संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - प्रथमप्रपाठकः| पञ्चमी दशतिः छन्द आर्चिकः - प्रथमप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः नवमी दशतिः दशमी दशतिः प्रथमप्रपाठकः - पञ्चमी दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद पञ्चमी दशतिः Translation - भाषांतर एना वो अग्निं नमसोर्जो नपातमा हुवे ।प्रियं चेतिष्ठमरतिं स्वाध्वरं विश्वस्य दूतममृतं ॥४५॥शेषे वनेषु मातृषु सं त्वा मर्तास इन्धते ।अतन्द्रो हव्यं वहसि हविष्कृत आदिद्देवेषु राजसि ॥४६॥अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः ।उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्तु नो गिरः ॥४७॥अग्निरुक्थे पुरोहितो ग्रावाणो बर्हिरध्वरे ।ऋचा यामि मरुतो ब्रह्मणस्पते देवा अवो वरेण्यं ॥४८॥अग्निमीडिष्वावसे गाथाभिः शीरशोचिषं ।अग्निं राये पुरुमीढ श्रुतं नरोऽग्निः सुदीतये छर्दिः ॥४९॥श्रुधि श्रुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः ।आ सीदतु बर्हिषि मित्रो अर्यमा प्रातर्यावभिरध्वरे ॥५०॥प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना ।अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि ॥५१॥अध ज्मो अध वा दिवो बृहतो रोचनादधि ।अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पृण ॥५२॥कायमानो वना त्वं यन्मात्ऱीरजगन्नपः ।न तत्ते अग्ने प्रमृषे निवर्तनं यद्दूरे सन्निहाभुवः ॥५३॥नि त्वामग्ने मनुर्दधे ज्योतिर्जनाय शश्वते ।दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः ॥५४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP