संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|चाणक्य-सूत्राणि| अष्टमोऽध्यायः चाणक्य-सूत्राणि प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः चाणक्य-सूत्राणि - अष्टमोऽध्यायः नीतिवर्णनात्मक संस्कृत ग्रंथांमध्ये, चाणक्य-नीतिदर्पण ग्रंथाचे महत्वपूर्ण स्थान आहे. जीवन सुखमय आणि ध्येयपूर्ण बनविण्यासाठी, विविध विषयांचे वर्णन या ग्रंथात आहे. व्यवहार संबंधी सूत्रे तसेच राजनीति संबंधी श्लोकांचा यात समावेश आहे. Tags : chanakyakautilyanitishastraकौटिल्यचाणक्यनीतिशास्त्र अष्टमोऽध्यायः Translation - भाषांतर १ - धुरमेधसोऽसच्छास्त्रं मोहयति ।२ - सत्सङ्गः स्वर्गवासः ।३ - आर्याः स्वमिव परं मन्वते ।४ - रूपानुवर्ती गुणः ।५ - यत्र सुखेन वर्तते तदेव स्थानम् ।६ - विश्वासघातिनो न निष्ृतिः ।७ - दैवायत्तं न शोचेत् ।८ - आश्रितदुःखमात्मन इव मन्यते साधुः ।९ - हृद्गतमाच्छाद्यान्यद्वदत्यनार्यः ।१० - बुद्धिहीनः पिशाचतुल्यः ।११ - असहायः पथि न गच्छेत ।१२ - पुत्रो न स्तोतव्यः ।१३ - स्वामी स्तोतव्योऽनुजीविभिः ।१४ - धर्मकृत्यानि सर्वाणि स्वामिन इत्येव घोषयेत् ।१५ - राजाज्ञां नातिलङ्घयेत् ।१६ - यथाऽऽज्ञप्तं तथा कुर्यात् ।१७ - नास्ति बुद्धिमतां शत्रुः ।१८ - आत्मछिद्र न प्रकाशयेत् ।१९ - क्षमावानेव सर्वं साधयति ।२० - आपदर्थं धनं रक्षेत् ।२१ - साहसवतां प्रयं कर्तव्यम् ।२२ - श्वः कार्यमद्य कुर्वीत ।२३ - आपराह्णिकं पूर्वाह्ण एव कर्तव्यम् ।२४ - व्यवहारानुलोमो धर्मः ।२५ - सर्वज्ञता लोकज्ञता ।२६ - शास्त्रज्ञोऽप्यलोकज्ञो मुर्खतुल्यः ।२७ - शास्त्रप्रयोजनं तत्त्वदर्शनम् ।२८ - तत्त्वज्ञानं कार्यमेव प्रकाशयति ।२९ - व्यवहारे पक्षपातो न कार्यः ।३० - धर्मादपि व्यवहारो गरीयान् ।३१ - आत्मा हि व्यवहारस्य साक्षी ।३२ - सर्वसाक्षी ह्यात्मा ।३३ - न स्यात् कूटसाक्षी ।३४ - कूटसाक्षिणो नरके पतन्ति ।३५ - प्रच्छन्नपापानां साक्षिणो महाभूतानि ।३६ - आत्मनः पापमात्मैव प्रकाशयति ।३७ - व्यवहारोऽन्तर्गतमाकारस्सूचयति ।३८ - आकारसंवरणं देवानामप्यशक्यम् ।३९ - चोरराजपुरुषेभ्यो वित्तं रक्षेत् ।४० - दुर्दर्शना हि राजानः प्रजा रक्षन्ति ।४१ - सुदर्शना राजानः प्रजा रक्षन्ति ।४२ - न्याययुक्तं राजानं मातरं मन्यन्ते प्रजाः ।४३ - तादृशः स राजा इह सुखं ततस्स्वर्गं चाप्नोति ।४४ - अहिंसालक्षणो धर्मः ।४५ - स्वशरीरमपि परशरीरं मन्यते साधुः ।४६ - मांसभक्षणमप्युक्तं सर्वेषाम् ।४७ - न संसारभयं ज्ञानवताम् ।४८ - विज्ञानदीपेन संसारभयं निवर्तयति ।४९ - सर्वमवित्यं भवति ।५० - कृमिशकृन्मूत्रभाचनं शरीरं पुण्तयपापजन्महेतुः ।५१ - जन्ममरणादिषु तु दुःखमेव ।५२ - तपसा स्वर्गमाप्नोति ।५३ - क्षमायुक्तस्य तपो विवर्धते ।५४ - तस्मात् सर्वेषां सर्वकार्यसिद्धिर्भवति ।इत्यष्टमोऽध्यायःइति कौटिलीयानि नीतिसूत्राणि सम्पूर्णम् N/A References : N/A Last Updated : October 05, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP