संस्कृत सूची|शास्त्रः|आयुर्वेदः|आनन्दकन्द|रसविद्या प्रकार २| भाग ५ रसविद्या प्रकार २ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० रसविद्या - भाग ५ रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद. Tags : anandakandchemistryVedआनंदकंदआयुर्वेदरसविद्या भाग ५ Translation - भाषांतर श्रीभैरवः ।लोहोत्पत्तिःकान्तायस्तीक्ष्णमुण्डाख्यलोहोत्पत्तिर् अथोच्यते ।देवासुरसमूहेन मथ्यमाने महोदधौ ॥१॥समुत्पन्नं पुरा तस्मिन्नमृतं देवजीवनम् ।पीयमानात्सुरैस्तस्मान्निपेतुः क्षुद्रबिन्दवः ॥२॥ज्ञात्वा तान् भूगतान् यन्ता गोपयामास धूर्जटिः ।लोहपाषाणरूपेण कृत्वा तान्वसुधातले ॥३॥पापरोगाभिभूता ये मानवा न भजन्त्वमून् ।इत्येवं शिवगुप्ता ये सुधाया बिन्दवः पुरा ॥४॥तेषां मया समासेन कथ्यते साधनं स्फुटम् ।कुष्ठादिरोगनाशार्थं यथाबुद्ध्यनुसारतः ॥५॥iron > subtypesकान्तायस्तीक्ष्णमुण्डाख्यं लोहमेवमपि त्रिधा ।रसायनेभ्यः सर्वेभ्यो विद्याच्छतगुणाधिकम् ॥६॥कान्तलोह > स्य्नोन्य्म्स्अयस्कान्तं कान्तलोहं कान्तं स्यात् कृष्णलोहकम् ।कान्तायसं महालोहं काललोहं च सप्तधा ॥७॥अशुद्धकान्तलोहसेवनजा दोषाःहृत्पीडां वह्निदौर्बल्यं महारोगान्मृतिं तथा ।करोति सेवनाल्लोहम् अशोधितम् अमारितम् ॥८॥कान्तग्रहणविधिःतस्मात्कान्तस्य संशुद्धिर् मारणं च विधीयते ।मदोन्मत्तगजः सूतः कान्तमङ्कुशमुच्यते ॥९॥क्षेत्रं ज्ञात्वा गृहीतव्यं तत्प्रयत्नेन भूयसा ।मारुतातपनिक्षिप्तं वर्जयेत्सुरसुन्दरि ॥१०॥भूमिस्थितं च यत्कान्तं छागरक्तेन भावयेत् ।छागरक्तप्रलिप्तेन चर्मणा तत्प्रवेष्टयेत् ॥११॥छागचर्म परीवेष्ट्य विन्यसेत्पूर्ववत्क्षितौ ।उद्धृतं सप्तभिर्मासैस्तोयकुम्भे विनिक्षिपेत् ॥१२॥रक्तपुष्पैः सदा पूज्यं रक्तगन्धानुलेपनैः ।पूरितं मद्यमांसैश्च योज्यं रसरसायने ॥१३॥संस्कृतं छागरक्तेन भ्रामकं चुम्बकं भवेत् ।अनेन क्रमयोगेन द्रावकं भवति प्रिये ॥१४॥कान्तलोहं विना सूतो देहे न क्रामति क्वचित् ।न कान्तेन विना सूतः कान्तः सूतविवर्जितः ॥१५॥कान्तसूतसमायुक्तः प्रयोगो देहधारकः ।पुरा प्रोक्तं मया सर्वं कान्तसत्वं यथाविधि ॥१६॥अधुना सम्प्रवक्ष्यामि कान्तसंस्कारतद्गुणान् ।कान्तलोह > शोधन > नैसर्गिकशशरक्तेन संलिप्तं कान्तपत्रं सुधामितम् ॥१७॥त्रिवारं चाग्निना देवि दोषं नैसर्गिकं त्यजेत् ।कान्तलोह > शोधन > अद्रित्रिफलाष्टगुणे तोये त्रिफला षोडशं पलम् ॥१८॥तत्क्वाथपादशेषं च कान्तस्य पलपञ्चकम् ।कृत्वा पत्राणि तप्तानि सप्तवारं निषेचयेत् ॥१९॥एव प्रलीयते दोषो गिरिजो लोहसंभवः ।कान्तलोहमयं चूर्णं गोमूत्रेऽष्टगुणे पचेत् ॥२०॥धान्याम्लैः क्षालितं भूयः शोषितं शुद्धिमाप्नुयात् ।रत्नमाला हंसपादी गोजिह्वा त्रिफलामृता ॥२१॥गोपाली तुम्बुरुर्दन्ती गोमूत्रे पेषयेदिमाः ।तत्कल्के कान्तपत्रं तु तप्तं तप्तं द्विसप्तधा ॥२२॥सेचयेत्कान्तलोहं तु सर्वदोषनिवृत्तये ।कान्तसिद्धिक्रमःक्रमः कान्तस्य सिद्ध्यर्थं कर्तव्यो मन्त्रपूर्वकम् ॥२३॥उद्भवोद्भवशब्दः स्याच्चतुर्थ्यन्तो ऽमृतात्परम् ।स्वाहान्तः प्रणवश्चादौ मन्त्रोऽयं मर्दने स्थितः ॥२४॥रक्षायै लोहरसयोरयमेवैकमुद्भवम् ।विना स्वाहेति तस्यान्ते फडन्तं योजयेत्प्रिये ॥२५॥प्रणवोर्ध्वं नमश्चण्डं वज्रपाषाण इत्यपि ।ततः परं महावज्रसेनाधिपतये नमः ॥२६॥द्विरुक्तसरुशब्दः स्यान् महाविद्याबलाय च ।ततस्त्वाहेति मन्त्रोऽयं बलिकर्मणि पूजितः ॥२७॥अनेनैव बलिं कृत्वा यथोक्तामाचरेत्क्रियाम् ।लोहभस्मविधिः (१)स्तन्येन हिङ्गुलस्याथ पेषयेत्पलपञ्चकम् ॥२८॥तेनैव पत्रं कान्तस्य लिम्पेत्पञ्चपलोन्मितम् ।रुद्ध्वा गजपुटे पाच्यं कषायैस्त्रैफलैः पुनः ॥२९॥जम्बीरैर् आरनलैर्वा विंशत्यंशेन हिङ्गुलम् ।पिष्ट्वालिप्य पुटे रुद्ध्वा तल्लोहे पाचयेत्पुनः ॥३०॥रुद्धं पुटेत्पचेद्रात्रौ प्रातर् द्रावैश्च भावयेत् ।एवमष्टदिनं कुर्यात्त्रिविधं म्रियते ह्ययः ॥३१॥लोहभस्मविधिः (२)चिञ्चापत्रनिभं कुर्यात्कान्तं तीक्ष्णं च मुण्डकम् ।मृत्पात्रस्थं क्षिपेद् घर्मे दन्तीद्रावैः प्रपूरयेत् ॥३२॥पत्रं पुनः पुनस्तावद्यावत्तरति तत्स्वयम् ।म्रियते तीव्रघर्मेण तच्चूर्णीकृत्य योजयेत् ॥३३॥लोहभस्मविधिः (३)कान्तायस्तीक्ष्णमुण्डानां चूर्णं मत्स्याक्षिजैर्द्रवैः ।आतपे त्रिदिनं भाव्यं त्रिदिनं चित्रकद्रवैः ॥३४॥त्र्यहं त्रिकण्टकरसैः सहदेवीद्रवैर् दिनम् ।गोमूत्रैस्त्रिफलाक्वाथैर्भावयेच्च त्र्यहं त्र्यहम् ॥३५॥उक्तद्रावैस्ततो मर्द्यं क्रमाद्देयं पुटं पुटम् ।रुद्ध्वा गजपुटैरेवं मृतं योगेषु योजयेत् ॥३६॥लोहभस्मविधिः (४)स्थाल्यां वा लोहपात्रे वा लोहदर्व्या विचालयन् ।पाचयेत्त्रिफलाक्वाथैर् दिनं लोहचूर्णकम् ॥३७॥तत्पिण्डं त्रिफलातोयैः पिष्ट्वा रुद्ध्वा पुटे पचेत् ।षोडशाङ्गुलगर्तान्तर् निर्वाते ऽहर्निशं पचेत् ॥३८॥एवं त्रिधा प्रकर्तव्यं स्थालीपाकं पुटान्तकम् ।भृङ्गार्द्रकं तालमूलं हस्तिकर्ण्याश्च मूलकम् ॥३९॥शतावरीविदार्योश्च मूलं तत्त्रिफलाम्भसि ।संपेष्य पूर्ववत्स्थाल्यां पाच्यं पेष्यं त्रिधा पुटैः ॥४०॥पाच्यं ततः पुनर्नव्याः क्वाथैश्च दशमूलतः ।बृहत्याश्च कषायेण बीजपूरस्य च द्रवैः ॥४१॥ब्रह्मबीजरसैः शिग्रुक्वाथैर् गोपयसापि च ।प्रत्येकं संप्रपेष्यादौ पूर्वगर्ते पुटे पचेत् ॥४२॥भावयेत्तद्द्रवेणैव पुटान्ते याममात्रकम् ।प्रत्येकमेवं संपेष्य पुटयेद् भावयेत्क्रमात् ॥४३॥म्रियते नात्र सन्देहः कान्तं तीक्ष्णं च मुण्डकम् ।लोहभस्मविधिः (५)शुद्धसूतं द्विधा गन्धं खल्वे कृत्वा तु कज्जलीम् ॥४४॥द्वयोः समं कान्तचूर्णं मर्दयेत्कन्यकाद्रवैः ।यामद्वयात्समुद्धृत्य तद्गोलं ताम्रपात्रके ॥४५॥आच्छाद्यैरण्डपत्रैश्च यामार्धे ऽत्युष्णतां गतम् ।धान्यराशौ न्यसेत्पश्चात्त्रिदिनान्ते समुद्धरेत् ॥४६॥संपेष्य गालयेद्वस्त्रे सत्यं वारितरं भवेत् ।कान्तं तीक्ष्णं च मुण्डं च निरुत्थं जायते मृतम् ॥४७॥स्वर्णादीन्मारयेदेवं चूर्णीकुर्याच्च लोहवत् ।सिद्धयोगम् अथाख्यातं सिद्धानां संमुखागतम् ॥४८॥अनुभूतं मया देवि सर्वरोगापहारकम् ।नायः पचेत्पञ्चपलप्रमाणाद् अधो न चोर्ध्वं त्रिदशप्रमाणात् ॥४९॥लोहभस्मविधिः (६)अर्जुनस्य त्वचः पेष्याः काञ्जिकेनातिलोलिताः ।तन्मध्ये कान्तचूर्णं च कांस्यपात्रे विनिक्षिपेत् ॥५०॥दिनैकं धारयेद्घर्मे द्रवैः पूर्यं पुनः पुनः ।अर्जुनैः सारनालैर्वा त्रिविधं मारयेदयः ॥५१॥द्रवैः कुक्कुटपत्रोत्थैः कान्तचूर्णं विमर्दयेत् ।दिनं च ह्यातपे तीव्रे द्रवैर्मर्द्यं त्रिकण्टजैः ॥५२॥वन्ध्याभृङ्गपुनर्नव्याः सगोमूत्रैर् दिनं पुनः ।गोमूत्रैस् त्रिफला क्वाथ्या तत्कषायेण भावयेत् ॥५३॥त्रिसप्ताहं प्रयत्नेन दिनैकं मर्दयेत्ततः ।रुद्ध्वा गजपुटे पच्याद्दिनं क्वाथेन मर्दयेत् ॥५४॥दिवा मर्द्यं पुटेद् रात्रावेकविंशद्दिनावधि ।एकविंशत्पुटैरेवं म्रियते त्रिविधं ह्ययः ॥५५॥लोहभस्मविधिः (८)माक्षिकं च शिला ह्यम्लैर्हरिद्रा मरिचाङ्घ्रि च ।पिष्ट्वा लेप्यं कान्तपत्रं तप्तं तप्तं निषेचयेत् ॥५६॥सप्तधा त्रैफले क्वाथे जलेन क्षालयेत्पुनः ।कुट्टयेल्लोहदण्डेन पेषयेत्त्रैफले जले ॥५७॥षोडशांशेन लोहस्य दातव्यं माक्षिकं शिला ।अम्लेन मर्दितं रुद्ध्वा गजाख्यैकपुटे पचेत् ॥५८॥निरुत्थं जायते भस्म कान्तं तीक्ष्णं च मुण्डकम् ।लोहभस्मविधिः (९)तिन्दूफलस्य मज्जायां खड्गं लिप्त्वातपे खरे ॥५९॥धारयेत्कांस्यपात्रान्तर्दिनैकेन स्फुटत्यलम् ।लेपं पुनः पुनः कुर्याद्दिनान्ते तं प्रपेषयेत् ॥६०॥त्रिफलाक्वाथसंयुक्तं दिनैकेन मृतो भवेत् ।तोयाष्टभागशेषेण त्रिफला पलपञ्चकम् ॥६१॥घृतं क्वाथस्य तुल्यं स्याद्घृततुल्यं मृतायसम् ।पाचयेत्ताम्रपात्रे तु लोहदर्व्या विचालयन् ॥६२॥मृद्वग्निना पचेद्यावत्तावज्जीर्यति तद्द्रवम् ।लोहतुल्या सिता योज्या सुपक्वामवतारयेत् ॥६३॥योगवाहम् इदं ख्यातं मृतलोहं महामृतम् ।इत्थं कान्तस्य तीक्ष्णस्य मुण्डस्यापि ह्ययं विधिः ॥६४॥घृततुल्यं मृतं लोहं लोहपात्रगतं पचेत् ।जीर्णे घृते समादाय सर्वयोगेषु योजयेत् ॥६५॥ओं ओं अमृतेन्द्र भक्षयामि नमः ।पात्रे यस्मिन्प्रविशति जले तैलबिन्दुर्न सर्पेत् हिङ्गुर्गन्धं विसृजति निजां तिक्ततां निम्बकल्कः ।पाके दुग्धं भवति शिखराकारता नैव भूमौ कान्तं लोहं तदिदमुदितं लक्षणोक्तं न चान्यत् ॥६६॥लोहपाकस्वरूपम्लोहपाकस्त्रिधा प्रोक्तो मृदुमध्यखरात्मकः ।पङ्कोत्करसमः पूर्वः पिण्डपाकस्तु मध्यमः ॥६७॥तृतीयः खरपाकः स्याद् वालुकासदृशः प्रिये ।निरुत्थभस्मपरीक्षापाकं वर्णं तथा गन्धं ज्ञात्वा लोहस्य वह्नितः ॥६८॥उत्तार्याथ ततः शुद्धं लोहपात्रान्तरे न्यसेत् ।लोहमातङ्गपञ्चास्या गन्धमाक्षीकहिङ्गुलाः ॥६९॥लोह > छेच्किन्ग् थे वारितर स्ततेसर्वमेतन्मृतं लोहं ध्मातव्यं मित्रपञ्चकैः ।यद्येवं स्यान्निरुत्थानं सेव्यं वारितरं हितम् ॥७०॥मध्वाज्येन समायुक्तं लोहं तारेण संयुतम् ।अन्धमूषागतं ध्मातं गृह्णीयात् स्वाङ्गशीतलम् ॥७१॥लोहमध्यगतं तारं पूर्वमानं भवेद्यदि ।तदा लोहं निरुत्थं स्यादन्यथा साधयेत्पुनः ॥७२॥गन्धकं चोत्थितं लोहं तुल्यं खल्वे विमर्दयेत् ।दिनैकं कन्यकाद्रावै रुद्ध्वा गजपुटे पचेत् ॥७३॥इत्येवं सर्वलोहानां कर्तव्येत्थं निरुत्थितिः ।कान्तादिभस्मगुणाःकान्तसिन्दूरमायुष्यमारोग्यं बलवीर्यदम् ॥७४॥देहदार्ढ्यकरं श्रेष्ठं कुर्यादिन्द्रियपाटवम् ।त्रिदोषशमनं राजयक्ष्मरोगविनाशनम् ॥७५॥ज्वरासृक्पित्तपाण्ड्वादीन् हन्याद् अष्टमहागदान् ।यद्यद्रोगहरैर् योगैस् तत्तद्रोगहरं भवेत् ॥७६॥तीक्ष्णलोह > स्य्नोन्य्म्स्तीक्ष्णं शस्त्रायसं शस्त्रं पिण्डं पिण्डायसं शठम् ।आयसं निशितं तीव्रं लोहखड्गं च मुण्डजम् ॥७७॥अयश्चित्रायसं प्रोक्तं चीनजं च त्रिपञ्चधा ।मुण्डलोह > स्य्नोन्य्म्स्मुण्डं मुण्डायसं लोहं कृष्णलौहं शिलोद्भवम् ॥७८॥तीक्ष्ण-, मुण्डलोह > मारणकान्तलोहप्रकारेण मारणं तीक्ष्णमुण्डयोः ।तीक्ष्णलोह > मेदिच्. प्रोपेर्तिएस्तीक्ष्णलोहं कषायाम्लं तिक्तकं कटुकं लघु ॥७९॥शीतलं लेखनं रूक्षं कफपित्तास्रपाण्डुजित् ।प्रमेहसर्वशूलघ्नं तीक्ष्णं मुण्डाधिकं गुणैः ॥८०॥मुण्ड > मेदिच्. प्रोपेर्तिएस्चक्षुष्यं मुण्डलोहं तु कषायं स्वादु तिक्तकम् ।लेखनं वातहृच्छीतं कृमिपित्तकफप्रणुत् ॥८१॥श्वयथूदरशूलार्शःकुष्ठपाण्डुप्रमेहजित् ॥८२॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP