संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भट्टिकाव्यं|अधिकार काण्ड:| सर्ग ५ अधिकार काण्ड: सर्ग ५ सर्ग ६ सर्ग ७ सर्ग ८ सर्ग ९ अधिकार काण्ड: - सर्ग ५ `भट्टिकाव्यं' हे संस्कृत भाषेतील एक उत्कृष्ट काव्य आहे. Tags : poemकाव्यभट्टिकाव्यसंस्कृत सर्ग ५ Translation - भाषांतर ९७-१ "द्विषन् ! वने-चराऽग्र्याणां त्वमादाय-चरो वने९७-२ अग्रे-सरो जघन्यानां मा भूः पूर्व-सरो मम.९८-१ यशस्-कर-समाचारं ख्यातं भूवि दया-करम्९८-२ पितुर्वाक्य-करं रामं धिक् त्वां दुन्वन्तम-त्रपम्९९-१ अहमन्त-करो नूनं ध्वान्तस्येव दिवा-करः९९-२ तव राक्षस ! रामस्य नेयः कर्म-करोपमः१००-१ सतामरुष्-करं पक्षी वैर-कारं नराऽशिनम्१००-२ हन्तुं कलह-कारोऽसौ शब्द-कारः पपात खम्.अतः परं प्रकीर्णकाः१०१-१ धुन्वन् सर्व-पथीनं खे वितानं पक्षयोरसौ१०१-२ मांस-शोणित-संदर्शं तुण्ड-घातमयुध्यत.१०२-१ न बिभाय, न जिह्राय, न चक्लाम, न विव्यथे१०२-२ आघ्नानो विध्यमानो वा रणान् निववृते न च.१०३-१ पिशाच-मुख-धौरेयं स-च्छत्र-कवचं रथम्१०३-२ युधि कद्-रथ-वद् भीमंबभञ्ज ध्वज-शालिनम्अतः परं आमधिकारः१०४-१ संत्रासयांचकाराऽरिं, सुरान् पिप्राय पश्यतः,१०४-२ स त्याजयांचकाराऽरिं सीतां विंशति-बाहुना.१०५-१ अ-सीतो रावणः कासांचक्रे शस्त्रैर् निराकुलः,१०५-२ भूयस् तं भेदिकांचक्रे नख-तुण्डाऽऽयुधः ख-गः.१०६-१ हन्तुं क्रोध-वशादीहांचक्राते तौ परस्पसम्,१०६-२ न वा पलायांचक्रे विर् दयांचक्रे न राक्षसः.१०७-१ उपासांचक्रिरे द्रष्टुं देव-गन्धर्व-किन्नराः,१०७-२ छलेन पक्षौ लोलूयांचक्रे क्रव्यात् पतत्रिणः१०८-१ प्रलुठितमवनौ विलोक्य कृत्तं दश-वदनः ख-चरोत्तमं प्रहृष्यन्१०८-२ रथ-वरमधिरुह्य भीम-धुर्यं स्व-पुरमगात् परिगृह्य राम-कान्ताम्. N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP