वृत्तरत्नाकर - षष्ठोऽध्यायः

वृत्तरत्नाकर, केदारभट्ट यांनी १४व्या शतकात लिहीलेले प्रसिद्ध साहित्य आहे.
Vritta Ratnakara of Kedara Bhatta (14th Century CE) is one of the most popular texts on Sanskrit prosody.


प्रस्तारः
प्रस्तारो नष्टमुद्दिष्टमेकद्वयादिलगक्रिया । सङ्ख्यानमध्वयोगश्च षडेते प्रत्ययाः स्मृताः ॥१॥
पादे सर्वगुरावाद्याल्लघुं न्यस्य गुरोरधः । यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम् ॥२॥
ऊने दद्याद् गुरूनेव यावत्सर्वलघुर्भवेत् । प्रस्तारो ऽयं समाख्यातश्छन्दोविचितिवेदिभिः ॥३॥
नष्टम्
नष्टस्य यो भवेदङ्कस्तस्यार्धे ऽर्धे समे च लः ॥ विषमे चैकमाधाय स्यादर्धे ऽर्धे गुरुभवेत् ॥४॥
उद्दिष्टम्
उद्दिष्टं द्विगुणानाद्यादुपर्यङ्कान्समालिखेत् । लघुस्था ये च तत्राङ्कास्तैः सैकैर्मिश्रितैर्भवेत् ॥५ ॥
एकद्वयादिलगक्रिया
वर्णान्वृत्तभवान्सैकानौत्तराधर्यतः स्थितान् । एकादिक्रमतश्चैतानुपर्युपरि निक्षिपेत् ॥६ ॥
उपान्त्यतो निवर्तेत त्यजन्नेकैकमूर्ध्वतः । उपर्याद्याद् गुरोरेकमेकद्व्यादिलगक्रिया ॥७ ॥
सङ्ख्यानम्
लगक्रियाङ्कसन्दोहे भवेत्सङ्ख्या विमिश्रिते । उद्दिष्टाङ्कसमाहारः सैका वा जनयेदिमाम् ॥८ ॥
अध्वयोगः
सङ्ख्यैव द्विगुणैकोना सद्भिरध्वा प्रकीर्तितः ॥ वृत्तस्याङ्गुलिका व्याप्तिरधः कुर्यात्तथाङ्गुलिम् ॥९ ॥
वंशे ऽभूत्कश्यपस्य प्रकटगुणगणः शैवसिद्धान्तवेत्ता विप्रः पव्येकनामा विमलतरमतिर्वेदतत्त्वार्थबोधे ।
केदारस्तस्य सूनुः शिवचरणयुगाराधनैकाग्रचित्तश्छन्दस्तेनाभिरामं वृत्तरत्नाकराख्यम् ॥१०॥      

इति श्रीमद्भट्टरामेश्वरसूनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्यायां प्रस्ताराध्यायः षष्ठः समाप्तः ॥

N/A

References : N/A
Last Updated : September 15, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP