
वत्स न खलु परतन्त्रं नाकिंचित्करं च । पश्य ।
पद्य ३.२६
भवेदभीष्ममद्रोणं धार्तराष्ट्रबलं कथं ।
यदि तत्तुल्यकर्मात्र भवान्धुरि न युज्यते ॥३.२६॥

कृतपरिकरस्य भवादृशस्य त्रैलोक्यमपि न क्षमं परिपन्थीभवितुं किं पुनर्युधिष्ठिरबलं । तदेवं मन्ये परिकल्पिताभिषेकोपकरणः कौरवराजो न चिरात्त्वामेवाभ्यपेक्षमाणस्तिष्ठतीति ।


अश्वत्थामाः
यद्येवं त्वरते मे परिभवानलदह्यमानमिदं चेतस्तत्प्रतीकारजलावगाहनाय । तदहं गत्वा तातवधविषण्णमानसं कुरुपतिं सैनापत्यस्वयंग्रहणप्रणयसमाश्वासनया मन्दसंतापं करोमि ।


कृपः:
वत्स एवमिदं । अतस्तमेवोद्देशं गच्छावः ।

॥ इति परिक्रामतः ॥

॥ ततः प्रविशतः कर्णदुर्योधनौ ॥


दुर्योधनः:
अङ्गराज
पद्य ३.२७
तेजस्वी रिपुहतबन्धुदुःखपारं बाहुभ्यां व्रजति धृतायुधप्लवाभ्यां
आचार्यः सुतनिधनं निशम्य संख्ये किं शस्त्रग्रहसमये विशस्त्र आसीथ् ॥३.२७॥

अथ वा सूक्तमिदमभियुक्तैः प्रकृतिर्दुस्त्यजेति । यतः शोकान्धमनसा तेन विमुच्य क्षात्रधर्मकार्कश्यं द्विजातिधर्मसुलभो मार्दवपरिग्रहः कृतः ।


कर्णः:
राजन्कौरवेश्वर न खल्विदमेवं ।


दुर्योधनः:
कथं तर्हि ।


कर्णः:
एवं किलास्याभिप्रायो यथाश्वत्थामा मया पृथिवीराज्येऽभिषेक्तव्य इति । तस्याभावाद्वृद्धस्य मे ब्राह्मणस्य वृथा शस्त्रग्रहणमिति तथा कृतवान् ।


दुर्योधनः:
॥ सशिरःकम्पम् ॥
एवमिदं ।


कर्णः:
एतदर्थं च कौरवपाण्डवपक्षपातप्रवृत्तमहासंग्रामस्य राजकस्य परस्परक्षयमपेक्षमाणेन तेन प्रधानपुरुषवधोपेक्षा कृता ।


दुर्योधनः:
उपपन्नमिदं ।


कर्णः:
अन्यच्च राजन्द्रुपदेनाप्यस्य बाल्यात्प्रभृत्यभिप्रायवेदिना न स्वराष्ट्रे वासो दत्तः ।


दुर्योधनः:
साधु अङ्गराज साधु । निपुणमभिहितं ।


कर्णः:
न चायं ममैकस्याभिप्रायः । अन्येऽभियुक्ता अपि नैवेदमन्यथा मन्यन्ते ।


दुर्योधनः:
एवमेतथ् । कः संदेहः ।
पद्य ३.२८
दत्त्वाभयं सोऽतिरथो बध्यमानं किरीटिना ।
सिन्धुराजमुपेक्षेत नैवं चेत्कथमन्यथा ॥३.२८॥



कृपः:
॥ विलोक्य ॥
वत्स एष दुर्योधनः सूतपुत्रेण सहास्यां न्यग्रोधच्छायायामुपविष्टस्तिष्ठति । तदुपसर्पावः ।

॥ तथा कृत्वा ॥


उभौः
विजयतां कौरवेश्वरः ।


दुर्योधनः:
॥ दृष्ट्वा ॥
अये कथं कृपोऽश्वत्थामा च ।॥ आसनादवतीर्य कृपं प्रति ॥
गुरो अभिवादये ।॥ अश्वत्थामानमुद्दिश्य ॥
आचार्यपुत्र
पद्य ३.२९
एह्यस्मदर्थहततात परिष्वजस्व क्लान्तैरिदं मम निरन्तरमङ्गमङ्गैः
स्पर्शस्तवैष भुजयोः सदृशः पितुस्ते शोकेऽपि यो विकृतिमेति तनूरुहेषु ॥३.२९॥


॥ आलिङ्ग्य पार्श्व उपवेशयति । अश्वत्थामा बाष्पमुत्सृजति ॥


कर्णः:
द्रौणायन अलमत्यर्थमात्मानं शोकानले प्रक्षिप्य ।


दुर्योधनः:
आचार्यपुत्र को विशेष आवयोरस्मिन्व्यसनमहार्णवे । पश्य ।
पद्य ३.३०
तातस्तव प्रणयवान्स पितुः सखा मे शस्त्रे यथा तव गुरुः स तथा ममापि
किं तस्य देहनिधने कथयामि दुःखं जानीहि तद्गुरुशुचा मनसा त्वमेव ॥३.३०॥



कृपः:
वत्स यथाह कुरुपतिस्तथैवैतथ् ।


अश्वत्थामाः
राजन्नेवं पक्षपातिनि त्वयि युक्तमेव शोकभारं लघूकर्तुं । किं तु
पद्य ३.३१
मयि जीवति मत्तातः केशग्रहणमवाप्तवान् ।
कथमन्ये करिष्यन्ति पुत्रेभ्यः पुत्रिणः स्पृहां ॥३.३१॥



कर्णः:
द्रौणायन किमत्र क्रियते यदा तेनैव सर्वपरिभवत्राणहेतुना शस्त्रमुत्सृजता तादृशीमवस्थामात्मा नीतः ।


अश्वत्थामाः
अङ्गराज किमाह भवान्किमत्र क्रियत इति । श्रूयतां यत्क्रियते ।
पद्य ३.३२
यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा
यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः क्रोधान्धस्तस्य तस्य स्वयमपि जगतामन्तकस्यान्तकोऽहं ॥३.३२॥

अपि च भो जामदग्न्यशिष्य कर्ण
पद्य ३.३३
देशः सोऽयमरातिशोणितजलैर्यस्मिन्ह्रदाः पूरिताः क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः
तान्येवाहितशस्त्रघस्मरगुरूण्यस्त्राणि भास्वन्ति मे यद्रामेण कृतं तदेव कुरुते द्रौणायनः क्रोधनः ॥३.३३॥



दुर्योधनः:
आचार्यपुत्र तस्य तथाविधस्यानन्यसाधारणस्य ते वीरभावस्य किमन्यत्सदृशं ।


कृपः:
राजन्सुमहान्खलु द्रोणपुत्रेण वोढुमध्यवसितः समरभारः । तदहमेवं मन्ये । भवता कृतपरिकरोऽयमुच्छेत्तुं लोकत्रयमपि समर्थः किं पुनर्युधिष्ठिरबलं । अतोऽभिषिच्यतां सैनापत्ये ।


दुर्योधनः:
सुष्ठु युज्यमानमभिहितं युष्माभिः । किं तु प्राक्प्रतिपन्नोऽयमर्थोऽङ्गराजस्य ।


कृपः:
राजन्नसदृशपरिभवशोकसागरे निमज्जन्तमेनमङ्गराजस्यार्थे नैवोपेक्षितुं युक्तं । अस्यापि तदेवारिकुलमनुशासनीयं । अतः किमस्य पीडा न भविष्यति ।


अश्वत्थामाः
राजन्कौरवेश्वर किमद्यापि युक्तायुक्तविचारणया ।
पद्य ३.३४
प्रयत्नपरिबोधितः स्तुतिभिरद्य शेषे निशा मकेशवमपाण्डवं भुवनमद्य निःसोमकं
इयं परिसमाप्यते रणकथाद्य दोःशालिना व्यपैतु नृपकाननातिगुरुरद्य भारो भुवः ॥३.३४॥



कर्णः:
॥ विहस्य ॥
वक्तुं सुकरमिदं दुष्करमध्यवसातुं । बहवः कौरवबलेऽस्य कर्मणः शक्ताः ।


अश्वत्थामाः
अङ्गराज एवमिदं । बहवः कौरवबलेऽत्र शक्ताः । किं तु दुःखोपहतः शोकावेशवशाद्ब्रवीमि न पुनर्वीरजनाधिक्षेपेण ।


कर्णः:
मूढ दुःखितस्याश्रुपातः कुपितस्य चायुधद्वितीयस्य संग्रामावतरणमुचितं नैवंविधाः प्रलापाः ।


अश्वत्थामाः
॥ सक्रोधम् ॥
अरे रे राधागर्भभारभूत सूतापसद ममापि नामाश्वत्थाम्नो दुःखितस्याश्रुभिः प्रतिक्रियामुपदिशि न शस्त्रेण । पश्य ।
पद्य ३.३५
निर्वीर्यं गुरुशापभाषितवशात्किं मे तवेवायुधं संप्रत्येव भयाद्विहाय समरं प्राप्तोऽस्मि किं त्वं यथा
जातोऽहं स्तुतिवंशकीर्तनविदां किं सारथीनां कुले क्षुद्रारातिकृताप्रियं प्रतिकरोम्यस्रेण नास्त्रेण यथ् ॥३.३५॥



कर्णः:
॥ सक्रोधम् ॥
अरे रे वाचाट वृथाशस्त्रग्रहणदुर्विदग्ध बटो
पद्य ३.३६
निर्वीर्यं वा सवीर्यं वा मया नोत्सृष्टमायुधं ।
यथा पाञ्चालभीतेन पित्रा ते बाहुशालिना ॥३.३६॥

अपि च
पद्य ३.३७
सूतो वा सूतपुत्रो वा यो वा को वा भवाम्यहं ।
दैवायत्तं कुले जन्म मदायत्तं तु पौरुषं ॥३.३७॥



अश्वत्थामाः
॥ सक्रोधम् ॥
अरे रे रथकारकुलकलङ्क राधागर्भभारभूत अरे आयुधानभिज्ञ तातमप्यधिक्षिपसि । अथ वा
पद्य ३.३८
स भीरुः शूरो वा प्रथितभुजसारस्त्रिभुवने कृतं यत्तेनाजौ प्रतिदिनमियं वेत्ति वसुधा
परित्यक्तं शस्त्रं कथमिति स सत्यव्रतधरः पृथासूनुः साक्षी त्वमसि रणभीरो क्व नु तदा ॥३.३८॥



कर्णः:
॥ विहस्य ॥
एवं भीरुरहं । पुनर्विक्रमैकरसं तव पितरमनुस्मृत्य महान्मे संशयो जातः । अपि च रे मूढ
पद्य ३.३९
यदि शस्त्रमुज्झितमशस्त्रपाणयो न निवारयन्ति किमरीनुदायुधान्
यदनेन मौलिदलनेऽप्युदासितं सुचिरं स्त्रियेव नृपचक्रसंनिधौ ॥३.३९॥



अश्वत्थामाः
॥ सक्रोधं सकम्पं च ॥
दुरात्मन्राजवल्लभ प्रगल्भ सूतापसद असंबद्धप्रलापिन्
पद्य ३.४०
कथमपि न निषिद्धो दुःखिना भीरुणा वा द्रुपदतनयपाणिस्तेन पित्रा ममाद्य
तव भुजबलदर्पाध्मायमानस्य वामः शिरसि चरण एष न्यस्यते वारयैनं ॥३.४०॥

॥ इति तथा कर्तुमुत्तिष्ठति ॥



कृपदुर्योधनौः
गुरुपुत्र मर्षय ।॥ इति निवारयतः ॥


॥ अश्वत्थामा चरणप्रहारं नाटयति ॥


कर्णः:
॥ सक्रोधमुत्थाय खड्गमाकृष्य ॥
अरे दुरात्मन्वाचाल ब्रह्मबन्धो आत्मश्लाघ
पद्य ३.४१
जात्या काममवध्योऽसि चरणं त्विममुद्धृतं ।
अनेन लूनं खड्गेन पतितं वेत्स्यसि क्षितौ ॥३.४१॥



अश्वत्थामाः
अरे मूढ किं नाम जात्या काममवध्योऽहं । इयं सा जातिस्त्यक्ता ।॥ इति यज्ञोपवीतं छिनत्ति । पुनश्च सक्रोधम् ॥

पद्य ३.४२
अद्य मिथ्याप्रतिज्ञोऽसौ किरीटी क्रियते मया ।
शस्त्रं गृहाण वा त्यक्त्वा मौलौ वा रचयाञ्जलिं ॥३.४२॥


॥ उभावपि खड्गमाकृष्यान्योऽन्यं प्रहर्तुमुद्यतौ । कृपदुर्योधनौ वारयतः ॥


दुर्योधनः:
सखे आचार्यपुत्र शस्त्रग्रहणेनालं ।


कृपः:
वत्स सूतपुत्र शस्त्रग्रहणेनालं ।


अश्वत्थामाः
मातुल मातुल किं निवारयसि । अयमपि तातनिन्दाप्रगल्भः सूतापसदो धृष्टद्युम्नपक्षपात्येव ।


कर्णः:
राजन्न खल्वहं निवारयितव्यः ।
पद्य ३.४३
उपेक्षितानां मन्दानां धीरसत्त्वैरवज्ञया ।
अत्रासितानां क्रोधान्धैर्भवत्येषा विकत्थना ॥३.४३॥



अश्वत्थामाः
राजन्मुञ्च मुञ्चैनं । आसादयतु मद्भुजान्तरनिष्पेषसुलभमसूनामवसादनं । अन्यच्च राजन् । स्नेहेन कार्येण वा यत्त्वमेनं ताताधिक्षेपकारिणं दुरात्मानं मत्तः परिरक्षितुमिच्छसि तदुभयमपि वृथैव । पश्य ।
पद्य ३.४४
पापप्रियस्तव कथं गुणिनः सहायः सूतान्वयः शशधरान्वयसंभवस्य
हन्ता किरीटिनमहं नृप मुञ्च कुर्यां क्रोधादकर्णमपृथात्मजमद्य लोकं ॥३.४४॥

॥ इति प्रहर्तुमिच्छति ॥



कर्णः:
॥ खड्गमुद्यम्य ॥
अरे वाचाट ब्राह्मणाधम अयं न भवसि । राजन्मुञ्च मुञ्च । न खल्वहं वारयितव्यः ।॥ हन्तुमिच्छति ॥


॥ दुर्योधनकृपौ निवारयतः ॥


दुर्योधनः:
कर्ण गुरुपुत्र कोऽयमद्य युवयोर्व्यामोहः ।


कृपः:
वत्स अन्यदेव प्रस्तुतमन्यत्रावेग इति कोऽयं व्यामोहः । स्वबलव्यसनं चेदमस्मिन्काले राजकुलस्यास्य युष्मत्त एव भवतीति वामः पन्थाः ।


अश्वत्थामाः
मातुल न लभ्यतेऽस्य कटुप्रलापिनो रथकारकुलकलङ्कस्य दर्पः शातयितुं ।


कृपः:
वत्स अकालः खलु स्वबलप्रधानविरोधस्य ।


अश्वत्थामाः
मातुल यद्येवम्
पद्य ३.४५
अयं पापो यावन्न निधनमुपेयादरिशरैः परित्यक्तं तावत्प्रियमपि मयास्त्रं रणमुखे
बलानां नाथेऽस्मिन्परिकुपितभीमार्जुनभये समुत्पन्ने राजा प्रियसखबलं वेत्तु समरे ॥३.४५॥

॥ इति खड्गमुत्सृजति ॥



कर्णः:
॥ विहस्य ॥
कुलक्रमागतमेवैतद्भवादृशां यदस्त्रपरित्यागो नाम ।


अश्वत्थामाः
ननु रे अपरित्यक्तमपि भवादृशैरायुधं चिरपरित्यक्तमेव निष्फलत्वाथ् ।


कर्णः:
अरे मुढ
पद्य ३.४६
धृतायुधो यावदहं तावदन्यैः किमायुधैः ।
यद्वा न सिद्धमस्त्रेण मम तत्केन सेत्स्यति ॥३.४६॥


॥ नेपथ्ये ॥


आः दुरात्मन्द्रौपदीकेशाम्बराकर्षणमहापातकिन्धार्तराष्ट्रापसद चिरस्य खलु कालस्य मत्संमुखमागतोऽसि । क्षुद्रपशो क्वेदानीं गम्यते । अपि च भो भो राधेयदुर्योधनसौबलप्रभृतयः पाण्डवविद्वेषणश्चापपाणयो मानधनाः शृण्वन्तु भवन्तः ।
पद्य ३.४७
स्पृष्टा येन शिरोरुहे नृपशुना पाञ्चालराजात्मजा येनास्याः परिधानमप्यपहृतं राज्ञां गुरूणां पुरः
यस्योरःस्थलशोणितासवमहं पातुं प्रतिज्ञातवा न्सोऽयं मद्भुजपञ्जरे निपतितः संरक्ष्यतां कौरवः ॥३.४७॥


॥ सर्व आकर्णयन्ति ॥


अश्वत्थामाः
॥ सोत्प्रासम् ॥
अङ्गराज सेनापते जामदग्न्यशिष्य द्रोणोपहासिन्भुजबलपरिरक्षितसकललोक ।॥ धृतायुध इति पठित्वा ॥
इदं तदासन्नतरमेव संवृत्तं । रक्षैनं सांप्रतं भीमाद्दुःशासनं ।


कर्णः:
आः का शक्तिर्वृकोदरस्य मयि जीवति दुःशासनस्य छायामप्याक्रमितुं । युवराज न भेतव्यं न भेतव्यं । अयमहमागतोऽस्मि ।॥ इति निष्क्रान्तः ॥



अश्वत्थामाः
राजन्कौरवनाथ अभीष्मद्रोणं संप्रति कौरवबलमालोडयन्तौ भीमार्जुनौ राधेयेनैवंविधेनान्येन वा न शक्येते निवारयितुं । अतः स्वयमेव भ्रातुः प्रतीकारपरो भव ।


दुर्योधनः:
आः शक्तिरस्ति दुरात्मनः पवनतनयस्यान्यस्य वा मयि जीवति शस्त्रपाणौ वत्सस्य छायामप्याक्रमितुं । वत्स न भेतव्यं न भेतव्यं । कः कोऽत्र भोः । रथमुपनय ।॥ इति निष्क्रान्तः ॥


॥ नेपथ्ये कलकलः ॥


अश्वत्थामाः
॥ अग्रतो विलोक्य ॥
मातुल हा धिक्कष्टं । एष खलु भ्रातुः प्रतिज्ञाभङ्गभीरुः किरीटी समं दुर्योधनराधेयौ शरवर्षैर्दुर्वारैरभिद्रवति । सर्वथा पीतं दुःशासनशोणितं भीमेन । न खलु विषहे दुर्योधनानुजस्यैनां विपत्तिमवलोकयितुं । अनृतमनुमतं नाम । मातुल शस्त्रं शस्त्रं ।
पद्य ३.४८
सत्यादप्यनृतं श्रेयो धिक्स्वर्गं नरकोऽस्तु मे ।
भीमाद्दुःशासनं त्रातुं त्यक्तमत्यक्तमायुधं ॥३.४८॥

॥ इति खड्गं ग्रहीतुमिच्छति ॥


॥ नेपथ्ये ॥


महात्मन्भारद्वाजसूनो न खलु सत्यवचनमनुल्लङ्घितपूर्वमुल्लङ्घयितुमर्हसि ।


कृपः:
वत्स अशरीरिणी भारती भवन्तमनृतादभिरक्षति ।


अश्वत्थामाः
कथमियममानुषी वाग्नानुमनुते संग्रामावतरणं मम । भोः कष्टं । आः पक्षपातिनो देवा अपि पाण्डवानां । सर्वथा पीतं दुःशासनशोणितं भीमेन । भोः कष्टं कष्टं ।
पद्य ३.४९
दुःशासनस्य रुधिरे पीयमानेऽप्युदासितं ।
दुर्योधनस्य कर्तास्मि किमन्यत्प्रियमाहवे ॥३.४९॥

मातुल राधेयक्रोधवशादनार्यमस्माभिराचरितं । अतस्त्वमपि तावदस्य राज्ञः पार्श्ववर्ती भव ।


कृपः:
गच्छाम्यहमत्र प्रतिविधातुं । भवानपि शिबिरसंनिवेशमेव प्रतिष्ठतां ।

॥ परिक्रम्य निष्क्रान्तौ ॥


इति तृतीयोऽङ्कः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:14.6930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

stair lighting

  • सोपान दीपन 
RANDOM WORD

Did you know?

नैमित्तिक पूजा म्हणजे काय? त्या कोणकोणत्या?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.