संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|वृत्तरत्नाकर| प्रथमोऽध्यायः वृत्तरत्नाकर प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः वृत्तरत्नाकर - प्रथमोऽध्यायः वृत्तरत्नाकर, केदारभट्ट यांनी १४व्या शतकात लिहीलेले प्रसिद्ध साहित्य आहे. Vritta Ratnakara of Kedara Bhatta (14th Century CE) is one of the most popular texts on Sanskrit prosody. Tags : bookkedara bhattavrittaratnakaraकेदारभट्टपुस्तकवृत्तरत्नाकर प्रथमोऽध्यायः Translation - भाषांतर सुखसन्तानसिद्ध्यर्थं नत्वा ब्रह्मा ऽच्युता ऽर्चितम् । गौरीविनायकोपेतं शङ्करं लोकशङ्करम् ॥१॥वेदार्थशैवशास्त्रज्ञः पव्येको ऽभूद् लोकशङ्करम् । तस्य पुत्रो ऽस्ति केदारः शिवपादार्चने रतः ॥२॥तेनेदं क्रियते छन्दो लक्ष्यलक्षणसंयुतम् । वृत्तरत्नाकरं नाम बालानां सुखसिद्ध्ये ॥३॥पिङ्गलादिभ्राचार्यैर्यदुक्तं लौकिकं द्विधा । मात्रावर्णविभेदेन च्छन्दस्तदिह कथ्यते ॥४॥षडध्यायनिबद्धस्य च्छन्दसो ऽस्य परिस्फुटम् । प्रमाणमपि विज्ञेयं षड्त्रिंशदधिकं शतम् ॥५ ॥म्यरस्तजभ्नगैर्लान्तैरेभिर्दशभिरक्षरैः । समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना ॥६ ॥सर्वगुर्मो मुखान्तर्लौ यरावन्तगलौ सतौ । ग्मध्याद्यौ ज्मौ त्रिलो नो ऽष्टौ भवन्त्यत्र गणास्त्रिकाः ॥७ ॥ज्ञेयाः सर्वान्तमध्यादिगुरवो ऽत्र चतुष्कलाः । गणाश्चतुर्लघूपेताः पञ्चार्यादिषु संस्थिताः ॥८ ॥सानुस्वारो विसर्गान्तो दीर्घो युक्तपरश्च यः । वा पादान्ते त्वसौ ग्वक्रो ज्ञेयो ऽन्यो मात्रिको लृजुः ॥९ ॥पादादाविह वर्णस्य संयोगः क्रमसंज्ञकः । पुरःस्थितेन तेन स्याल्लघुता ऽपि क्वचिद् गुरोः ॥१०॥तरुणं सर्षपशाकं नवौदनं पिच्छिलानि च दधीनि । अल्पव्ययेन सुन्दरि (!) ग्राम्यजनो मिष्टमिश्नाति ॥११॥अब्धिभूतरसादीनां ज्ञेयाः संज्ञास्तु लोकतः । ज्ञेयः पादश्चतुर्थाशो यतिर्विच्छेदसंज्ञितः ॥१२॥युक्समं विषमं चालूक्स्थानं सद्भिर्निगद्यते । सममर्धसमं वृत्तं विषमं च तथापरम् ॥१३॥अङ्घ्रयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः । तच्छन्दःशास्त्रतत्त्वज्ञाः समं वृत्तं प्रचक्षते ॥१४॥प्रथमाङ्घ्रिसमो यस्य तृतीयश्चरणो भवेत् । द्वितीयस्तुर्यवद्वृत्तं तदर्धसममुच्यते ॥१५ ॥यस्य पादचतुष्के ऽपि लक्ष्म भिन्नं परस्परम् । तदाहुर्विषमं वृत्तं छन्दःशास्त्रविशारदाः ॥१६ ॥आरभ्यैकाक्षारात्पादादेकैकक्षरवद्धितैः । पृथक्छन्दो भवेत्पादैर्यावत्षड्विंशतिं गतम् ॥१७ ॥तदूर्ध्वं चण्डवृष्ट्यादिदण्डकाः परिकीर्तिताः । शेषं गाथास्त्रिभिः षड्भिश्चरणैश्चोपलक्षिताः ॥१८ ॥उक्ता ऽत्युक्ता तथा मध्या प्रतिष्ठा ऽन्या सुपूर्विका । गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ॥१९ ॥त्रिष्टुप् च जगती चैव तथा ऽतिजगती मता । शक्वरी सा ऽतिपूर्वा स्यादष्ट्यत्यष्टी ततः स्मृते ॥२०॥धृतिश्चा ऽतिधृतिश्चैव क्र्टिः प्रकृतिराकृतिः । विकृतिः सङ्कृतिश्चैव तथा ऽतिकृतिरुत्कृतिः ॥२१॥इत्युक्ताश्छन्दसां संज्ञाः क्रमतो वच्मि साम्प्रतम् । लक्षणं सर्ववृत्तानां मात्रावृत्ता ऽनुपूर्वकम् ॥२२॥इति श्रीकेदारभट्टविरचिते वृत्तरत्नाकरे संज्ञाभिधानो नाम प्रथमो ऽध्यायः । N/A References : N/A Last Updated : September 15, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP