संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|बार्हस्पत्यानि नीतिसूत्राणि| बार्हस्पत्यानि नीतिसूत्राणि - द्वितीयोऽध्यायः `बार्हस्पत्यानि नीतिसूत्राणि' हा नितीशास्त्रासंबंधी एक अजोड ग्रंथ आहे. Tags : nitishastraनीतिशास्त्र द्वितीयोऽध्यायः Translation - भाषांतर १ - गुणवतो राज्यम्।२ - विद्यागुणोऽर्थगुणः सहायगुणाश्च।३ - स्वकुलरञ्जनं च चारित्ररक्षणम्।४ - कृषिगोरक्षवाणिज्यानि (अध्येयानि)।५ - सर्वथा लोकायतिकमेव शास्त्रमर्थसाधनकाले, कापालिकं कामसाधने, आर्हतं धर्मे।६ - सर्वथा लोकयतिकमसेनार्थं क्षिप्रं नश्यति तत्, कापालिकार्हतबौद्धाश्च। एतेषु तिष्ठन् शलभवह्निवत्, फलानि श्रोत्रसलिलकल्पानि।७ - अविद्यायुक्तः पुरुषार्थं साधयितुं धर्मयुक्तवद्यदेच्छिति, तदा लोकायतिकाभिधानपाषण्डी।८ - यदा चण्डालः उदारसुरामांसादिकामेच्छुः तदा कापालिकाभिधानपाषण्डी।९ - यदा सन्ध्योपासनाद्यग्निहोत्रादि च परित्यज्य अहिंसाधर्मेच्छुः तदा क्षपणकाभिधानपाषण्डी।१० - यदा वेदोक्तकर्मज्ञानं सर्वेश्वरं शिवं विष्णुं श्रियमपि परित्यज्य सर्वं शून्यमिति वदति तदा बौद्धाभिधानपाषण्डी।११ - वृथाधर्म वदत्यर्थसाधनं लोकायतिकः पिण्डादयश्चौर्यमिति च।१२ - सर्वमर्थार्थं करोति अग्निहोत्रसन्ध्याजपादीन्।१३ - स्वदोषं गूहितं कामार्थं वेदं पठति, अग्निहोत्रादीम् करोति सुरापानार्थं महिलामेहन्र्थं चेति।१४ - विष्ण््वादयः सुरापानिनः इति कापालिकाः।१५ - दर्मार्थं मलपिण्डधारणाद्धर्मं वदति क्षपणकः, शिवादयस्तथेति वदति च। स च परापवादार्थं पेदशास्त्रधर्मादीन् पठति। सर्वान्नि न्दति महेश्वरविष्ण्वादीनपि, सोऽप्यशनार्थं वदति।१६ - वदनार्थं परान् स्तौति स बौद्धः।१७ - योकायतिको मृतः भवति अर्थकामधर्ममोक्षविहीन) नारकी च, तत्कुलं च तत्पुत्रपौत्रान्तरे विनश्यति।१८ - कापाली स्वग्रामगृहस्वजनैः परित्यक्तः सर्वलोकनिन्दितो नारकी भवति, तस्मिन् काल एव कुलं विनश्यति।१९ - त्रपणकः स्वकुलग्रमवासिभिर्निन्दितः भवति, त्रिकुलं विनश्यति।२० - बौद्धसंचिंत कुलं पुत्रपौत्रकाले वा विनश्यति सुदुष्टो नारकी।२१ - एवं पाषण्डिम्पर्कं मनसापि न कुर्यत्।२२ - सुव्यवस्थितमन्त्रेण परच्छिद्रज्ञानिना धार्मिकेण राज्चं परिप्लयितुं न शक्यते।२३ - ऐश्वर्यमदमत्तेन सलोभमानिना संचितं विनश्यति।२४ - कार्यं निश्चित्य विष्याननुभवति यः स उत्तममर्थं साधयति।२५ - येष्टयाकर्यज्ञानी अर्थपर इति धर्मवानिति च लोकैर्यथा न ज्ञायते तथा कर्तव्यम्, ईशवर इव चन्द्रादित्याविव च।२६ - स्वामिचित्तानुवर्तिभिः मत्यैक्यकारि कर्मैव मन्त्रम्।२७ - नीतेः फलं धर्मार्थकामावाप्तिः।२८ - धर्मेण कामार्थौ परीक्ष्यौ, धर्म धर्मेण, अर्थमर्थेन, कामं कामेन, मोक्षं मोक्षेण।२९ - गुरुशासनं कार्यमेव धर्मेण विरुद्धमपि, पाण्डवविवाह इव, अर्जुन संन्यास इव, व्यासविधवागमनमिव, कर्णोत्पादनमिव, राममातृवध इवेत्यादि।३० - नीतिवियुक्तः पुत्र इव शत्रुः।३१ - बालं दुष्टं साहसिकमज्ञातशास्त्रं मन्त्रे न प्रवेशयेत्।३२ - मूढाः दुराचाराः तीक्ष्णाः ईत्मबुद्धयः क्षिप्रक्रुद्धाः बाला) न मन्त्रयोग्याः।३३ - सर्वरत्वान्यपि दीयन्दां स्वकार्यजीवयशोरक्षणे।३४ - मव्त्रकाले क प्रतोपयेत्।३५ - धर्मः प्रधानं पुरुषार्थानाम्।३६ - अधर्मेण भुज्यमानं सुखमसुहृत् स्थितिवर्धनं च।३७ - अपथ्यभोजनः मृत्युप्रीतिकर इव।३८ - सत्यव्रतः शास्त्रेषु निष्ठितः पुपुषः सागरमपि शोषयेत्।३९ - स यदि क्रुद्धः सर्वे हतपौरुषाः त्रस्ता भवनिति।४० - एक एव दुर्जनः बहून् नाशयति।४१ - लौरुषे निष्ठितः देवः।४२ - यस्य स्वदाररतिः यस्य च आत्मदमने शक्तिः तस्य सदृसो न।४३ - सज्जनो न भयाद्व्यतिवर्त्े।४४ - तस्मिन् काले हितं अवक्तव्यं अवाक्यज्ञैः सुहृद्भिः।४५ - उत्सिक्तहृदयं धर्मे चालितगौरवं अजितात्मानं शासितुं नोत्लहेत।४६ - दारुणरक्मभिः श्रान्तं अज्ञाननिद्रया सुपुतं च बालं धर्मवाक्यानिलैः शीतलैः प्रबोधयेत्।४७ - दुरजनमध्ये सूर्यवत् प्रकाशते सुजनः।४८ - अधर्मव्यवस्थितान् न्यायवृत्तेन वारयेत्।४९ - अधर्मं अकीर्तिञ्च नार्जयेत्, न च कमपि मारयेत्।५० - बोलाः निवार्यन्तां धर्मपाठाङ्कुशेन गजा इव।५१ - गुरुवचनमलङ्घनीयं नयानुगतं चेत्।५२ - गुरुमपि नितिवियुक्तं निहासयेत्—इत्येतान् गुरुराहेति।इति द्वितीयोऽध्यायः पूर्णम् ॥ N/A References : N/A Last Updated : October 04, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP