संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बार्हस्पत्यानि नीतिसूत्राणि| पञ्चमोऽध्यायः बार्हस्पत्यानि नीतिसूत्राणि प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः बार्हस्पत्यानि नीतिसूत्राणि - पञ्चमोऽध्यायः `बार्हस्पत्यानि नीतिसूत्राणि' हा नितीशास्त्रासंबंधी एक अजोड ग्रंथ आहे. Tags : nitishastraनीतिशास्त्र पञ्चमोऽध्यायः Translation - भाषांतर १ - चत्वारः उपायाः त्रयश्च, मायोपेक्षा वधश्च।२ - सूरिषु साम, शङ्कितेषु सामभेदौ, लुब्धेषु सामदानभेदाः, कष्टेषु सामभेददानमायोपेक्षावधाः।३ - साम पूर्वं प्रयोक्तव्यम्।४ - मनसोऽभिप्रायं वाचः प्रीतिकर्म च।५ - ज्ञातीनां व्यसते ज्ञातयो हृष्यन्ति।६ - ज्ञातिं ज्ञातयः प्रच्छन्नहृदयाः क्रूरा उपद्रवन्ति।७ - सरवभयेषु ज्ञातिभयं क्रूरम्।८ - गोषु पयः, ह्राह्मणे कोपः, स्त्रीषु चापलं दूरत्वं, ज्ञातिषु सौहृदं च पत्रजलपिन्दुवत्।९ - हितं गुरुजनवाक्यं शास्त्रचोदितं च ये न श्रृण्वन्ति कालचोदिताः, तान् सुपिरहृत्य अन्यत्र वसेत्।१० - लोकविरूद्धं नाचरेत्।११ - मन्त्रविद्यागुह्यपदमेषु ग्रहान् बान्धवान् कुशलादन्यत्र न कार्यं व्यसनानि च।१२ - दुर्जनं परिहृत्य वक्तव्यं, विद्यायुक्तोऽपि गुहाहिरिव।१३ - शत्रुपक्षादागतं न विश्वसेत्, गुणतः सङ्गृह्णीयात्, भावैः परीक्षयेत्।१४ - वीरोऽसारैः सहसा न ज्ञायते, बुद्धिमविज्ञाते सहसा परीक्षयेत्।१५ - इङ्गितैर्ज्ञातुं शक्यते, प्रसन्नो न।१६ - अशङ्कितमतिः स्वस्थः, अकोपनश्चबालादयोऽपि विवृण्वन्ति हितम्।१७ - स्वकुलस्य विनाशं ज्ञात्वा बुद्धिमांस्तत्र शत्रुपक्षमपि न युक्तमाश्रयेत्।१८ - हृदये यथावच्छुभाशुभं पूर्वमुदेति ।१९ - न दुष्टाचारः सर्वत्र कारयेत्।२० - चपला न बहुमान्याः, इत्याहचार्यो बृहस्पतिः।इति पञ्चमोऽध्यायः पूर्णम् ॥ N/A References : N/A Last Updated : October 04, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP