संस्कृत सूची|शास्त्रः|आयुर्वेदः|आनन्दकन्द|रसविद्या प्रकार २| भाग ८ रसविद्या प्रकार २ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० रसविद्या - भाग ८ रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद. Tags : anandakandchemistryVedआनंदकंदआयुर्वेदरसविद्या भाग ८ Translation - भाषांतर श्रीभैरवः ।महाम्बुराशौ सरिति पर्वते काननेऽपि वा ।रत्नानामाकरं देवि स्थानमाधेयगौरवात् ॥१॥तेषु रक्षोविषव्यालव्याधिदोषहराणि च ।प्रादुर्भवन्ति रत्नानि तथैव विगुणानि च ॥२॥प्रदुष्टेनोपजातानि जन्तुनोपहतानि च ।दोषैस्तान्युपचीयन्ते हीयन्ते गुणसंपदा ॥३॥रुब्य् > स्य्नोन्य्म्स्माणिक्यं शोणरत्नं च रत्नराट् रविरत्नकम् ।शृङ्गारि रङ्गमाणिक्यं तरलो रत्ननायकः ॥४॥रागदृक् पद्मरागश्च रत्नं शोणोपलस्तथा ।सौगन्धिकं लोहितकं कुरुविन्दं शरेन्दुकम् ॥५॥नीलगन्धिकमाणिक्यं पद्मरागाख्यं द्वितीयं नीलगन्धि च ।रुब्य् > परीक्षा > गोओद् ॠउअलित्य्कुशेशयदलच्छायं स्वच्छं स्निग्धं गुरु स्फुटम् ॥६॥वृत्तायतं समं गात्रं माणिक्यं श्रेष्ठम् उच्यते ।परीक्षापरिशुद्धानां रत्नानां पृथिवीभृता ॥७॥धारणं सर्वदा कार्यं श्रेयःश्रीकीर्तिकाङ्क्षिणा ।ततस्तु शास्त्रतस्तेषां परीक्षादिकमुच्यते ॥८॥माणिक्यभेदाःयत् सिंहलं कालपुरम् अन्ध्रं तुम्बुरुसंस्थितम् ।क्षेत्रं चतुर्विधं तस्य माणिक्यस्य समुद्भवे ॥९॥सिंहले तु भवेद्रक्तं पद्मरागम् अनुत्तमम् ।पीतं कालपुरोद्भूतं कुरुविन्दमिति स्मृतम् ॥१०॥अशोकपल्लवच्छायम् अन्ध्रं सौगन्धिकं प्रिये ।तुम्बुरौ छायमानीलं नीलगन्धि च कीर्तितम् ॥११॥मध्यमे मध्यमं ज्ञेयं माणिक्यं क्षेत्रभेदतः ।माणिक्यस्य गुणाः प्रोक्ताश्चत्वारो मुनिपुङ्गवैः ॥१२॥स्निग्धच्छाया गुरुत्वं च नैर्मल्यम् अतिरक्तता ।माणिक्यगुणाःमाणिक्यं दीपनं वृष्यं कफवातक्षयार्तिहृत् ॥१३॥भूतवेतालपापघ्नं कर्मजव्याधिनाशनम् ।माणिक्यं च महापुण्यं महाभाग्यकरं परम् ॥१४॥सर्वभूतग्रहोन्मादविषघ्नं दोषजित्परम् ।मुक्तामुक्ता सौम्या मौक्तिकं शौक्तिकेयं तारं तारा शौक्तिकं तारका च ।अम्भःसारं शीतलं नीरजं च नक्षत्रं स्याद् इन्दुरत्नं वलक्षम् ॥१५॥मुक्ताफलं बिन्दुफलं च मुक्ता शौक्तेयकं शुक्तिमणिः शशिप्रियम् ।स्वच्छं हिमं हैमवतं च शुभ्रं सुधांशुरत्नं च भसंख्यकाह्वम् ॥१६॥पेअर्ल् > ओरिगिन्मातङ्गोरगमीनपोत्रिशिरसस्त्वक्सारशङ्खाम्बुभृच्छुक्तीनाम् उदराच्च मौक्तिकमणिः स्पष्टं भवेदष्टधा ।छायाः पाटलनीलपीतधवलास्तत्रापि सामान्यतः सप्तानां बहुशो न लब्धिर् इतरच्छौक्तेयकं तूल्वणम् ॥१७॥पेअर्ल् > परीक्षा > गोओद् ॠउअलित्य्नक्षत्राभं शुद्धमत्यन्तमुक्तं स्निग्धं स्थूलं निर्मलं निर्व्रणं च ।यस्तं धत्ते गौरवं यत्तुलायां तन्निर्मौल्यं मौक्तिकं सौख्यदायि ॥१८॥पेअर्ल् > मेदिच्. प्रोपेर्तिएस्मौक्तिकं च मधुरं सुशीतलं दृष्टिरोगशमनं विषापहम् ।राजयक्षपरिकोपनाशनं क्षीणवीर्यबलपुष्टिवर्धकम् ॥१९॥मौक्तिकं शिशिरं स्निग्धं विशदं कान्तिवर्धनम् ॥२०॥दाहतृड्भ्रममूर्च्छासृक्पित्तज्वरविषापहम् ।चक्षुष्यं पवनास्रपित्तविषजित् सर्वेन्द्रियाह्लादनं तृड्दाहज्वरशोकमोहशमनं शीतं श्रमघ्नं हितम् ।धन्यं मङ्गलमायुषः स्थितिकरं सौभाग्यकान्तिप्रदं मुक्ता हारविभूषणं तद् अखिलं मूलं शशी प्रीयते ॥२१॥चोरल् > स्य्नोन्य्म्स्प्रवालोऽङ्गारकमणिर्विद्रुमो ऽम्भोधिपल्लवः ॥२२॥भौमरत्नं च रक्ताङ्गो रक्ताङ्कुरलतामणिः ।चोरल् > प्लचे ओf ओरिगिन्सेतौ सागरमध्ये या जायते वल्लरी शुभा ॥२३॥विद्रुमाख्या सुरक्ता सा दुर्लभा दीप्तरूपिणी ।चोरल् > परीक्षा > गोओद् ॠउअलित्य्पाषाणत्वं भजत्येषा पाकतः कठिना सती ॥२४॥प्रवालनाम तद्रक्तं वर्णसौभाग्यकान्तिदम् ।सिद्धं स्वच्छं स्निग्धरूपं वृत्तं कान्तं समं गुरु ॥२५॥रङ्गगात्रं दृढं पिण्डं प्रवालं श्रेष्ठमुच्यते ।पक्वबिंबफलाभासं जपाकुसुमसंनिभम् ॥२६॥शुकतुण्डसमच्छायं प्रवालम् अतिशोभनम् ।चोरल् > परीक्षा > बद् ॠउअलित्य्शारदाभं दलं सूक्ष्मं वक्रं रूक्षं सकोटरम् ॥२७॥विद्धं कृष्णं लघुतमं प्रवालं दोषकृद् भवेत् ।गौररङ्गं जलाक्रान्तं प्रवालमशुभं त्यजेत् ॥२८॥चोरल् > परीक्षा > गोओद् ॠउअलित्य्प्रवालं कोमलं स्निग्धं सुरागं विद्रुमं हितम् ।धनधान्यकरं मेध्यं विषाहिभयनाशनम् ॥२९॥चोरल् > मेदिच्. प्रोपेर्तिएस्प्रवालो मधुराम्लश्च कफपित्तादिदोषनुत् ।वीर्यकान्तिकरः स्त्रीणां धृतो मङ्गलदायकः ॥३०॥मरकतमरकतं रौहिणेयं गारुत्मन्तं हरिन्मणिः ।सौपर्णं गरुडोद्गीर्णं बुधरत्नाश्मगर्भजे ॥३१॥गरलारिर् वायवीर्यं गारुडं रुद्रसंमितम् ।तुरुष्कविषयांभोधौ समीरारोहणाचले ॥३२॥तच्छायाश्यामलो देशः सो ऽभून्मरकताकरः ।तद्विशेषान्मरकतं जातं दोषगुणान्वितम् ॥३३॥दोषाः सप्तविधास्तस्य गुणाः पञ्चविधाः स्मृताः ।भवेदष्टविधा छाया मणेर्मरकतस्य च ॥३४॥अस्निग्धं रूक्षमित्युक्तं विस्फोटं पिटकं तथा ।जठरं कान्तिहीनं च विच्छायं मलिनं तथा ॥३५॥सशर्करं सपाषाणं कर्कशं सूत्रसंयुतम् ।कल्माषवर्णं शबलं समस्तभयदायकम् ॥३६॥निर्मलं कथितं स्वच्छं गुरु स्याद् गुरुदायुतम् ।स्निग्धं रूक्षं विनिर्मुक्तम् अरजस्कम् अरेणुकम् ॥३७॥सुरागं रागबहुलमिति पञ्च गुणाः स्मृताः ।एतैर्युक्तं मरकतं सर्वपापहरं परम् ॥३८॥मरकतं विषघ्नं च शीतलं मधुरं रसे ।आमपित्तहरं रुच्यं पुष्टिदं भूतनाशनम् ॥३९॥स्निग्धं मरकतं स्वच्छं सर्वदोषहरं शुभम् ।कान्तिसौभाग्यदं मेध्यं भूतग्रहविषापहम् ॥४०॥पुष्पराग > स्य्नोन्य्म्स्पीतस्तु पुष्परागः पीतस्फुटिकं च पीतरत्नं च ।पीताश्मा गुरुरत्नं पीतमणिः पुष्यरागश्च ॥४१॥पुष्पराग > परीक्षा > त्रुएईषत् पीतं पविच्छायं स्वच्छं कान्त्या मनोहरम् ।पुष्यराग इति ख्यातं रत्नं रत्नपरीक्षकैः ॥४२॥पुष्पराग > परीक्षा > गोओद् ॠउअलित्य्हेमच्छायं शिरोवृत्तं ज्योतिरङ्गारनिर्मलम् ।पीतगात्रं गुरु स्निग्धं पुष्यरागं प्रशस्यते ॥४३॥पुष्पराग > परीक्षा > बद् ॠउअलित्य्रूक्षं क्षतलघु श्वेतं कृष्णं गौरं सशर्करम् ।मलिनं बिन्दुमद्रत्नं पुष्यरागं न शस्यते ॥४४॥पुष्पराग > मेदिच्. प्रोपेर्तिएस्पुष्यरागोऽम्लशीतश्च वातजिद्दीपनः परम् ।आयुः श्रियं च प्रज्ञां च धारणात्कुरुते नृणाम् ॥४५॥पुष्यरागं शुभं मेध्यं वस्तुसौभाग्यकीर्तिदम् ।वाक्पटुत्वकरं हृद्यं विषघ्नं दोषजित्परम् ॥४६॥वज्रवज्रमिन्द्रायुधं वीरं भिदुरं कुलिशं पविः ।अभेद्यम् असिरं रत्नं दृढं भार्गवकं स्मृतम् ॥४७॥वज्र > परीक्षा > गोओद् ॠउअलित्य्स्वच्छं विद्युत्प्रभं स्निग्धं सुन्दरं लघु लेखनम् ।षडारं तीक्ष्णधारं च सुसौम्यारं श्रियं दिशेत् ॥४८॥वज्राकरा वज्रभेदाश्चपौण्ड्रमतङ्गहिमाचलसौराष्ट्रसुपारकोसलकलिङ्गाः ।पेण्णानदीतटश् चेत्यष्टौ वज्राकरा विनिर्दिष्टाः ॥४९॥श्यामं प्रपौण्ड्रप्रभवं किंचित् पीतं मतङ्गगिरिजातम् ।हिमवत्सुराष्ट्रसंभवम् आताम्रं कृष्णकान्ति सौपारम् ॥५०॥फुल्लशिरीषच्छायं कोसलजं कनककान्ति कालिङ्गम् ।पेण्णानदीतटोद्भवम् आहुर् वज्रं सुधांशुनिभम् ॥५१॥कलिङ्गकोसलौ देशौ मतङ्गाद्रिहिमालयौ ।सौराष्ट्रपौण्ड्रकौवेराकरसूपारकौ तथा ॥५२॥कृतादिषु युगेष्वेतौ वज्राणामाकरौ स्मृतौ ।आकरेष्वेव वज्राणां खनिः स्रोतः प्रकीर्णकम् ॥५३॥समुत्पत्तिस्थलं त्रेधा निर्दिष्टं सुरनायिके ।कोट्यः पार्श्वानि धाराश्च षडष्टौ द्वादशैव च ॥५४॥इत्यच्छतीक्ष्णधाराग्रा वज्रस्याहुरथो गुणान् ।वज्र > ५ दोषस्मलो बिन्दुश्च रेखा च त्रासः काकपदं तथा ॥५५॥एते दोषाः समाख्याताः पञ्च वज्रेषु संस्थिताः ।कुर्यादशोधितं वज्रं कुष्ठदाहाङ्गगौरवम् ॥५६॥हृत्पार्श्वपीडां पाण्डुं च ततस्तच्छुद्धिरुच्यते ।वज्रशुद्धिगृहीत्वाथ शुभ्रं वज्रं व्याघ्रीकन्दोदरे क्षिपेत् ॥५७॥महिषीशकृदालिप्य करीषाग्नौ विपाचयेत् ।अहोरात्रात्समुद्धृत्य हयमूत्रेण सेचयेत् ॥५८॥एवं पुनः पुनः पक्वं सप्तरात्राद्विशुध्यति ।मेघनादाशमीश्यामाशृङ्गीमदनकोद्भवैः ॥५९॥कुलुत्थवेतसागस्त्यसिन्धुवाराखुकर्णिकाः ।एतेषां हयमूत्रेण कषायं साधितं पुनः ॥६०॥जम्बीरे कुलिशं क्षिप्त्वा हयमूत्रैस्त्र्यहं पचेत् ।डोलायन्त्रविधानेन ततः शुद्धिमवाप्नुयात् ॥६१॥कुलुत्थकोद्रवक्वाथैर्डोलायन्त्रे विपाचयेत् ।व्याघ्रीकन्दगतं वज्रं सप्ताहाच्छुद्धिमाप्नुयात् ॥६२॥कुलत्थकोद्रवक्वाथं हयमूत्रं स्नुहीपयः ।क्षिप्त्वा भाण्डे पचेत्तस्मिन् व्याघ्रीकन्दगतं पविम् ॥६३॥डोलायन्त्रे दिवारात्रं समुद्धृत्य पुनः क्षिपेत् ।वज्रकन्दे मृदा कन्दं लिप्त्वा गजपुटे पचेत् ॥६४॥तत्पक्वं पाचनद्रावैः सेचितं शुद्धिमाप्नुयात् ।व्याघ्रीकन्दगतं वज्रं मृदा लिप्तं पुटे पचेत् ॥६५॥अहोरात्रात्समुद्धृत्य हयमूत्रेण सेचयेत् ।वज्रीक्षीरेण वा सिञ्च्यादेवं शुद्धं तु मारयेत् ॥६६॥विप्रजातीयवज्रमारणम्वक्ष्यते विप्रजात्यादेः शुद्धवज्रस्य मारणम् ।अश्वत्थबदरीभण्डीमाक्षिकं कर्कटास्थि च ॥६७॥समं स्नुक्पयसा पिष्ट्वा मूषामध्ये प्रलेपयेत् ।तन्मध्ये प्रक्षिपेद्वज्रमौषधैस्तैस्ततः परम् ॥६८॥वज्रमाच्छाद्य यत्नेन ततो मूषां निरोधयेत् ।कुञ्जराख्येन पुटयेत्पुटेन महता पुनः ॥६९॥विप्रजातीयकं वज्रं पुटेनैकेन सिध्यति ।करवीरं मेषशृङ्गी दरदं च ह्युदुम्बरम् ॥७०॥अर्कदुग्धैः समं पिष्ट्वा तत्कृते गोलके क्षिपेत् ।वज्रं क्षत्रियजातीयं पूर्ववन्मारयेद् ध्रुवम् ॥७१॥वैश्यजातीयवज्रमारणम्सूरणं लशुनं शंखं शिलायां पेषयेत्समम् ।बलामतिबलां गन्धं कच्छपास्थि च पेषयेत् ॥७२॥उत्तरावारुणीदुग्धैस्तत्कृते गोलके क्षिपेत् ।वज्रं तु वैश्यजातीयं पूर्ववत्तन्मृतं भवेत् ॥७३॥शूद्रजातीयवज्रमारणम्सूरणं लशुनं शङ्खं शिलां संपेषयेत्समम् ।वटक्षीरेण तत्कॢप्ते गोलके पूर्ववत्पचेत् ॥७४॥वज्रं तच्छूद्रजातीयं तेन सम्यग्भवेन्मृतम् ।स्त्रीपुंवज्रं तु पूर्वोक्तैर्म्रियते तत्तदौषधैः ॥७५॥चतुर्जात्यौषधैरेव मृतिर्वज्रे नपुंसके ।वज्रमारण (१)सामान्यः सर्ववज्राणां वक्ष्यते मारणक्रमः ॥७६॥शुद्धं वज्रं मत्कुणानां रक्तैर्लिप्त्वा धमेत्पुनः ।अग्निवर्णं क्षिपेन्मूत्रे गर्दभस्य पुनः पुनः ॥७७॥लेपितं ध्मापितं तद्वदेवं कुर्यात्त्रिसप्तधा ।तालकं मत्कुणैः पिष्ट्वा तस्मिन्गोले क्षिपेत्तु तम् ॥७८॥रुद्ध्वा मूषां धमेद्गाढं हयमूत्रे विनिक्षिपेत् ।समुद्धृत्य पुनस्तद्वत्सप्तवारैर्मृतो भवेत् ॥७९॥वज्रमारण (२)मेषशृङ्गं भुजङ्गास्थि कूर्मपृष्ठं शिलाजतु ।गन्धकं कान्तपाषाणं मुनिपुष्पं सतालकम् ॥८०॥त्रिक्षारं पञ्चलवणं मेषशृङ्गीन्द्रवारुणी ।वज्रवल्ली मूषकर्णी बदरी कुड्मलानि च ॥८१॥मूषकस्य मलं स्तन्यं स्नुह्यर्कक्षीरमत्कुणम् ।पञ्चाङ्गं शरपुंखस्य ह्यस्थिनी खरमेषयोः ॥८२॥पेटारिबीजं स्त्रीपुष्पं पारावतमलं शिला ।पुष्पाणि चैव वाकुच्याः पञ्चाङ्गं तिमिरस्य च ॥८३॥धात्रीवृक्षस्य पञ्चाङ्गं गोरम्भा वाजिमूत्रकम् ।हंसपादी वज्रकन्दं बृहतीफलसूरणम् ॥८४॥गोजिह्वा कर्कटं मांसं मूत्रवर्गं च मिश्रयेत् ।एतत्समस्तं व्यस्तं वा यथालाभं सुपिण्डितम् ॥८५॥तत्पिण्डे निक्षिपेद्वज्रमन्धमूषागतं पुटेत् ।कुलुत्थकोद्रवं पिष्ट्वा हयमूत्रे विलोलयेत् ॥८६॥तन्मध्ये सेचयेत्तप्तां मूषापुटविनिर्गताम् ।एवं पुनः पुनः कुर्यादेकविंशतिवारकम् ॥८७॥आदाय तत्पुनर्वज्रं ताले मत्कुणपेषिते ।गोलके निक्षिपेद् रुद्ध्वा मूषां तीव्रानले धमेत् ॥८८॥इत्येवं सप्तधा ध्मातं हयमूत्रे निषेचयेत् ।अनेन क्रमयोगेन मृतो भवति निश्चितम् ॥८९॥तन्मृतं चूर्णयेत् खल्वे सिद्धयोग उदाहृतः ।वज्रमारण (३)भ्रामकं च मृतं ताप्यं पेटालीबीजटङ्कणम् ॥९०॥क्षीरं चोत्तरवारुण्या गन्धकं तालकं शिला ।चिञ्चाबीजं मेषशृङ्गी स्त्रीपुष्पं चाम्लवेतसः ॥९१॥पञ्चाङ्गं शरपुंखायाः शशदन्तं शिलाजतु ।एतत्समस्तं व्यस्तं वा यथालाभं सुचूर्णयेत् ॥९२॥स्नुह्यर्कोत्तरवारुण्याः क्षीरैः स्तन्यैर्विमर्दयेत् ।तद्गोलके क्षिपेद् वज्रं रुद्ध्वा चैतान्धमेद्दृढम् ॥९३॥गुडूची सैन्धवं हिङ्गु समुस्तोत्तरवारुणी ।क्वाथैः कौलुत्थकैः पिष्ट्वा तस्मिन्क्वाथे विनिक्षिपेत् ॥९४॥तं वज्रं पूर्ववद्गोले कृत्वा रुद्ध्वा धमेत्तथा ।सेचनान्तं ततः कुर्यादेकविंशतिवारकम् ॥९५॥तालकं मत्कुणायोगे सप्तवारं पुनर्धमेत् ।सेचयेदश्वमूत्रेण तद् वज्रं म्रियते ध्रुवम् ॥९६॥वज्रमारण (४)त्रिवर्षीयोत्थकार्पासमूलमादाय पेषयेत् ।त्रिवर्षनागवल्ल्या वा निजद्रावैः प्रपेषयेत् ॥९७॥तद्गोलके क्षिपेद्वज्रं रुद्ध्वा गजपुटे पचेत् ।एवं सप्तपुटैः पक्वमेकैकेन कृतं भवेत् ॥९८॥वज्रमारण (५)तालकासीससौराष्ट्रीमपामार्गस्य भस्म च ।पिष्ट्वा कौलुत्थकैः क्वाथैस्तस्मिन्वज्रं सुतापितम् ॥९९॥क्षिपेत्त्रिसप्तवाराणि म्रियते नात्र संशयः ।वैक्रान्तभस्मना सार्धं पेषयेदम्लवेतसम् ॥१००॥तद्गोले निक्षिपेद्वज्रमन्धमूषागतं धमेत् ।सेचयेदश्वमूत्रेण पूर्वगोले पुनः क्षिपेत् ॥१०१॥रुद्ध्वा ध्मातः पुनः सेच्यमेवं कुर्यात् त्रिसप्तधा ।म्रियते नात्र सन्देहः सर्वयोगेषु योजयेत् ॥१०२॥वज्रमारण (७)उत्तरावारुणीक्षीरैः कान्तपाषाणजं मुखम् ।क्षणं पिष्ट्वा तु तद्गोलं क्षिप्त्वा तस्मिन्पचेद्दिनम् ॥१०३॥नृतैले गन्धतैलेन म्रियते नात्र संशयः ।वज्रमारण (८)भूनागं गन्धकं चाथ नारीस्तन्येन पेषयेत् ॥१०४॥तद्गोलस्थं पचेद्वज्रं पूर्वतैले मृतं भवेत् ।वज्रमारण (९)स्नुहीक्षीरेण विमलां पिष्ट्वा तद्गोलके क्षिपेत् ॥१०५॥वज्रं निरुध्य मूषां तु शुष्कां तीव्राग्निना धमेत् ।क्षिप्तामश्वस्य मूत्रे तु क्षिप्त्वा वज्रं समाहरेत् ॥१०६॥इत्येवं सप्तधा कुर्यात्ततस्तालकमत्कुणैः ।पिष्ट्वा गोलं क्षिपेत्तस्मिन्वज्रमूषां निरुध्य च ॥१०७॥ध्मापितं पूर्ववत्सेच्यं सप्तवारैर्मृतं भवेत् ।वज्रमारण (१०)वज्रं मत्कुणरक्तेन लिप्त्वा लिप्त्वातपे क्षिपेत् ॥१०८॥शुष्कं लेप्यं पुनः शोष्यं यावत्सप्तदिनावधि ।विष्णुक्रान्तापेटकार्योर् द्रवैः सिञ्चेत्पुनः पुनः ॥१०९॥तप्तं तप्तं च तद्वज्रं शतवारैर्मृतं भवेत् ।वज्रमारण (११)गन्धकं चूर्णितं भाव्यं स्त्रीपुष्पेण तु सप्तधा ॥११०॥पुनः स्त्रीरजसालोड्यं तस्मिन् वज्रं सुतापितम् ।सेचयेत्तापयेदेकविंशद्वारान्मृतं भवेत् ॥१११॥वज्रमारण (१२)वज्रं नदीमहाशुक्तौ क्षिप्त्वा भाव्यं मुहुर्मुहुः ।स्नुह्यर्कोत्तमकन्यानां द्रवेणैकेन चातपे ॥११२॥कृष्णककटमांसेन पेषितं वेष्टयेत्पुनः ।भूनागस्य मृदा सम्यग्धृतं भस्मत्वमाप्नुयात् ॥११३॥वज्रमारण (१३)रक्तमूलस्य मूलैश्च मेघनादस्य कुड्मलैः ।पेषितैर्वेष्टितं ध्मातं वज्रं भस्म भवत्यलम् ॥११४॥वज्रमारण (१४)मातुलुङ्गगतं वज्रं रुद्ध्वा लिम्पेन्मृदा बहिः ।पुटे पचेत्समुद्धृत्य तद्वच्छतपुटे पचेत् ॥११५॥वज्रमृदूकरण (१)नागपर्णीद्रवैर्लिप्तं तत्पत्रेणैव वेष्टितम् ।जानुमध्ये स्थितं यामं तद् वज्रं मृदुतां व्रजेत् ॥११६॥वज्रमृदूकरण (२)मातृवाहकबीजस्य मध्ये वज्रं विनिक्षिपेत् ।जम्बीरोदरगं वाथ दोलायन्त्रे दिनं पचेत् ॥११७॥कुलुत्थकोद्रवक्वाथे त्रैफले वा कषायके ।अहोरात्रात्समुद्धृत्य जम्बीरान्तः पुनः क्षिपेत् ॥११८॥मातृवाहकबीजे वा पचेत्प्रक्षिप्य पूर्ववत् ।पुनः क्षेप्यं पुनः पाच्यं त्रिदिनान्ते समुद्धरेत् ॥११९॥बदरीवटनिम्बानामङ्कुराणि समाहरेत् ।पिष्ट्वा तद्गोलके वज्रं पूर्वपक्वं विनिक्षिपेत् ॥१२०॥अश्वत्थपत्रके वेष्ट्य तद्गोलं जानुमध्यगम् ।दिनं वा धारयेत्कक्षे मृदुर्भवति निश्चितम् ॥१२१॥वज्रमृदूकरण (३)पारदं तीक्ष्णचूर्णं च दिनमम्लेन मर्दयेत् ।तद्गोले निक्षिपेद्वज्रं सूत्रेणावेष्टयेद्बहिः ॥१२२॥नागवल्लीदलैश्चैव वेष्टितं धान्यराशिगम् ।मासान्ते तत्समुद्धृत्य लिम्पेन्नागलताद्रवैः ॥१२३॥तद्दलैर्वेष्टितं जानुमध्यस्थं मृदुतां व्रजेत् ।वज्रमृदूकरण (४)कान्तपाषाणवक्त्रं वा चूर्णं वा कान्तलोहजम् ॥१२४॥ससूतमम्लयोगेन दिनमेकं विमर्दयेत् ।तद्गोले निक्षिपेद्वज्रं निम्बकार्पासकोद्रवैः ॥१२५॥पत्रैः पिष्टैः सुसंपेष्य नागवल्लीदलैस्ततः ।वेष्टितं जानुमध्यस्थं दिनान्ते मृदुतां व्रजेत् ॥१२६॥वज्रमृदूकरण (५)एरण्डवृक्षमध्ये तु तत्फले वा क्षिपेत्पविम् ।मासमात्रात्समुद्धृत्य जानुमध्ये च पूर्ववत् ॥१२७॥कोमलं जायते वज्रं दिनान्ते नात्र संशयः ।वज्रमृदूकरण (६)वज्रं तित्तिरिमांसेन वेष्टितं निक्षिपेन्मुखे ॥१२८॥अतिस्थूलस्य भेकस्य मुखं सूत्रेण वेष्टयेत् ।निखनेद्धस्तमात्रायां क्षोण्यां मासात्समुद्धरेत् ॥१२९॥मण्डूकं सम्पुटे रुद्ध्वा सम्यग्गजपुटे पचेत् ।तद्वज्रं पूर्वगोलस्थं जानुमध्यगतं दिनम् ॥१३०॥भवेद्वज्रौदनं साक्षात्पश्चादाहार्य योजयेत् ।सर्ववज्रौदनानां तु मारणं पूर्ववद्भवेत् ॥१३१॥वज्रद्रुतिक्षारत्रयं रामठं च चणकाम्लाम्लवेतसम् ।ज्वालामुखीं चेक्षुरकं स्थलकुम्भीफलानि च ॥१३२॥स्नुह्यर्कपयसा श्लक्ष्णं पिष्ट्वा तद्गोलके क्षिपेत् ।वज्रं विशोधितं सम्यग्वस्त्रे बद्ध्वा हठात्पचेत् ॥१३३॥डोलायन्त्रेण धान्याम्ले द्रुतं मासाष्टकाद्भवेत् ।वज्रवल्ल्यन्तरस्थं वा कृत्वा वज्रं निरोधितम् ॥१३४॥अम्लभाण्डगतं सेच्यं सप्ताहाद् द्रवतां व्रजेत् ।भस्मौदनं द्रुतिश्चेति त्रिविधं वज्रमारणम् ॥१३५॥रसबन्धकरं प्रोक्तं नागार्जुनपुरःसरैः ।वज्रगुणाःवज्रं च षड्रसोपेतं सर्वरोगापहारकम् ॥१३६॥सर्वाघशमनं सौख्यं देहदार्ढ्यं रसायनम् ।वज्रं रत्नोत्तमं पुण्यं श्रीसौभाग्यविवर्धनम् ॥१३७॥आयुष्यं धन्यमोजस्यं यशस्यं सर्वपाप्मजित् ।आयुर्बलं देहसौख्यं रूपं कान्तिं करोति च ॥१३८॥सेवितं हन्ति रोगांश्च मृतं वज्रं न संशयः ।नीलनीलस्तु सौरिरत्नं स्यान्नीलाश्मा नीलरत्नकः ॥१३९॥नीलोपलस्तृणग्राही महानीलः सुनीलकः ।इन्द्रनीलमणिस्तत्र चतुर्धा जातिभेदतः ॥१४०॥सप्फिरे > सुब्त्य्पेस् > चस्तेसितच्छायो भवेद्विप्रो रक्तः क्षत्रियजातिकः ।पीतस्तु वैश्यजातिर्यो वृषलः कृष्णदीधितिः ॥१४१॥नीलस्य गुणदोषाःनीलीरससमाभासा वैष्णवीपुष्पसंनिभा ।लवलीपुष्पसङ्काशा नीलेन्दीवरसप्रभा ॥१४२॥अतसीपुष्पसङ्काशा चाषपक्षसमद्युतिः ।कृष्णत्रिकर्णिकापुष्पसमानद्युतिधारिणी ॥१४३॥मयूरकण्ठसच्छाया शम्भोः कण्ठनिभा तथा ।विष्णुदेहसमाभासा भृङ्गपत्रसमप्रभा ॥१४४॥एताश्छायाः शुभकरा इन्द्रनीलमहामणेः ।गुरुत्वं स्निग्धकान्तित्वं सुरागं पार्श्वरञ्जनम् ॥१४५॥तृणग्राहित्वमित्येते गुणाः पञ्च प्रकीर्तिताः ।न विम्लो निर्मलो गात्रो मसृणो गुरुदीप्तिकः ॥१४६॥तृणग्राही मृदुर्नीलो दुर्लभो लक्षणान्वितः ।इन्द्रनीलं शुभं वर्ण्यं सर्वपापनिबर्हणम् ॥१४७॥आयुर्यशो बलं लक्ष्मीमारोग्यं च प्रयच्छति ।नीलः सतिक्तकोष्णश्च कफपित्तानिलापहः ॥१४८॥यो दधाति शरीरेऽस्य सौरिर् मङ्गलदो भवेत् ।गोमेदकगोमेदकस्तु गोमेदो राहुरत्नं तमोमणिः ॥१४९॥स्वर्भानवः षडाह्वोऽयं पिङ्गस्फटिक इत्यपि ।गोमूत्राभं यन्मृदु स्निग्धमुष्णं शुद्धच्छायं गौरवं यच्च धत्ते ।हेमारक्तं श्रीमतां योग्यमेतत् गोमेदाख्यं रत्नम् आख्याति सन्तः ॥१५०॥मधुबिन्दुसमच्छायं गोमूत्राज्यसमप्रभम् ॥१५१॥हेमरक्तं गुरु स्वच्छं स्निग्धं गोमेदकं शुभम् ।श्वेतं कृष्णं रङ्गहीनं त्रासरेखादिदूषितम् ॥१५२॥कर्कशं पाटलाकारं दुष्टं गोमेदकं त्यजेत् ।गोमेदगुणाःमेध्यं गोमेदकं रत्नं यशस्यं श्रीविवर्धनम् ॥१५३॥मङ्गल्यं कान्तिजननं स्निग्धं सर्वविषापहम् ।गोमेदकोऽम्लमुष्णं च वातकोपविकारजित् ॥१५४॥दीपनं पाचनं चैव धृतोऽयं पापनाशनः ।वैडूर्यवैडूर्यं केतुरत्नं च खशब्दाङ्कुरजं तथा ॥१५५॥विडूरभूमिजं रत्नं प्रावृष्यं पञ्चनाम च ।कल्पान्तकालक्षुभिताम्बुराशिनिदाहकल्पाद् दितिजेन्द्रनादात् ।वैडूर्यमुत्पन्नमनेकवर्णं शोभाभिरामद्युतिरत्नवर्यम् ॥१५६॥अविदूरे विडूरस्य गिरेर् उत्तुङ्गरोधसः ॥१५७॥कोङ्कचोलकसीमान्ते मणेस्तस्याकरः स्मृतः ।तत्र दैत्येन्द्रनिनदं प्रति मेघसुगर्जितैः ॥१५८॥समुद्भवन्ति वैडूर्यमणयः प्रावृडागमे ।सिताभ्रधूमसङ्काशमीषत्कृष्णं सितं तु यत् ॥१५९॥वैडूर्यं नाम तत्प्रोक्तं रत्नवर्णपरीक्षकैः ।वेणुपत्रबिडालाक्षिशिखिकण्ठसमद्युति ॥१६०॥स्निग्धगात्रं गुरु स्वच्छं वैडूर्यं गुणवन्मतम् ।रेखाभिन्नं लघु स्पष्टं शिलाङ्गारककर्दमम् ॥१६१॥विवर्णं परुषं कृष्णं वैडूर्यं दोषवत्त्यजेत् ।वैडूर्यलक्षणवैडूर्यं विशदं स्निग्धं प्रीत्यायुर्बलवर्धनम् ॥१६२॥मङ्गल्यं धारणात्तद्धि सर्वग्रहविषापहम् ।वैडूर्यमम्लमुष्णं च कफमारुतनाशनम् ॥१६३॥गुल्मशूलप्रशमनं भूषितं च शुभावहम् ।पञ्चरत्नानिमाणिक्यं मौक्तिकं वज्रं नीलं मरकतं तथा ॥१६४॥पञ्चरत्नम् इति प्रोक्तं पाप्मालक्ष्मीविषापहम् ।नवरत्नानिगोमेदकं पुष्परागं वैडूर्यमपि विद्रुमम् ॥१६५॥पञ्चरत्नैः सहैतानि नवरत्नानि निर्दिशेत् ।सूर्यकान्तअथ भवति सूर्यकान्तः तपनमणिस्तापनश्च रविकान्तः ।दीप्तोपलोऽग्निगर्भो ज्वलनाश्मार्कोपलश्च वसुनामा ॥१६६॥स्फटिकश्वेताभ्रकसमं वर्णैर्हिमाद्रौ चन्द्रसन्निभम् ॥१६७॥निर्मलं च प्रभायुक्तं स्फटिकं श्रेष्ठमुच्यते ।हिमालये सिंहले च विन्ध्ये रेवातटे तथा ॥१६८॥पद्मरागोद्भवे स्थाने विविधं स्फटिकं भवेत् ।सूर्यकान्तं च तत्रैकं चन्द्रकान्तं तथापरम् ॥१६९॥सूर्यांशुस्पर्शमात्रेण वह्निं वमति तत्क्षणात् ।सूर्यकान्तं तदाख्यातं स्फटिकं रत्नवेधितम् ॥१७०॥सूर्यकान्तो भवेदुष्णो निर्मलश्च रसायनम् ।वातश्लेष्महरो मेध्यः पूजनाद्रवितुष्टिदः ॥१७१॥चन्द्रकान्तइन्दुकान्तश्चन्द्रकान्तश्चन्द्राश्मा संस्रवोपलः ।शीताश्मा चन्द्रिकाद्रावः शशिकान्तश्च सप्तधा ॥१७२॥स्निग्धं श्वेतं पीतम् अत्रासमन्ताद् धत्ते चित्तं स्वस्थतां यन्मुनीनाम् ।यच्च द्रावं याति चन्द्रांशुसङ्गे जात्यं रत्नं चन्द्रकान्ताख्यमेतत् ॥१७३॥चन्द्रकान्तस् तु शिशिरः स्निग्धः पित्तास्रदाहनुत् ।शिवप्रीतिकरः स्वच्छो ग्रहालक्ष्मीविषापहः ॥१७४॥स्फटिकस्फटिकः सितोपलः स्याद् अमलमणिस् तारकोपलः स्वच्छः ।शीतोष्णवीर्यम् अक्ष्णः पित्तं वातं निहन्ति शोफघ्नम् ॥१७५॥पुरा प्रोक्तं हि कान्तस्य मया ते लक्षणादिकम् ।वैक्रान्तं चैव विक्रान्तं नीलवज्रं कुवज्रकम् ॥१७६॥गोनासं क्षुद्रकुलिशं चूर्णवज्रं च गोनसम् ।श्वेतो रक्तश्च पीतश्च नीलः पारावतच्छविः ॥१७७॥श्यामलः कृष्णवर्णश्च कर्बुरश्चाष्टधा हि स ।वज्राभावे तु वैक्रान्तं रसवीर्यादिके समम् ॥१७८॥अष्टास्रश् चाष्टफलकः षट्कोणो मसृणो गुरुः ।शुद्धमिश्रितवर्णैश्च युक्तो वैक्रान्त उच्यते ॥१७९॥कुलुत्थक्वाथसंस्विन्नो वैक्रान्तः परिशुध्यति ।त्रिक्षारैः पञ्चलवणैर्वसामूत्राम्लकोद्रवैः ॥१८०॥मत्स्यतैलघृतैस्तुल्यैः कुलुत्थैः काञ्जिकान्वितैः ।सप्ताहं दोलिकायन्त्रे व्याघ्रीकन्दगतं पचेत् ॥१८१॥वैक्रान्तभस्मतप्तवर्णं तु वैक्रान्तं शुद्धिमायाति निश्चितम् ।हयमूत्रेण तत्सेच्यं तप्तं तप्तं द्विसप्तधा ॥१८२॥ततश्चोत्तरवारुण्याः पञ्चाङ्गैर् गोलके क्षिपेत् ।रुद्ध्वा मूषां पुटे पक्त्वा पुनरुद्धृत्य गोलके ॥१८३॥क्षिप्त्वा रुद्ध्वा पुटेदेवं सप्तधा भस्मतां व्रजेत् ।वैक्रान्तसत्त्व (१)वैक्रान्तस्य पलैकं तु पलैकं टङ्कणस्य च ॥१८४॥रविक्षीरे दिनं भाव्यं मर्द्यं शिग्रुद्रवैर्दिनम् ।गुञ्जापिण्याकवह्नीनां प्रतिकर्षं वियोजयेत् ॥१८५॥अनेन गुलिका कृत्वा कोष्ठीयन्त्रे धमेद्दृढम् ।शङ्खकुन्देन्दुसङ्काशं सत्वं वैक्रान्तजं भवेत् ॥१८६॥वैक्रान्तसत्त्व (२)वैक्रान्तं वज्रकन्दं च समं स्नुक्पयसा सह ।महिषीनवनीतं च सक्षौद्रं मर्दयेद्दिनम् ॥१८७॥पूर्ववद्धमनात्सत्वमिन्द्रगोपनिभं भवेत् ।वैक्रान्तसत्त्व (३)वन्ध्याचूर्णं सवैक्रान्तं छायायां मर्दयेत्समम् ॥१८८॥अजामूत्रैर्दिनैकं तु सत्त्वं रजतवद्भवेत् ।वैक्रान्तसत्त्व (४)म्रियते ऽष्टपुटैर्गन्धनिम्बुकद्रवसंयुतः ॥१८९॥सत्त्वपातनयोगेन मर्दितश्च वटीकृतः ।मूषायां घटिकां ध्मातो वैक्रान्तः सत्त्वमुत्सृजेत् ॥१९०॥वैक्रान्तद्रुतिश्वेतवर्णं तु वैक्रान्तमम्लवेतसभावितम् ।सप्ताहान्नात्र सन्देहः खरे घर्मे द्रवत्यलम् ॥१९१॥केतकीस्वरसं तुत्थं सैन्धवं स्वर्णपुष्पिकम् ।इन्द्रगोपसमं युक्तं सर्वं भाण्डे विनिक्षिपेत् ॥१९२॥सप्ताहं स्वेदयेत्तस्मिन्वैक्रान्तं द्रवतां व्रजेत् ।आयुःप्रदश्च बलवर्णकरोऽतिवृष्यः प्रज्ञाप्रदः सकलदोषमदापहारी ।दीप्ताग्निकृत् पविसमानगुणस्तरस्वी वैक्रान्तकः खलु वपुर्बललोहकारी ॥१९३॥राजावर्तआवर्तमणिरावर्तो राजावर्तोऽनलाह्वयः ॥१९४॥राजावर्तरसस्याथ लक्षणं कथयाम्यहम् ।वर्णेन भ्रमराभः स्याद् द्विःप्रकारः प्रकर्मतः ॥१९५॥एकश्चूर्णाकृतिर्ज्ञेयो द्वितीयो गोलकात्मकः ।स्वर्णबिन्दुसमायुक्तः स्थिररागः स्थिरत्वदः ॥१९६॥रसदोद्भवरागस्य वर्णोत्कर्षेऽतिदक्षिणः ।नागस्य रञ्जने श्रेष्ठस्तारे रञ्जनकर्मणि ॥१९७॥सर्वेषां चलरागाणां रागबन्धनकृन्मतः ।राजावर्तो ऽल्परक्तोरुनीलिकामिश्रितप्रभः ॥१९८॥गुरुश्च मसृणः श्रेष्ठस्तदन्यो मध्यमः स्मृतः ।निम्बुद्रवैः सगोमूत्रैः सक्षारैः स्वेदिताः खलु ॥१९९॥द्वित्रिवारेण शुध्यन्ति राजावर्तादिधातवः ।राजावर्तभस्मलुङ्गाम्बुगन्धकोपेतो राजावर्तो विचूर्णितः ॥२००॥पुटनात् सप्तवारेण राजावर्तो मृतो भवेत् ।राजावर्तसत्त्वराजावर्तम् अयःपात्रे पाचयेन्माहिषैर्घृतैः ॥२०१॥पयोभिश्च दिनं चैकं मित्रपञ्चकमिश्रितम् ।रजन्या पञ्चरात्रेण पिण्डीभूतं तु कारयेत् ॥२०२॥खादिराङ्गारयोगेन कोष्ठ्यां सत्वं विमुञ्चति ।प्रमेहक्षयदुर्नामपाण्डुश्लेष्मानिलापहः ॥२०३॥दीपनः पाचनो वृष्यो राजावर्तो रसायनः ।गरुडोद्गारसस्यको गरुडोद्गारः कालजिद् विषसारकः ॥२०४॥कालकूटविषं पीत्वा गरुडः सोढुमक्षमः ।तदा निर्गत्य तच्चञ्चोर् बहुधा सस्यकोऽभवत् ॥२०५॥महारसः सस्यकः स्यात्प्रभाभिः पञ्चभिर्युतः ।धवलो मेचकः पीतो हरितश्चातिलोहितः ॥२०६॥अतिस्थितो वीतिहोत्रः सर्वतः सर्वरूपभाक् ।धवलो हरितश्चैव शस्यते तारकर्मणि ॥२०७॥लोहितो मेचकः पीतः शस्यते हेमकर्मणि ।सस्यकः सर्वरोगघ्नो विषमृत्युभयापहः ॥२०८॥विमलविमलो निर्मलः स्वच्छो विमलः स्वच्छधातुकः ।बाणसंख्याभिधं शस्तं तारहेम द्विधाकृतः ॥२०९॥विमलस्त्रिविधः प्रोक्तो हेमाद्यस्तारपूर्विकः ।तृतीयः कांस्यविमलस्तत्र कान्त्या स लक्ष्यते ॥२१०॥वर्तुलः कोणसंयुक्तः स्निग्धश्च फलकान्वितः ।मरुत्पित्तहरो वृष्यो विमलोऽतिरसायनः ॥२११॥पूर्वो हेमक्रियासूक्तो द्वितीयो वृष्यकर्मणि ।तृतीयो भेषजे तेषु पूर्वपूर्वो गुणोत्तरः ॥२१२॥विमलशुद्धिआटरूषरसे स्विन्नो विमलो विमलो भवेत् ।कदलीकन्दतोयेन विमलं प्रथमं पचेत् ॥२१३॥अम्लवेतसधान्याम्लमेषीमूत्रे ततः पचेत् ।डोलायन्त्रे चतुर्यामं शुद्धिरेषां महोत्तमा ॥२१४॥कार्कोटीमेषशृङ्ग्युत्थैर् द्रवैर् जंबीरजैर् दिनम् ।भावयेदातपे तीव्रे विमला शुध्यति ध्रुवम् ॥२१५॥विमलसत्त्वविमलं शिग्रुतोयेन कांक्षीकासीसटङ्कणैः ।वज्रकन्दसमायुक्तैर्भावयेत्कदलीरसैः ॥२१६॥मोक्षकक्षारसंयुक्तमन्धमूषागतं धमेत् ।सत्वं चन्द्रार्कसङ्काशं पतत्यस्य न संशयः ॥२१७॥पेरोजहरिताश्मा च पेरोजो विषारातिर्हरिन्मणिः ।रसवीर्यविपाकेषु सस्यकस्य गुणानुगः ॥२१८॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP