संस्कृत सूची|शास्त्रः|आयुर्वेदः|आनन्दकन्द|रसविद्या प्रकार २| भाग ९ रसविद्या प्रकार २ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० रसविद्या - भाग ९ रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद. Tags : anandakandchemistryVedआनंदकंदआयुर्वेदरसविद्या भाग ९ Translation - भाषांतर श्रीभैरवी ।कीदृशी ओषधी नाथ रसकर्मकरी शुभा ।केन वा भस्म सूतश्च केन वा खोटबन्धनम् ॥१॥निर्जीवत्वं गतः सूतः कथं जीवं ददाति सः ।निर्जीवेन तु जीवत्वं कथं जीवति शङ्कर ॥२॥एतन्मे संशयं ब्रूहि यथा जानाम्यहं शिव ।श्रीभैरवः ।शृणु भैरवि तत्सर्वमपूर्वं कथयामि ते ॥३॥ब्रह्मविष्णुसुरेन्द्राद्यैर्न ज्ञातं वीरवन्दिते ।वलीपलितरोगघ्ना मृत्युदारिद्र्यभञ्जनाः ॥४॥रसकर्मकरा दिव्याः कुलौषध्यः सुसिद्धिदाः ।भ्रमन्ति पशवो मूढाः कुलौषधिविवर्जिताः ॥५॥तृणौषधिरसानां च नैव सिद्धिः प्रजायते ।तस्मात्सर्वप्रयत्नेन ज्ञातव्या तु कुलौषधिः ॥६॥दिव्यौषध्यश्चतुःषष्टिः कुलमध्ये व्यवस्थिताः ।नैव जानन्ति मूढास्ताः शिवमोहेन मोहिताः ॥७॥अदिव्यास्तु तृणौषध्यो जायन्ते गिरिगह्वरे ।तृणौषध्या रसे सूतं नैव बन्धं कदाचन ॥८॥अक्षयं नैव तिष्ठेत्तु कुलौषधिविवर्जितम् ।कुलौषध्या विहीनास्तु गगनं च न हन्ति ते ॥९॥स रसस्तु वरारोहे वह्निमध्ये न तिष्ठति ।न खोटो न च वा भस्म नैव द्रव्यं करोति सः ॥१०॥किंचिद्द्रव्यं प्रकुर्वन्ति धाम्यमानं न तिष्ठति ।पत्रे पाके कषे छेदे नैव तिष्ठति काञ्चनम् ॥११॥नैव वेधं शतादूर्ध्वं करोति स रसः प्रिये ।यावन्न चाब्दमेकं तु विक्रीतं तत्तु काञ्चनम् ॥१२॥धर्मार्थकाममोक्षेषु नैव दद्यात्तु तत्प्रिये ।दिव्यौषध्या यदा देवि रसेन्द्रो मर्दितो भवेत् ॥१३॥कालिकारहितः सूतः सदा भवति पार्वति ।परस्य हरते कालं कालिकारहितो रसः ॥१४॥अष्टानां चैव लोहानां मलं शमयति क्षणात् ।महामूर्च्छागतं सूतं को वापि कथयेन्मृतम् ॥१५॥दिव्यौषध्या रसेनैव जायते नष्टचेतनः ।पञ्चभूतात्मकः सूतस्तिष्ठते च सदाशिवः ॥१६॥रसौषध्यो महौषध्यः सिद्धौषध्यस्तथापराः ।दिव्यौषध्य इति प्रोक्ता मया प्रोक्ताश्चतुर्विधाः ॥१७॥दिव्यौषध्यो निगद्यन्ते तासु ता गुणवत्तराः ।वृक्षवल्लीलतागुल्मतृणवन्दानिका इति ॥१८॥रसबन्धकरौषध्यः षड्विधाः परिकीर्तिताः ।सोमवल्लीसोमवल्ली महागुल्मा यक्षश्रेष्ठा धनुर्लता ॥१९॥सोमाह्वा गुल्मवल्ली च यज्ञवल्ली द्विजप्रिया ।सोमक्षीरा च सोमा च यज्ञा दिव्यलता स्मृता ॥२०॥सोमवल्ली कटुः शीता मधुरा पित्तदाहनुत् ।तृष्णाविशेषशमनी पाचनी च रसायनी ॥२१॥पञ्चाङ्गका पञ्चदशच्छदाढ्या सर्पाकृतिः शोणितपर्वदेशा ।सा सोमवल्ली रसबन्धकर्म करोति राकादिवसोपनीता ॥२२॥कृष्णे पक्षे प्रगलति दलं प्रत्यहं चैकमेकं शुक्ले पक्षे प्रभवति पुनर् लम्बमाना लता स्यात् ।तस्याः कन्दः कलयतितरां पूर्णिमायां गृहीतो बद्ध्वा सूतं कनकसहितं देहलोहं विधत्ते ॥२३॥इयं सोमलता नाम वल्ली परमदुर्लभा ।अनया बद्धसूतेन्द्रो लक्षवेधी प्रजायते ॥२४॥चतुर्विंशतिसोमानां लक्ष्म व्यक्तं रसायने ।सोमवृक्षकरोति सोमवृक्षोऽपि रसबन्धवधादिकम् ॥२५॥पूर्णिमादिवसानीतस्तयोर्वल्ली गुणाधिका ।प्रोक्ता महिषवल्ली च प्रतिसोमान्त्रवल्लिका ॥२६॥अपत्त्रवल्लिका प्रोक्ता काण्डशाखा पयस्विनी ।रसवीर्यविपाकेषु सोमवल्लीसमा स्मृता ॥२७॥स्थलपद्मिनीअथातः स्थलपद्मिन्या दिव्यौषध्या विधिं शृणु ।पद्मिनीसदृशा पत्रैः पुष्पैरपि च तादृशी ॥२८॥भङ्गे चैव स्रवेत्क्षीरं रक्तवर्णं सुशोभनम् ।आक-रम्य वामपादेन पश्येद्गगनमण्डलम् ॥२९॥पश्येच्च तारकायुक्तं ग्रहनक्षत्रमण्डलम् ।लक्षयोजनतो देवि सा ज्ञेया स्थलपद्मिनी ॥३०॥गोनसागोनसाकारवल्ली स्याच्चित्रमण्डलमण्डिता ।जरारुङ्मृत्युशमनी रसबन्धवधक्षमा ॥३१॥उच्चटाअथोच्चटां प्रवक्ष्यामि रसबन्धकरीं प्रिये ।एकमेव भवेन्नालं तस्या रोमप्रवेष्टनम् ॥३२॥तस्याग्रे च भवेत्पुष्पं शुकतुण्डस्य सन्निभम् ।तत्पत्राणि च देवेशि शुकपिच्छनिभानि च ॥३३॥तत्कन्दं कूर्मसंस्थानं क्षीरं सिन्दूरसन्निभम् ।जलं स्रवेन्मधूच्छिष्टे तत्समादाय पार्वति ॥३४॥वेधयेत्सर्वलोहानि काञ्चनानि भवन्ति च ।ईश्वरीईश्वरीत्युच्यते काचिदीश्वरीतुल्यरूपिणी ॥३५॥भूरिक्षीरपरिस्रावा सबीजरसबन्धिनी ।भूतकेशीनिम्बपत्रसदृक्पत्रा भूतकेशीति कथ्यते ॥३६॥न वध्यते यया सूतः सूतोऽसौ हि निबन्धकः ।कृष्णलताभिन्नकज्जलसङ्काशा लता कृष्णलतेत्यसौ ॥३७॥निर्बीजमपि बध्नाति रसं सर्वविषापहा ।लशुनवल्लीनाम्ना लशुनवल्ली च तद्दलैः सदृशच्छदा ॥३८॥क्षरत्क्षीरा सुकन्दा च रसं बध्नाति वेगतः ।रुदन्तीचणपत्रोपमैः पत्रैः पुष्पैरपि च तादृशी ॥३९॥रुदन्ती नाम विख्याता ह्यधस्ताज्जलवर्षिणी ।रुदन्तीव जनान्दृष्ट्वा मृत्युदैन्यजराकुलान् ॥४०॥चतुर्विधा तु सा ज्ञेया पीता रक्ता सितासिता ।जारिताभ्रं रसं हन्याद्बध्नाति च रसायनी ॥४१॥मुसलीकन्दवत्कन्दा तद्दलाकारवद्दला ।सुक्षीरा रोमशा सोक्ता वाराही रसबन्धनी ॥४२॥सप्तपत्त्रीसप्तपल्लवसम्पूर्णां सप्तपत्त्रीत्यसौ मता ।रसायनी जराघ्नी च बध्यते पारदस्तया ॥४३॥नागिनीनागिनीत्युदिता वल्ली नागभोगसमाङ्गिका ।सर्पादिकविषघ्नी च सा स्वच्छरसबन्धिनी ॥४४॥सर्पिणीसर्पिणी लतिका चान्या सर्पवद्वक्रयष्टिका ।सक्षीरा स्निग्धपत्रा च बालपारदबन्धिनी ॥४५॥छत्त्रिणीछत्रवद्दण्डपत्रा या नातिनीचा न चोन्नता ।सुक्षीरा छत्त्रिणी नाम रसबन्धकरी मता ॥४६॥गोशृङ्गीपर्वतेऽश्मसमुद्भूता गोकन्दाकृतिकन्दयुक् ।क्षता मुञ्चति सा क्षीरं गोशृङ्गी रसबन्धिनी ॥४७॥ज्योतिर्लताज्योतिर्नाम्नी त्रिधा प्रोक्ता वृक्षकन्दतृणात्मिका ।गिरौ ज्वलति सा रात्रौ लतापारदबन्धिनी ॥४८॥रक्तवल्लीरक्तक्षीरदलाङ्गा या नातिविस्तरवल्लिका ।रक्तवल्लीत्यसौ दिव्या निर्दिष्टा रसबन्धिनी ॥४९॥पद्मवल्लीया पद्मपत्राकृतिपत्रवल्ली सा पत्रवल्लीत्युदिता रसज्ञैः ।सक्षीरकन्दा सलिलोद्भवा च क्षितौ न तिष्ठेद्रसबन्धनी सा ॥५०॥काकिनीस्थूलकण्टकवर्णाढ्या सा प्रोक्ता काकिनी लता ।रसबन्धकरी सैषा जरामृत्युविनाशिनी ॥५१॥चान्डालीचाण्डालीति विनिर्दिष्टा त्रिचतुःपत्रधारिणी ।सा च रक्ता क्षीरकन्दा तया सूतो निबध्यते ॥५२॥प्रोक्तश् चण्डालकन्दः स्याद् एकपत्रो द्विपत्त्रकः ।त्रिपत्त्रोऽथ चतुष्पत्त्रः पञ्चपत्त्रश्च भेदतः ॥५३॥ताम्रवल्लीताम्रवर्णलतापत्रपुष्पक्षीरसमन्विता ।सा ताम्रवल्लिका प्रोक्ता रसलोहादिसाधनी ॥५४॥पीतवल्लीपीतपत्रलतापुष्परसयुक्तातिदुर्लभा ।सा पीतवल्लिकेत्युक्ता रसबन्धविधौ हिता ॥५५॥विजयासितक्षीराढकीपत्रछदना नातिविस्तृता ।विख्याता विजयेत्येषा रसबन्धविधौ हिता ॥५६॥महौषधीत्रिकोणकन्दसंयुक्ता चित्रकच्छदनच्छदा ।महौषधीति सा प्रोक्ता रसबन्धे परं हिता ॥५७॥देवदालीशिखिकण्ठाभपत्राढ्या चन्दनामोदमेदुरा ।देवदालीत्यसौ दिव्या रसं बध्नाति सा क्षणात् ॥५८॥नवनीतकगन्धीनवनीतकगन्धीति तिक्ता म्रक्षणगन्धिनी ।सक्षीरा रक्तपुष्पा च रसेन्द्रो बध्यते तया ॥५९॥गरुडवल्लीसक्षीरा रक्तपुष्पा च बदरीदलवद्दला ।उक्ता गारुडवल्लीति शीघ्रं बध्नाति पारदम् ॥६०॥तुम्बिनीतुम्बिनीत्युदिता वल्ली तत्पत्रकुसुमान्विता ।तिक्तरक्तपयोयुक्ता तत्फला रसबन्धिनी ॥६१॥भूतुम्बिनीया तुम्बिनीपत्रसमानपत्रा भूतुम्बिनी नातिविसर्पिणी सा ।निम्बूसमानैश्च फलैरुपेता सर्वामयघ्नी रसबन्धनी च ॥६२॥गन्धर्वाएरण्डपत्रवत्पत्रा सक्षीरा नातिविस्तृता ।गन्धर्वेत्युदिता सा हि तया बन्धं रसो व्रजेत् ॥६३॥व्याघ्रपादीव्याघ्राङ्घ्रिसमपत्रा या रक्तपुष्पा पयस्विनी ।व्याघ्रपादीति निर्दिष्टा रसं बध्नाति निश्चितम् ॥६४॥महौषधीसप्तच्छदसदृक्पत्रा कृशाङ्गी नातिविस्तृता ।महौषधीत्यसौ प्रोक्ता रसं बध्नाति हन्ति च ॥६५॥गोमारीगोमारीनामिका वल्ली वेणुपत्रसमच्छदा ।तस्या मूलं समासाद्य शस्तः सूतो निबध्यते ॥६६॥त्रिशूलीत्रिशूलाकारपत्रा या शम्याकफलवत्फला ।त्रिशूलीति समाख्याता विख्याता रसबन्धने ॥६७॥रुतसीरुतसीपत्रवत्पत्रफला सा क्षीरकन्दयुक् ।रुतसी वल्लिकेत्युक्ता गिरिजा रसबन्धनी ॥६८॥त्रिदण्डीसुपुष्पा तिलकोपेता रक्तत्यत्रिफलान्विता ।रसबन्धविधौ प्रोक्ता त्रिदण्डीति कृताभिधा ॥६९॥भृङ्गवल्लीभृङ्गवद्वर्णपत्राढ्या क्षीरिणी पीतपुष्पिका ।भृङ्गवल्लीति सा प्रोक्ता प्रयुक्ता रसबन्धने ॥७०॥चमरिकाचमराकारपत्राढ्या क्षीरयुक्चन्द्रधारिणी ।लता चमरिका नाम सा च बध्नाति पारदम् ॥७१॥करवीरलताहयमारसमाकारदलपुष्पवती लता ।करवीरलतेत्युक्ता नितरां सूतबन्धिनी ॥७२॥वज्रवल्लीकोरण्डपत्रछदनोपमानप्रसूनपत्रा च सदुग्धकन्दा ।सा वज्रवल्ली कटुतिक्तसारा वज्राङ्कपत्रा रसबन्धिनी च ॥७३॥वारवल्लीरक्तक्षीरवती बिल्वदलोपमदलान्विता ।वारवल्लीति सा सूतबन्धनी रोगनाशिनी ॥७४॥रोहिणीशणपुष्पदलाकारदशपुष्पा च दुग्धयुक् ।सा रोहिणीति निर्दिष्टा रसराजस्य बन्धनी ॥७५॥बिल्विनीज्योतिष्मतीदलाकारवर्णपर्णा यशस्विनी ।रसबन्धविधौ प्रोक्ता बिल्विनीति निगद्यते ॥७६॥गोरोचनलतागोरोचनप्रभायुक्तदलवल्लीसमन्विता ।गोरोचनलता भूतमोचनी रसबन्धनी ॥७७॥करीरीश्रीशैलशिखरोद्भूता मार्कण्डीसदृशौषधी ।रक्तं क्षीरं क्षता मुञ्चेत्करीरी रसबन्धिनी ॥७८॥अक्षरापत्त्रसीसा पत्त्रवत्पत्रा त्रिवर्षात्फलदायिनी ।अक्षरेति समाख्याता रसस्यातिनिबन्धिनी ॥७९॥अपत्त्रासोमवल्लीव निष्पत्रा कज्जलाभरसान्विता ।अपत्त्रासौ भवेद् विन्ध्ये नात्युच्चा रसबन्धिनी ॥८०॥आद्ये वर्षे भवेदम्ला भवेत्तिक्ता द्वितीयके ।तृतीयेऽब्दे च मधुरैः फलैर्युक्ता प्रजायते ॥८१॥पित्तज्वरहरा सद्यः सुपत्रफलसंयुता ।कुटजवल्लीलता कुटजवल्लीति तत्फला तद्दलान्विता ॥८२॥मधुरा रुधिरग्रन्थिः सूतराजनिबन्धिनी ।मूलकन्दामूलकन्देति विख्याता मूलवत्फलपत्त्रिणी ॥८३॥लता क्षीरान्विता सूतबन्धनं कुरुते ध्रुवम् ।ब्राह्मणीपारिजाताद्रिजा वल्ली शतपुष्पदलच्छदा ॥८४॥कृष्णक्षीरफला प्रोक्ता ब्राह्मणी रसबन्धिनी ।मुनिवल्लीअगस्तिपत्रतत्पत्रा तद्रूपारुणपुष्पिणी ॥८५॥घृतगन्धा रसघ्नी सा मुनिवल्लीति कथ्यते ।निम्बकादलैः पुष्पैः फलैर्वल्ली निंबवृक्षस्य सन्निभा ॥८६॥तन्मूलैर्बध्यते सूतः सा प्रोक्ता निम्बका लता ।तिलकन्दातिलकन्देति विख्याता मूलवत्फलपत्त्रिणी ॥८७॥लता क्षीरवती सूतं निबध्नात्यातपे खरे ।अतसीवल्लिकाअतस्य इव पुष्पाणि फलानि च दलानि च ॥८८॥अतसीवल्लिका सा हि पारदस्य निबन्धिनी ।बोधिलताउक्ता बोधिलता बोधिपत्त्रदुग्धेन संयुता ॥८९॥बध्नाति रसराजं सा दानवेन्द्रमिवाच्युतः ।मद्यगन्धामद्यगन्धेति विख्याता निष्पत्रा फलपत्रयुक् ॥९०॥तस्याः कन्दो रसं शीघ्रं बन्धनं नयति ध्रुवम् ।कूर्मलताउक्ता कूर्मलता कूर्मरूपकन्दा पयोऽन्विता ॥९१॥मल्लिकोपमतत्पत्रप्रसवा रसबन्धिनी ।माधवीमाधवीमूलवन्मूला नागवल्लीदलान्विता ॥९२॥माधवीत्युदिता वल्ली तन्मूलैर्बध्यते रसः ।विशालाश्वेतपत्रतया वल्ली श्वेतपुष्पफला तथा ॥९३॥विशालेति विनिर्दिष्टा सापि पारदबन्धिनी ।महानागानागकुण्डलवत्कन्दा तत्फणासदृशच्छदा ॥९४॥महानागेत्यसौ वल्ली विनिबध्नाति पारदम् ।मण्डूकलतिकामण्डूकाकारवत्कन्दा मण्डूकीदलवद्दला ॥९५॥मण्डूकलतिकेत्येषा तन्मूलैर्बध्यते रसः ।उदुम्बरलताउदुम्बरफलाकारफलवद्दलवद्दला ॥९६॥सोदुम्बरलतेत्युक्ता सूतराजस्य बन्धिनी ।चित्रवल्लीया दुग्धकन्दा वटपत्रपत्रा विचित्रपर्णोरुफला सुदीर्घा ।सा चित्रवल्लीत्युदिता रसेन्द्रो निबध्यते तत्फलमध्यसंस्थः ॥९७॥चतुःषष्टिरिति प्रोक्ता दिव्यौषध्यो महाबलाः ॥९८॥आभिर्बद्धो रसो न्ःणां देहलोहार्थसाधकः ।सोमवल्ली सोमवृक्षः स्थलपद्मिनिका ततः ॥९९॥गोनसा कारवल्ली च उच्चटा ईश्वरी ततः ।भूतकेशी कृष्णलता ज्ञेया लशुनवल्लरी ॥१००॥रुदन्ती चैव वाराही सप्तपत्त्री च नागिनी ।सर्पिणी छत्त्रिणी चैव गोशृङ्गी सर्वसिद्धिदा ॥१०१॥ज्योतिर्नाम्नी त्रिधा रक्तवल्लरी पत्रवल्लरी ।काकिनी चैव चाण्डाली वल्लरी ताम्रवल्लरी ॥१०२॥पीतवल्ली च विजया विज्ञेया च महौषधी ।ज्ञातव्या देवदाली च स्यान्नवानीतगन्धिनी ॥१०३॥ज्ञेया गरुडवल्ली च तुम्बिनी भूमितुंबिनी ।गन्धर्वा व्याघ्रपादी च विज्ञेया च महौषधी ॥१०४॥गोमारी च त्रिशूली च रुतसी च त्रिदण्डिका ।भृङ्गवल्ली चमरिका करवीरलता ततः ॥१०५॥वज्रवल्ली वारवल्ली रोहिणी बिल्विनी तथा ।गोरोचनलता चैव करीरी चाक्षरा तथा ॥१०६॥अपत्त्री कुटजा वल्ली मूलकन्दा च ब्राह्मणी ।घृतगन्धा निम्बवल्ली तिलकन्दातसी तथा ॥१०७॥बोधिवल्ली मद्यगन्धा कूर्मवल्ली च माधवी ।विशाला च महानागा ज्ञेया मण्डूकवल्ली ॥१०८॥उदुम्बरलता चित्रवल्ली चैव सुरार्चिते ।चतुःषष्टिरिति प्रोक्ता दिव्यौषध्यो महाबलाः ॥१०९॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP