अधिकार काण्ड: - सर्ग ९

`भट्टिकाव्यं' हे संस्कृत भाषेतील एक उत्कृष्ट काव्य आहे.


१-१ द्रु-भङ्ग-ध्वनि-संविग्नाः कुवद्-पक्षि-कुला ऽऽकुलाः
१-२ अकार्षुः क्षणदा-चर्यो रावणस्य निवेदनम्.
२-१ "यदताप्सीच् छनैर् भानुर्, यत्राऽवासीन् मितं मरुत्
२-२ यदाप्यानं हिमोस्रेण, भनक्त्युपवनं कपिः."
३-१ ततो ऽशीति-सहस्राणि किङ्कराणां समादिशत्
३-२ इन्द्रजित्-सूर् विनाशाय मारुतेः क्रोध-मूर्च्छितः.
४-१ शक्त्यृष्टि-परिघ-प्रास-गदा-मुद्गर-पाणयः
४-२ व्यश्नुवाना दिशः प्रापुर् वनं दृष्टि-विषोपमाः
५-१ दध्वान मेघ-वद् भीममादाय परिघं कपिः
५-२ नेदुर् दीप्तायुधास् तेऽपि तडित्वन्त इवाऽम्बुदाः.
६-१ कपिना ऽम्भोधि-धीरेण समगंसत राक्षसाः
६-२ वर्षासूद्धत-तोयौघाः समुद्रेणेव सिन्धवः.
७-१ लाङ्गूलमुद्धतं धुन्वन्नुद्वहन् परिघं गुरुम्
७-२ तस्थौ तोरणमारुह्य, पूर्वं न प्रजहार सः.
८-१ अक्षारिषुः शराम्भांसि तस्मिन् रक्षः-पयोधराः,
८-२ न चा ऽह्वालीन्, न चाऽव्राजीत् त्रासं कपि-महीधरः
९-१ अवादीत् तिष्ठतेत्युच्चैः, प्रादेवीत् परिघं कपिः
९-२ तथा, यथा रणे प्राणान् बहूनामग्रहीद् द्विषाम्.
१०-१ व्रणैरवमिषू रक्तं, देहैः प्राऋनाविषुर् भुवम्,
१०-२ दिशः प्रौर्णाविषुश् चाऽन्ये यातुधाना भवद्-भियः
११-१ अरासिषुश् च्युतोत्साहा भिन्न-देहाः प्रियाऽसवः
११-२ कपेरत्रासिषुर् नादान् मृगाः सिंह-ध्वनेरिव
इति सिचिवृद्ध्यधिकारः

१२-१ मायानामीश्वरास् ते ऽपि शस्त्र-हस्ता रथैः कपिम्
१२-२ प्रत्याववृतिरे हन्तुं हन्तव्या मारुतेः पुनः
१३-१ तांश् चेतव्यान् क्षितौ श्रित्वा वानरस् तोरणं युतान्
१३-२ जघानाऽऽधूय परिघं विजिघृक्षून् समागतान्.
१४-१ संजुघुक्षव आयूंषि ततः प्रतिरुरूषवः
१४-२ रावणाऽन्तिकमाजग्मुर् हत-शेषा निशा-चराः
१५-१ "एकेन बहवः शूराः साऽऽविष्काराः प्रमत्त-वत्
१५-२ वैमुख्यं चकृमे" त्युच्चैरूचुर् दश-मुखाऽन्तिके.
१६-१ मांसोपभोग-संशूनानुद्विग्नांस् तानवेत्य सः
१६-२ उद्वृत्ता-नयनो मित्रान् मन्त्रिणः स्वान् व्यसर्जयत्
१७-१ प्रमेदिताः स-पुत्रास् ते सु-स्वान्ता बाढ-विक्रमाः
१७-२ अ-म्लिष्ट-नादा निरगुः फाण्टचित्राऽस्त्र-पाणयः
१८-१ तान् दृष्ट्वा ऽतिदृढान् धृष्टान् प्राप्तान् परिवृढाऽऽज्ञया
१८-२ कष्टं विनर्दतः क्रूरान् शस्त्र-घुष्ट-करान् कपिः
१९-१ अ-व्यर्णो गिरि-कूटाभानभ्यर्णानार्दिदद् द्रुतम्
१९-२ वृत्त-शस्त्रान् महाऽरम्भ्यान्-दान्तांस् त्रिदशैरपि
२०-१ दमिताऽरिः प्रशान्तौजा नादाऽऽपूरित-दिङ्मुखः
२०-२ जघान रुषितो रुष्टांस् त्वरितस् तूर्णमागतान्.
२१-१ तेषां निहन्यमानानां संघुष्टैः कर्ण-भेदिभिः
२१-२ अभूदभ्यमित-त्रासमास्वान्ताऽशेष-दिग् जगत्.
२२-१ भय-संहृष्ट-रोमाणस् ततस् ते ऽपचित-द्विषः
२२-२ क्षणेन क्षीण-विक्रान्ताः कपिना ऽनेषत क्षयम्
२३-१ हत्वा रक्षांसि लवितुमक्रमीन् मारुतिः पुनः
२३-२ अशोकवनिकामेव निगृहीताऽरि-शासनः.
२४-१ आवरीतुमिवा ऽऽकाशं वरितुं वीनिवोत्थितम्
२४-२ वनं प्रभञ्जन-सुतो ना ऽदयिष्ट विनाशयन्.
२५-१ वरिषीष्ट शिवं क्षिप्यन् मैथिल्याः कल्प-शाखिनः,
२५-२ प्रावारिषुरिव क्षोणीं क्षिप्ता वृक्षाः समन्ततः.
२६-१ संवुवूर्षुः स्वमाकूतमाज्ञां विवरिषुर् द्रुतम्
२६-२ अवरिष्टाक्षम-क्षम्यं कपिं हन्तुं दषाननः
२७-१ ऊचे-"संवरिषीष्ठास् त्वं गच्छ शत्रोः पराक्रमम्,
२७-२ ध्वृषीष्ठा युधि मायाभिः स्वरिता शत्रु-सम्मुखम्
२८-१ द्रुतं संस्वरिषीष्ठास् त्वं निर्-भयः प्रधनोत्तमे"
२८-२ स मायानामगात् सोता कपेर् विधवितुं द्युतिम्
२९-१ विगाढा ऽरं वनस्या ऽसौ शत्रूणां गाहिता कपिः
२९-२ अक्षं रधितुमारेभे रद्धा लङ्काऽनिवासिनाम्.
३०-१ निष्कोषितव्यान् निष्कोष्टुं प्राणान् दशमुखाऽऽत्मजात्
३०-२ आदाय परिघं तस्थौ वनान् निष्कुषित-द्रुमः
३१-१ एष्टारमेषिता संख्ये सोढारं सहिता भृशम्
३१-२ रेष्टारं रेषितं व्यास्यद् रोष्टा ऽक्षः शस्त्र-संहतीः
३२-१ शस्त्रैर् दिदेविषुं संख्ये दुद्यूषुः परिघं कपिः
३२-२ अर्दिधिषुर् यशः कीर्तिमीर्त्सुं वृक्षैरताडयत्.
३३-१ भूयस् तं धिप्सुमाहूय राज-पुत्रं दिदम्भिषुः
३३-२ अहंस् ततः स मूर्च्छा-वान् संशिश्रीषुरभूद् ध्वजम्
३४-१ आश्वस्या ऽक्षः क्षणाल् लोकान् बिभ्रक्षुरिव तेजसा
३४-२ रुषा बिभ्रज्जिषु-प्रख्यं कपिं बाणैरवाकिरत्.
३५-१ संयुयूषुं दिशो बाणैरक्षं यियविषुर् द्रुमैः
३५-२ कपिर् मायामिवा ऽकार्षीद् दर्शयन् विक्रमं रणे.
३६-१ वानरं प्रोर्णुनविषुः शस्त्रैरक्षो विदिद्युते,
३६-२ तं प्रोर्णुनूषुरुपलैः स-वृक्षैराबभौ कपिः,
३७-१ स्वां जिज्ञापयिषू शक्तिं बुभूर्षू नु जगन्ति किम्
३७-२ शस्त्रैरित्यकृषातां तौ पश्यतां बुद्धिमाहवे.
३८-१ मायाभिः सु-चिरं क्लिष्ट्वा राक्षसो ऽक्लिशित-क्रियम्
३८-२ संप्राप्य वानरं भूमौ पपात परिघाऽऽहतः.
३९-१ पवितो ऽनुगुणैर् वातैः शीतैः पूत्वा पयो-निधौ
३९-२ बभञ्जाऽध्युषितं भुयः क्षुधित्वा पत्रिभिर् वनम्
४०-१ उच्चैरञ्चित-लाङ्गूलः शिरो ऽञ्चित्वेव संवहन्
४०-२ दधद् विलुभितं वातैः केशरं वह्नि-पिङ्गलम्
४१-१ जरित्वेव जवेना ऽन्ये निपेतुस् तस्य शाखिनः,
४१-२ व्रश्चित्वा विवशानन्यान् बलेना ऽपातयत् तरून्.
४२-१ दमित्वाऽप्यरि-संघातानश्रान्त्वा कपि-केशरी
४२-२ वनं चचार कर्तिष्यन् नर्त्स्यन्निव निरङ्कुशः.
४३-१ पारं जिगमिषन् सो ऽथ पुनरावर्त्स्यतां द्विषाम्
४३-२ मत्त-द्विरद-वद् रेमे वने लङ्का-निवासिनाम्.
४४-१ "यद्यकल्प्स्यदभिप्रायो योद्धुं रक्षः-पतेः स्वयम्,
४४-२ तमप्यकर्त्स्यमद्या ऽहं" वदन्नित्यचरत् कपिः.
४५-१ "हते तस्मिन् प्रियं श्रुत्वा कल्प्ता प्रीतिं परां प्रभुः,
४५-२ तोषो ऽद्यैव च सीतायाः परश् चेतसि कल्प्स्यति."
४६-१ आहूय रावणो ऽवोचदथेन्द्रजितमन्तिकात्
४६-२ "वने मत्त इव क्रुद्धो गजेन्द्रः प्रधनेष्वटन्
४७-१ ययाथ त्वं द्विषामन्तं, भूयो यातासि चा ऽसकृत्
४७-२ शशक्थ जेतुं त्वं देवान्, मायाः सस्मर्थ संयति.
४८-१ त्वं ससर्जिथ शस्त्राणि, दद्रष्ठा ऽरींश् च दुःसहान्,
४८-२ शस्त्रैरादिथ शस्त्राणि त्वमेव महतामपि.
४९-१ स त्वं हनिष्यन् दुर्-बुद्धिं कपिं व्रज ममा ऽऽज्ञया,
४९-२ मा ना ऽञ्जी राक्षसीर् मायाः, प्रस्तावीर् मा न विक्रमम्.
५०-१ मा न सावीर् महाऽस्त्राणि, मा न धावीररिं रणे,
५०-२ वानरं मा न संयंसीर्, व्रज तूर्णमशङ्कितः."
५१-१ अनंसीच् चरणौ तस्य मन्दिरादिन्द्रजिद् व्रजन्,
५१-२ अवाप्य चाऽऽशिषस् तस्मादायासीत् प्रीतिमुत्तमाम्
५२-१ गते तस्मिन्नुपारंसीत् संरम्भाद् रक्षसां पतिः
५२-२ इन्द्रजिद् विक्रमाऽभिज्ञो मन्वानो वानरं जितम्.
५३-१ संसिस्मयिषमाणो ऽगान् मायां व्यञ्जिजिषुर् द्विषः
५३-२ जगत् पिपविषुर् वायुः कल्पान्त इव दुर्धरः
५४-१ लोकानाशिशिषोस् तुल्यः कृतान्तस्य विपर्यये
५४-२ वने चिकरिषोर् वृक्षान् बलं जिगरिषुः कपेः
५५-१ रोदिति स्मेव चा ऽऽयाति तस्मिन् पक्षि-गणः शुचा
५५-२ मुक्त-कण्ठं हतान् वृक्षान् बन्धून् बन्धोरिवा ऽऽगमे
५६-१ आश्वसीदिव चा ऽऽयाति तद् वेग-पवनाऽऽहतम्
५६-२ विचित्र-स्तबकोद्भासि वनं लुलित-पल्लवम्
५७-१ "न प्राणिषि दुराचार !, मायानामीशिषे न च.
५७-२ नेडिषे यदि काकुत्स्थं" तमूचे वानरो वचः
इतीडधिकारः

५८-१ स-सैन्यश् छादयन् संख्ये प्रावर्तिष्ट तमिन्द्रिजित्
५८-२ शरैः क्षुरप्रैर् मायाभिः शतशः सर्वतो मुहुः
५९-१ वानरः कुल-शैलाऽऽभः प्रसह्या ऽऽयुध-शीकरम्
५९-२ रक्षस्-पाशान् यशस्-काम्यंस् तमस्-कल्पानदुद्रुवत्.
६०-१ धनुष्-पाशभृतः संख्ये ज्योतिष्-कल्पोरु-केशरः
६०-२ दुधाव निर् नमस्-कारान् राक्षसेन्द्र-पुरस्-कृतान्.
६१-१ स्वामिनो निष्-क्रयं गन्तुमाविष्-कृत-बलः कपिः
६१-२ रराज समरे शत्रून् घ्नन् दुष्-कृत-बहिष्-कृतः.
६२-१ चतुष्-काष्ठं क्षिपन् वृक्षान् तिरस्-कुर्वन्नरीन् रणे
६२-२ तिरस्-कृत-दिगाभोगो ददृशो बहुधा भ्रमन्.
६३-१ द्विष्-कुर्वतां चतुष्-कुर्वन्नभिघातं नरैर् द्विषाम्
६३-२ बहिष्-करिष्यन् संग्रामाद् रिपून् ज्वलन-पिङ्गलः
६४-१ ज्योतिष्-कुर्वन्निवैको ऽसावाटीत् संख्ये परार्ध्य-वत्,
६४-२ तमरायुष्-करं प्राप शक्र-शत्रुर् धनुष्-करः.
६५-१ अस्यन्नरुष्-करान् बाणान् ज्योतिष्-कर-सम-द्युतिः
६५-२ यशस्-करो-यशस्-कामं कपिं बाणैर्ताडयत्.
६६-१ चकारा ऽधस्-पदं ना ऽसौ चरन् वियति मारुतिः
६६-२ मर्मा-विद्भिस् तमस्-काण्डैर् विध्यमानोऽप्यनेकधा
इति सत्वाधिकारः

६७-१ पुरुहूत-द्विषो धूर्षु युक्तान् यानस्य वाजिनः
६७-२ आयूंषि त्वक्षु निर्भिद्य प्राभञ्जनिरमोचयत्.
६८-१ सुषुपुस् ते यदा भूमौ, रावणिः सारथिं तदा
६८-२ आहर्तुमन्यानशिषत् प्रोषित-त्रास-कर्कशः.
६९-१ प्रतुष्टूषुः पुनर् युद्धमासिषञ्जयिषुर् भयम्
६९-२ आतस्थौ रथमात्मीयानुत्सिसाहयिषन्निव.
७०-१ बलान्यभिषिषिक्षन्तं तरुभिः कपि-वारिदम्
७०-२ विजिगीषुः पुनश् चक्रे व्यूहं दुर्-जयमिन्द्रजित्.
७१-१ अभिष्यन्तः कपिं क्रोधादभ्यषिञ्चन्निवा ऽऽत्मनः
७१-२ संप्रहार-समुद्भूतै रक्तैः कोष्णैररुश्-च्युतैः.
७२-१ संग्रामे तानधिष्ठास्यन् निषद्य पुर-तोरणम्
७२-२ अविषीदन्नवष्टब्धान् व्यष्टभ्नान् नर-विष्वणान्
७३-१ विषह्य राक्षसाः क्रुद्धाः शस्त्र-जालमवाकिरन्,
७३-२ यन् न व्यषहतेन्द्रो ऽपि॑ कपिः पर्यषहिष्ट तत्.
७४-१ विष्यन्दमान-रुधिरो रक्त-विस्यन्द-पाटलान्
७४-२ विष्कन्त् न् परिघेणा ऽहन्नविस्कन्ता कपिर् द्विषः.
७५-१ मेघ-नादः परिस्कन्दन् परिष्कन्दन्तमाश्वरिम्
७५-२ अबध्नादपरिस्कन्दं ब्रह्म-पाशेन विस्फुरन्.
७६-१ विस्फुलद्भिर् गृहीतो ऽसौ निष्फुलः पुरुषाऽशनैः
७६-२ विष्कम्भितुं समर्थो ऽपि नाऽचलद् ब्रह्म-गौरवात्.
७७-१ कृषीढ्वं भर्तुरानन्दं, मा न प्रोढ्वं द्रुतं वियत्
७७-२ वानरं नेतुमित्युच्चैरिन्द्र-जित् प्रावदत् स्वकान्.
७८-१ "गतमङ्गुलि-षङ्गं त्वां भीरु-ष्ठानादिहा ऽऽगतम्
७८-२ खादिष्याम" इति प्रोचुर् नयन्तो मारुतिं द्विषः.
७९-१ "अग्निष्टोमादि-संस्थेषु ज्योतिष्टोमाऽऽदिषु द्विजान्
७९-२ यो ऽरक्षीत्, तस्य दूतो ऽयं मानुषस्येति चाऽवदन्.
८०-१ "नासां मातृ-ष्वसेय्याश् च रावणस्य लुलाव यः,
८०-२ मातुः स्वसुश् च तनयान् खराऽऽदीन् विजघान यः
८१-१ प्रादुःषन्ति न संत्रासा यस्य रक्षः-समागमे,
८१-२ तस्य क्षत्रिय-दुःषूतेरयं प्रणिधिरागतः.
८२-१ दृष्ट्वा सु-षुप्तं राजेन्द्रं पापो ऽयं विषमाऽशयः
८२-२ चार-कर्मणि निष्णातः प्रविष्टः प्रमदा-वनम्.
८३-१ सुप्रतिष्णात-सूत्राणा कपिष्ठल-सम-त्विषाम्
८३-२ स्थितां वृत्ते द्विजातीनां रात्रावैक्षत मैथिलीम्
८४-१ सर्व-नारी-गुणैः प्रष्ठां विष्टर-स्थां गवि-ष्ठिराम्
८४-२ शयानां कु-ष्ठले तारां दिवि-ष्ठामिव निर्-मलाम्
८५-१ सु-षाम्नीं सर्व-तेजस्सु तन्वीं ज्योतिष्टमां शुभाम्
८५-२ निष्टपन्तीमिवा ऽऽत्मानं ज्योतिःसात्-कुर्वतीं वनम्
८६-१ मधुसाद्-भूत-किञ्जल्क-पिञ्जर-भ्रमराऽऽकुलाम्
८६-२ उल्लसत्-कुसुमां पुण्यां हेम-रत्न-लतामिव
८७-१ विलोचनाऽम्बु मुञ्चन्तीं-कुर्वाणां परि-सेसिचाम्
८७-२ हृदयस्येव शोकाऽग्नि-संतप्तस्योत्तम-व्रताम्
८८-१ दृष्ट्वा तामभनग् वृक्षान् द्विषो घ्नन् परिसेधतः
८८-२ परितस् तान् विचिक्षेप क्रुद्धः स्वयमिवा ऽनिलः
८९-१ अ-प्रतिस्तब्ध-विक्रान्तम-निस्तब्धो महाऽऽहवे,
८९-२ विसोढवन्तमस्त्राणि व्यतस्तम्भद् घन-ध्वनिः"
९०-१ ते विज्ञाया ऽभिसोष्यनतं रक्तै रक्षांसि स-व्यथाः
९०-२ अन्यैरप्यायतं नेहुर् वरत्रा-शृङ्खलाऽऽदिभिः
९१-१ विषसादेन्द्रजिद् बुद्ध्वा बन्धे बन्धाऽन्तरक्रियाम्
९१-२ दिव्य-बन्धो विषहते ना ऽपरं बन्धनं यतः
इति षत्वाधिकारः

९२-१ मुष्णन्तमिव तेजांसि विस्तीर्णोरस्-स्थलं पुरः
९२-२ उपसेदुर् दश-ग्रीवं गृहीत्वा राक्षसाः कपिम्.
९३-१ बहुधा भिन्न-मर्माणो भीमाः खरणसाऽऽदयः
९३-२ अग्रे-वणं वर्तमाने प्रतीच्यां चन्द्र-मण्डले
९४-१ "निर्वणं कृतमुद्यानमनेना ऽऽम्रवणाऽऽदिभिः
९४-२ देवदारु-वनामिश्रै" रित्यूचुर् वानर-द्विषः.
९५-१ उपास्थिषत संप्रीताः पूर्वाह्णे रोष-वाहणम्
९५-२ राक्षसाः कपिमादाय पतिं रुधिर-पायिणाम्.
९६-१ सुरा-पाण-परिक्षीबं रिपु-दर्प-हरोदयम्
९६-२ पर-स्त्री-वाहिनं प्रायुः साऽऽविष्कारं सुरा-पिणः.
९७-१ संघर्ष-योगिणः पदौ प्रणेमुस् त्रिदश-द्विषः
९७-२ प्रहिण्वन्तो हनूमन्तं प्रमीणन्तं द्विषन्-मतीः.
९८-१ "प्रवपाणि शिरो भूमौ वानरस्य वनच्छिदः"
९८-२ आमन्त्रयत संक्रुद्धः समितिं रक्षसां पतिः
९९-१ प्रण्यगादीत् प्रणिघ्नन्तं घनः प्रणिनदन्निव
९९-२ ततः प्रणिहितः स्वाऽर्थे राक्षसेन्द्रं विभीषणः.
१००-१ "प्रणिशाम्य दशा-ग्रीव !, प्रणियातुमलं रुषम्,
१००-२ प्रणिजानीहि, हन्यन्ते दूता दोषे न सत्यपि."
१०१-१ प्राणयन्तमरिं प्रोचे राक्षसेन्द्रो विभीषणम्
१०१-२ "प्राणिणिषुर् न पापो ऽयं, यो ऽभाङ्क्षीत् प्रमदा-वनम्.
१०२-१ प्राघानिषत रक्षांसि येना ऽऽप्तानि वने मम,
१०२-२ न प्रहण्मः कथं पापं वद पूर्वाऽपकारिणम्.
१०३-१ वेश्माऽन्तर्-हणनं कोपान् मम शत्रोः करिष्यतः
१०३-२ मा कार्षीरऽन्तरयणं, प्रयाणाऽर्हमवेह्यमुम्.
१०४-१ प्रहीण-जीवितं कुर्युर् ये न शत्रुमुपस्थितम्
१०४-२ न्याय्याया अपि ते लक्ष्म्याः कुर्वन्त्याशु प्रहापणम्
१०५-१ कः कृत्वा रावणाऽऽमर्ष-प्रकोपणमवद्य-धीः
१०५-२ शक्तो जगति शाक्रो ऽपि कर्तुमायुः-प्रगोपणम्.
१०६-१ वनाऽन्त-प्रेङ्खणः पापः फलानां परिणिंसकः
१०६-२ प्रणिक्षिष्यति नो भूयः प्रणिन्द्या ऽस्मान् मधून्ययम्
१०७-१ हरेः प्रगमनं ना ऽस्ति, न प्रभानं हिम-द्रुहः,
१०७-२ ना ऽति-प्रवेपनं वायोर् मया गोपायिते वने.
१०८-१ दुष्पानः पुनरेतेन कपिना भृङ्ग-संभृतः
१०८-२ प्रनष्ट-विनयेना ऽग्र्यः स्वादुः पुष्पाऽऽसवो वने"
१०९-१ रोष-भीम-मुखेनैवं क्षुभ्नतोक्ते, प्लवङ्गमः
१०९-२ प्रोचे साऽऽनुनयं वाक्यं रावणं स्वाऽर्थ-सिद्धये
इति णत्वाऽधिकारः
इति अधिकार काण्ड:


N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP