संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - प्रथमप्रपाठकः| सप्तमी दशतिः छन्द आर्चिकः - प्रथमप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः नवमी दशतिः दशमी दशतिः प्रथमप्रपाठकः - सप्तमी दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद सप्तमी दशतिः Translation - भाषांतर आ जुहोता हविषा मर्जयध्वं नि होतारं गृहपतिं दधिध्वं ।इडस्पदे नमसा रातहव्यं सपर्यता यजतं पस्त्यानां ॥६३॥चित्र इच्छिशोस्तरुणस्य वक्षथो न यो मातरावन्वेति धातवे ।अनूधा यदजीजनदधा चिदा ववक्षत्सद्यो महि दूत्या३ं चरन् ॥६४॥इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व ।संवेशनस्तन्वे३ चारुरेधि प्रियो देवानां परमे जनित्रे ॥६५॥इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया ।भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ॥६६॥मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निं ।कविं सम्राजमतिथिं जनानामासन्नाः पात्रं जनयन्त देवाः ॥६७॥वि त्वदापो न पर्वतस्य पृष्ठादुक्थेभिरग्ने जनयन्त देवाः ।तं त्वा गिरः सुष्टुतयो वाजयन्त्याजिं न गिर्ववाहो जिग्युरश्वाः ॥६८॥आ वो राजानमध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः ।अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वं ॥६९॥इन्धे राजा समर्यो नमोभिर्यस्य प्रतीकमाहुतं घृतेन ।नरो हव्येभिरीडते सबाध आग्निरग्रमुषसामशोचि ॥७०॥प्र केतुना बृहता यात्यग्निरा रोदसी वृषभो रोरवीति ।दिवश्चिदन्तादुपमामुदानडपामुपस्थे महिषो ववर्ध ॥७१॥अग्निं नरो दीधितिभिरण्योर्हस्तच्युतं जनयत प्रशस्तं ।दूरेदृशं गृहपतिमथव्युं ॥७२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP