संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|वृत्तरत्नाकर| द्वितीयोऽध्यायः वृत्तरत्नाकर प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः वृत्तरत्नाकर - द्वितीयोऽध्यायः वृत्तरत्नाकर, केदारभट्ट यांनी १४व्या शतकात लिहीलेले प्रसिद्ध साहित्य आहे. Vritta Ratnakara of Kedara Bhatta (14th Century CE) is one of the most popular texts on Sanskrit prosody. Tags : bookkedara bhattavrittaratnakaraकेदारभट्टपुस्तकवृत्तरत्नाकर द्वितीयोऽध्यायः Translation - भाषांतर आर्या-प्रकरणम् (१-७) लक्ष्मैतत्सप्त गणा गोपेता भवति नेह विषमे जः । षष्ठो ऽयं नलघू वा प्रथमे ऽर्धे नियतमार्यायाः ॥१॥षष्थे द्वितीयलात्परके न्ले मुखलाच्च सयतिपदनियमः । चरमे ऽर्धे पञ्चके तस्मादिह भवति षष्ठो लः ॥२॥त्रिष्वङ्केषु पादो दलयोराद्येषु दृश्यते यस्याः । पथ्येति नाम तस्याः प्रकीर्तितं नागराजेन ॥३॥संलङ्घ्य गणत्रयमादिमं शकलयोर्द्वयोर्भवति पादः । सं(अनुनासिक)-लङ्घ्य यस्यास्तां पिङ्गलनागो विपुलामिति समाख्याति ॥४॥उभयार्धयोर्जकारौ द्वितीयतुर्यौ गमध्यगौ तस्याः । चपलेति नाम तस्या प्रकीर्तितं नागराजेन ॥५ ॥आद्यं दलं समस्तं भजेय लक्ष्म चपलागतं यस्याः । शेषे पूर्वजलक्ष्मा मुखचपलासोदिता मुनिना ॥६ ॥प्राक्प्रतिपादितमर्धे प्रथमे प्रथमेतरे च चपलायाः । लक्ष्माश्रयते सोक्ता विशुद्धधीभिर्जघनचपला ॥७ ॥ गीति-प्रकरणम् (८-११) आर्याओरथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः । दलयोः क्र्टयतिशोभां तां गीतिं गीतवान्भुजङ्गेशः ॥८ ॥आर्याद्वितीयके ऽर्धे यद्गदितं लक्षणं तत्स्यात् । यद्युभयोरपि दलयोरुपगीतिं ता मुनिर्ब्रूते ॥९ ॥आर्याशकलद्वितयं व्यत्ययरचितं भवेद्यस्याः । सोद्गीतिः किल गदिता तद्वद्यत्यंशभेदसंयुक्ता ॥१०॥आर्यापूर्वार्धं यदि गुरुणैकेनाधिकेन निधने युक्तम् । इतरत्तद्वन्निखिलं भवति यदीयमर्द्धमुदितार्यागीतिः ॥११॥ वैतालीय-प्रकरणम् (१२-२०) षड्विषमे ऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः । न समात्र पराश्रिता कला वैतालीये ऽन्ते रला गुरुः ॥१२॥पर्यन्ते र्यौ तथैव शेषमौपच्छन्दसिकं सुधीभिरुक्तम् ॥१३॥आपातलिका कथितेयं भाद्गुरुकावथ पूर्ववदन्यत् ॥१४॥तृतीययुग्दक्षिणान्तिका समस्तपादेषु द्वितीयलः ॥१५ ॥उदीच्यवृत्तिर्द्वितीयलः सक्तो ऽग्रेण भवेदयुग्मयोः ॥१६ ॥पूर्वेण युतो ऽथ पञ्चमः प्राच्यवृत्तिरुदितेति युग्मयोः ॥१७ ॥यदा समावोजयुग्मकौ पूर्वयोर्भवति तत्प्रवृत्तकम् ॥१८ ॥अस्य युग्मरचिता ऽपरान्तिका ॥१९ ॥अयुग्भवा चारुहासिनी ॥२०॥ वक्त्र-प्रकरणम् (२१-३०) वक्त्रं नाद्यान्नसौ स्यातामब्धेर्यो ऽनुष्टुभि ख्यातम् ॥२१॥युजोर्जेन सरिद्भर्तुः पथ्यावक्त्रं प्रकीर्तितम् ॥२२॥ओजयोर्जेन वारिधेस्तदेव विपरीतादि ॥२३॥चपलावक्त्रमयुजोर्नकारश्वेत्पयोराशेः ॥२४॥यस्या लः सप्तमो युग्मे सा युग्मविपुला मता ॥२५ ॥सौतवस्या ऽखिलेष्वपि ॥२६ ॥भेना ऽब्धितो भाद्विपुला ॥२७ ॥इत्थमन्या रश्चतुर्थात् ॥२८ ॥नो ऽम्बुधेश्चेन्नविपुला ॥२९ ॥तो ऽब्धेस्तत्पूर्वान्या भवेत् ॥३०॥ मात्रासमक-प्रकरणम् (३१-३८) द्विगुणितवसुलधुरचलधृतिरिति ॥३१॥मात्रासमकं नवमो ल्गान्तम् ॥३२॥जो न्लावथाम्बुधेर्विश्लोकः ॥३३॥तद्युगलाद्वानवासिका स्यात् ॥३४॥बाणाष्टनवसु यदि लश्चिता ॥३५ ॥उपचित्रा नवमे परयुक्ते ॥३६ ॥यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमादिपादैः कलितम् । अनियतवृत्तपरिमाणयुक्तं प्रथितं जगत्सु पादाकुलकम् ॥३७ ॥वृत्तस्य ला विना वर्णैर्गा वर्णा गुरुभिस्तथा । गुरुवो लैर्दले नित्यं प्रमाणमिति निश्चितम् ॥३८ ॥शिखिगुणितदशलघुरचितमपगतलघुयुगलमपरमिदमखिलम् । सगुरु शकलयुगलकमपि सुपरिघटितललितपदवितति भवति शिखा ॥३९ ॥विनिमयविनिहितशकलयुगलकलितपदविततिविरचितगुणनिचया । श्रुतिसुखकृदियमपि जगति ञि जशिर उपगतवति सति भवति खजा ॥४०॥अष्टावर्धे गा द्वयभ्यस्ता यस्याः सा ऽनङ्गक्रीडोक्ता । दलमपरमपि वसुगुणितसलिलनिधिलघु कविरचितं पदवितति भवति ॥४१॥त्रिगुणनवलघुरंवसितिगुरुरितिदलयुगकृततनुरतिरुचिरा ॥४२॥इति श्रीमद्भट्टरामेश्वरसूनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्यायां मात्रावृत्ताधिकारो नाम द्वितीयो ऽध्यायः ॥ N/A References : N/A Last Updated : September 15, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP