संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|चाणक्य-सूत्राणि| चतुर्थोऽध्यायः चाणक्य-सूत्राणि प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः चाणक्य-सूत्राणि - चतुर्थोऽध्यायः नीतिवर्णनात्मक संस्कृत ग्रंथांमध्ये, चाणक्य-नीतिदर्पण ग्रंथाचे महत्वपूर्ण स्थान आहे. जीवन सुखमय आणि ध्येयपूर्ण बनविण्यासाठी, विविध विषयांचे वर्णन या ग्रंथात आहे. व्यवहार संबंधी सूत्रे तसेच राजनीति संबंधी श्लोकांचा यात समावेश आहे. Tags : chanakyakautilyanitishastraकौटिल्यचाणक्यनीतिशास्त्र चतुर्थोऽध्यायः Translation - भाषांतर १ - धर्मेण धार्यते लोकः ।२ - प्रेतमपि धर्माधर्मावनुगच्छतः ।३ - दया धर्मस्य जन्मभूमिः ।४ - धर्ममूले सत्यदाने ।५ - धर्मेण जयति लोकान् ।६ - मृत्यरपि धर्मिष्ठं रक्षति ।७ - धर्माद्विपरीतं पापं यत्र यत्र प्रसज्यते तत्र तत्र धर्मावमतिरेव महती प्रसज्यते ।८ - उपस्थितविनाशानां प्रकृतिः आकारेण कार्येण च लक्ष्यते ।९ - आत्मविनाशं सूचयत्यधर्मबुद्धिः ।१० - पिशुनवादिनो रहस्यं कुतः ।११ - पररहस्यं नैव श्रोतव्यम् ।१२ - वल्लभस्य स्वार्थपरत्वमधर्मयुक्तम् ।१३ - स्वजनेष्वप्यतिक्रमो न कर्तव्यः ।१४ - माताऽपि दुष्टा त्याज्या ।१५ - स्वहस्तोऽपि विषदिग्धश्छेद्यः ।१६ - परोऽपि च हितो बन्धुः ।१७ - कक्षादप्यौषधं गृह्यते ।१८ - नास्ति चोरेषु विश्वासः ।१९ - अप्रर्तीकारेष्वनादरो न कर्तव्यः ।२० - व्यसनं मनागपि बाधते ।२१ - अमरवदर्थजातमार्जयेत् ।२२ - अर्थवान् सर्वलोकस्य बहुमतः ।२३ - महेन्द्रमप्यर्थहीनं न बहुमन्यते लोकः ।२४ - दारिद्रयं खलु पुरुषस्य सजीवितं मरणम् ।२५ - विरूपोऽप्यर्थवान् सुरूपः ।२६ - अदातारमप्यर्थवन्तमर्थिनो न त्यजन्ति ।२७ - अकुलीनोऽपि धनवान् कुलीनाद्विशिष्टः ।२८ - नास्त्यवमानभयमनार्यस्य ।२९ - नोद्योगवतां वृत्तिभयम् ।३० - न जितेन्द्रियाणां विषयभयम् ।३१ - न कृतार्थानां मरणभयम् ।३२ - कस्यचिदर्थं स्वमिव मन्यते साधुः ।३३ - परविभवेष्वादरो न कर्तव्यः ।३४ - परविभवेष्वादरोऽपि नाशमूलम् ।३५ - पलालमपि परद्रव्यं न हर्तव्यम् ।३६ - परद्रव्यापहरणमात्मद्रव्यनाशहेतुः ।३७ - न चौर्यात् परं मृत्युपाशः ।३८ - यवागूरपि प्राणधारणं करोति काले ।३९ - न मृतस्यौषधं प्रयोजनम् ।४० - समकाले प्रभुत्वस्यप्रयोजनं भवति ।४१ - नीचस्य विद्याः पापकर्मण्येव तं योजयन्ति ।४२ - पयःपानमपि विषवर्धनं भजङ्गस्य, न त्वमृतं स्यात् ।४३ - न हि धान्यसमो ह्यर्थः ।४४ - न क्षुधासमश्शत्रुः ।४५ - अकृतेर्नियता क्षुत् ।४६ - नास्त्यभक्ष्यं क्षुधितस्य ।४७ - इन्द्रियाणि प्रतिपदं नरानम जरावशान् कुर्वन्ति ।४८ - सानुक्रोशं भर्तारमाजीवेत् ।४९ - लुब्धसेवी पावकेच्छया खद्योतं धमति ।५० - विशेषज्ञं स्वामिनमाश्रयेत् ।५१ - पुरुषस्य मैथुनं जरा ।५२ - स्त्रीणाममैथुनं जरा ।५३ - न नीचोत्तमयोर्वैवाहः ।५४ - अगमयागमनादायुर्यशः पुण्यानि क्षीयन्ते ।५५ - नास्त्यहङ्कारसमश्शत्रुः ।५६ - संसदि शत्रुं न परिक्रोशेत ।५७ - शत्रुव्यसनं श्रवणसुखम् ।५८ - अधनस्य बुद्धिर्न विद्यते ।५९ - हितमप्यधनस्य वाक्यं न गृह्यते ।६० - अधनः स्वभार्ययाऽप्यवमन्यते ।६१ - पुष्पहीनं सहकारमपि नोपासते भ्रमराः ।इति चतुर्थोऽध्यायः N/A References : N/A Last Updated : October 05, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP