संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - प्रथमप्रपाठकः| तृतीया दशतिः छन्द आर्चिकः - प्रथमप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः नवमी दशतिः दशमी दशतिः प्रथमप्रपाठकः - तृतीया दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद तृतीया दशतिः Translation - भाषांतर अग्निं वो वृधन्तमध्वराणां पुरूतमं ।अच्छा नप्त्रे सहस्वते ॥२१॥अग्निस्तिग्मेन शोचिषा यंसद्विश्वं न्या३त्रिणं ।अग्निर्नो वंसते रयिं ॥२२॥अग्ने मृड महां अस्यय आ देवयुं जनं ।इयेथ बर्हिरासदं ॥२३॥अग्ने रक्षा णो अंहसः प्रति स्म देव रीषतः ।तपिष्ठैरजरो दह ॥२४॥अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः ।अरं वहन्त्याशवः ॥२५॥नि त्वा नक्ष्य विश्पते द्युमन्तं धीमहे वयं ।सुवीरमग्न आहुत ॥२६॥अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयं ।अपां रेतांसि जिन्वति ॥२७॥इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसं ।अग्ने देवेषु प्र वोचः ॥२८॥तं त्वा गोपवनो गिरा जनिष्ठदग्ने अङ्गरः ।स पावक श्रुधी हवं ॥२९॥परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् ।दधद्रत्नानि दाशुषे ॥३०॥उदु त्यं जातवेदसं देवं वहन्ति केतवः ।दृशे विश्वाय सूर्यं ॥३१॥कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे ।देवममीवचातनं ॥३२॥शं नो देवीरभिष्टये शं नो भवन्तु पीतये ।शं योरभि स्रवन्तु नः ॥३३॥कस्य नूनं परीणसि धियो जिन्वसि सत्पते ।जोषाता यस्य ते गिरः ॥३४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP