संस्कृत सूची|शास्त्रः|आयुर्वेदः|आनन्दकन्द|रसविद्या प्रकार २| भाग ४ रसविद्या प्रकार २ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० रसविद्या - भाग ४ रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद. Tags : anandakandchemistryVedआनंदकंदआयुर्वेदरसविद्या भाग ४ Translation - भाषांतर श्रीभैरवः ।ताम्रताम्रं म्लेच्छमुखं शुल्बं तपनेष्टमुदुम्बरम् ।त्र्यम्बकं चारविन्दं च रविलोहं रविप्रियम् ॥१॥रक्तं नैपालकं चैव रक्तधातुः करेन्दुधा ।म्लेच्छं नेपालकं चेति तयोर्नेपालमुत्तमम् ॥२॥नेपालाद् अन्यखन्युत्थं म्लेच्छमित्यभिधीयते ।सुस्निग्धं मृदुलं शोणं घनघातक्षयं गुरु ॥३॥निर्विकारं गुरु श्रेष्ठं ताम्रं नेपालमुच्यते ।सितकृष्णारुणच्छायं वामभेदि कठोरकम् ॥४॥क्षालितं च पुनः कृष्णम् एतन्म्लेच्छकताम्रकम् ।पाण्डुरं कृष्णशोणं च लघु स्फुटनसंयुतम् ॥५॥रूक्षाङ्गं सदलं ताम्रं नेष्यते रसकर्मणि ।उत्क्लेदमोहभ्रमदाहभेदाः ताम्रस्य दोषाः खलु दुर्धरास्ते ।विशोधनात् तद्विगतस्वदोषं सुधासमं स्याद्रसवीर्यपाके ॥६॥वान्तिमूर्च्छाभ्रमोन्मादनानारुक्कुष्ठशूलकृत् ॥७॥आयुःकान्तिबलभ्रंशकरं धातुप्रदूषणम् ।नु शुद्धं न मृतं ताम्रं तेन संशोध्य मारयेत् ॥८॥ताम्रशुद्धिताम्रं क्षाराम्लसंयुक्तं द्रावितं तप्तगैरिकम् ।निक्षिप्तं महिषीतक्रछगणे सप्तवारकम् ॥९॥पञ्चदोषविनिर्मुक्तं सप्तवारेण जायते ।ताम्रनिर्दलपत्त्राणि लिप्त्वा निम्बवसिन्धुना ॥१०॥ध्मात्वा सौवीरके क्षेपाद्विशुध्यत्यष्टवारतः ।निम्ब्वम्बुपटुलिप्तानि तापितान्यष्टवारकम् ॥११॥विशुध्यन्त्यर्कपत्राणि निर्गुण्डीरसमर्दनात् ।कुमारीपत्रमध्ये तु शुल्वपत्रं निवेशितम् ॥१२॥पुटितं दोषनिर्मुक्तं पाण्डुरं च प्रजायते ।इत्थं विशोधितं ताम्रं सर्वदोषविवर्जितम् ॥१३॥भवेद्रसायनकरं देहलोहकरं परम् ।इमां शुद्धिं विजानीयाच्छिवो वा नन्दिकेश्वरः ॥१४॥बलिना निहतं ताम्रं सप्तवारं समुत्थितम् ।सर्वदोषविनिर्मुक्तं भवेदमृतसन्निभम् ॥१५॥स्नुह्यर्कक्षीरलवणकाञ्जिकैस् ताम्रपत्रकम् ।लिप्त्वा प्रताप्य निर्गुण्डीरसैः सिञ्च्यात् पुनः पुनः ॥१६॥वारान् द्वादशतः शुद्धं लेपात्तापाच्च सेचनात् ।खटिकां लवणं तक्रैरारनालैश्च पेषयेत् ॥१७॥तेन लिप्तं ताम्रपत्रं तप्तं तप्तं निषेचयेत् ।षड्वारम् अम्लतक्रान्तर् निर्गुण्ड्याश्च विशुद्धये ॥१८॥तप्तानि ताम्रपत्राणि सेचयेत्तिक्तकारसैः ।लिप्त्वाम्लतक्रलवणकाञ्जिकेन पुनः पुनः ॥१९॥तप्तं तप्तं त्रिधा सिञ्च्याच्छुद्धिमायाति निश्चयम् ।गोमूत्रेण पचेद्यामं ताम्रपात्रं दृढाग्निना ॥२०॥शुध्यते नात्र सन्देहो मारणं चाप्यथोच्यते ।ताम्रभस्म (१)गन्धेन ताम्रतुल्येन ह्यम्लपिष्टेन लेपयेत् ॥२१॥कण्टवेधीकृतं पत्रमन्धयित्वा पुटे पचेत् ।उद्धृत्य चूर्णयेत्तस्मिन्पादांशं गन्धकं क्षिपेत् ॥२२॥जम्बीरैर् आरनालैर् वा मृगदूर्वाथवा द्रवैः ।पिष्ट्वा पिष्ट्वा पचेद्रुद्धं सगन्धं च चतुष्पुटैः ॥२३॥मातुलुङ्गद्रवैः पिष्ट्वा पुटमेकं प्रदापयेत् ।सितशर्करयाप्येकं पुटं देयं मृतं भवेत् ॥२४॥ताम्रभस्म (२)पाषाणभेदिमत्स्याक्षीद्रवैर् द्विगुणगन्धकम् ।ताम्रस्य लेपयेत् पिष्टिं रुद्ध्वा गजपुटे पचेत् ॥२५॥समांशेन पुनर्गन्धं दत्त्वा द्रावैश्च लोलयेत् ।एवं सप्तपुटैः पक्वं ताम्रभस्म भवेद् ध्रुवम् ॥२६॥ताम्रभस्म (३)ताम्रस्य त्रिगुणं सूतं जम्बीराम्लेन मर्दयेत् ।आदौ मूषान्तरे क्षिप्त्वा धुत्तूरस्य तु पत्रकम् ॥२७॥तत्पृष्ठे ताम्रतुल्यं च गन्धकं चूर्णितं क्षिपेत् ।तत्पृष्ठे मर्दितं ताम्रं पूर्वतुल्यं च गन्धकम् ॥२८॥आच्छाद्य धूर्तपत्रैस्तु रुद्ध्वा गजपुटे पचेत् ।स्वाङ्गशीतं ततश्चूर्णं मृतं भवति निश्चितम् ॥२९॥ताम्रभस्म (४)किंचिद्गन्धेन वाम्लेन क्षालयेत्ताम्रपत्रकम् ।ताम्रपादेन सूतेन सार्द्रं पत्रं प्रलेपयेत् ॥३०॥ताम्रद्विगुणगन्धेन चाम्लपिष्टेन तत्पुनः ।लिप्त्वा ह्यधोर्ध्वगं देया सुपिष्टा चाम्लपर्णिका ॥३१॥तत्पिण्डं भाण्डगर्भे तु रुद्ध्वा चुल्ल्यां विपाचयेत् ।यामैकं ताम्रपाकेन भस्मीभवति निश्चितम् ॥३२॥ताम्रभस्म (५)सूतमेकं द्विधा गन्धं यामं कन्या विमर्दयेत् ।द्वयोस् तुल्ये ताम्रपत्रे स्थाल्या गर्भे निरोधयेत् ॥३३॥सम्यङ्मृल्लवणैः सन्धिं पार्श्वे भस्म निधापयेत् ।चतुर्यामं पचेच्चुल्ल्यां पात्रपृष्ठे सगोमयम् ॥३४॥जलं पुनः पुनर्देयं स्वाङ्गशीतं विचूर्णयेत् ।म्रियते नात्र सन्देहः सर्वयोगेषु योजयेत् ॥३५॥ताम्रभस्म (६)जीर्णं ताम्रं समादाय तत्र चैतान्विनिक्षिपेत् ।वङ्गं घोषं गजं तीक्ष्णसारं कान्तं च षट् समान् ॥३६॥प्रत्येकं ताम्रमानेन सर्वानेकत्र धामयेत् ।वङ्कनालेन तावत्तद्यावदर्कोऽवशिष्यते ॥३७॥तमर्कं ढालयेत्पूर्वं निर्गुण्डीसलिलान्तरे ।सप्तवारांश्च तन्मूलचूर्णमर्के प्रवापयेत् ॥३८॥तेन ताम्रेण कुर्वीत वटिकामव्रणां शुभाम् ।द्विगुणं गन्धकं लिप्त्वा बलेस्त्र्यंशं च पारदम् ॥३९॥शुद्धं हिङ्गुलजं वापि मर्दयेद्बीजपूरकैः ।जम्बीरजैर्वा लिकुचनीरैः सम्यक् प्रमर्दयेत् ॥४०॥त्रिदिनं तद्विशोष्याथ भाण्डान्तस्तन्निवेशयेत् ।उपरिष्टात्ताम्रघटीम् अधोवक्त्रां निधाय च ॥४१॥दृढं विलेपयेत्पश्चात् कटोरीं मृण्मयीं क्षिपेत् ।अतिप्रयत्नाल्लिम्पेत् तां यथा वारा न भिद्यते ॥४२॥अधिचुल्लि ततो दत्त्वा पूरयित्वा जलैरधः ।प्रज्वालयेद्वीतिहोत्रं मृदुमध्योत्तमक्रमात् ॥४३॥दिनानि षट् समादाय स्वाङ्गशीतं तु पात्रकम् ।निर्भिद्य शुल्वं गृह्णीत मृतं सूतेन यत्नतः ॥४४॥ततः खल्वे विचूर्ण्यैतद् यथेष्टं विनियोजयेत् ।ताम्रभस्मशुद्धिःनानाविधं मृतं ताम्रं शुद्ध्यर्थं भागपञ्चकम् ॥४५॥भागैकं श्वेतकाचं च भागं श्वेतं च टङ्कणम् ।मूषायां मिश्रितं क्षिप्त्वा भागैकं चाभ्रपत्रकम् ॥४६॥ऊर्ध्वं दत्त्वा निरुध्याथ ध्माते ग्राह्यं सुशीतलम् ।निर्दोषं तु भवेत्ताम्रं सर्वरोगहरं भवेत् ॥४७॥अथवा मारितं ताम्रम् अम्लेनैकेन मर्दयेत् ।तद्गोलं सूरणस्यान्तः रुद्ध्वा सर्वत्र लेपयेत् ॥४८॥शुष्कं गजपुटे पच्यात्सर्वदोषहरं भवेत् ।वान्तिं भ्रान्तिं विरेकं च न करोति कदाचन ॥४९॥ताम्रभस्म (७)विलिप्य लिकुचद्रावपिष्टगन्धाश्मपङ्कतः ।ताम्रपत्राणि संछाद्य स्थालीमध्ये निरुध्य च ॥५०॥याममात्रं पचेत्सम्यक् शीतान्याकृष्य चूर्णयेत् ।तद्भस्म वल्लमात्रं हि ताम्बूलीदलवेष्टितम् ॥५१॥भक्षितं वामयित्वाथ रेचयित्वा द्वियामतः ।ज्वरं विनाशयेन्न्ःणां शूलाध्मानसमन्वितम् ॥५२॥विषं गरं च वेगेन वामयत्येव निश्चितम् ।पथ्यमत्र प्रदातव्यं गव्यं तक्रं च भक्तकम् ॥५३॥अतिरेकेऽतिवान्तौ च समोहे चातिमात्रके ।तत्तदौचित्ययोगेन कुर्याच्छीतां प्रतिक्रियाम् ॥५४॥अतिवान्तौ भजेद् भ्रष्टम् इक्षुदण्डं सुशीतलम् ।यद्वा बिल्वभवं क्वाथं सितया सह पाचयेत् ॥५५॥बर्बूरत्वग्रसः पेयो विरेके तक्रसंयुतः ।ताम्रभस्म (८)शुल्बतुल्येन सूतेन बलिना तत्समेन च ॥५६॥तदर्धांशेन तालेन शिलया च तदर्धया ।विधाय कज्जलीं श्लक्ष्णां भिन्नकज्जलसन्निभाम् ॥५७॥यन्त्राध्यायविनिर्दिष्टगर्भयन्त्रोदरान्तरे ।कज्जलीं ताम्रपत्राणि पर्यायेण विनिक्षिपेत् ॥५८॥प्रपचेद्यामपर्यन्तं स्वाङ्गशीतं विचूर्णयेत् ।तत्तद्रोगहरानुपानसहितं ताम्रं द्विवल्लोन्मितं सल्लीढं परिणामशूलमुदरं शूलं च पाण्डुज्वरम् ।गुल्मप्लीहयकृत्क्षयाग्निसदनं मेहं च मूलामयं दुष्टां च ग्रहणीं हरेद्ध्रुवमिदं सर्वामयध्वंसनम् ॥५९॥ताम्रं तिक्तकषायकं च मधुरं पाकेऽथ वीर्योष्णकं कोष्णं पित्तकफापहं जठररुक्कुष्ठामजूर्त्यन्तकृत् ।ऊर्ध्वाधःपरिशोधनं च विषहृत्स्थौल्यापहं क्षुत्करं दुर्नामक्षयपाण्डुरोगशमनं नेत्र्यं परं लेखनम् ॥६०॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP