संस्कृत सूची|शास्त्रः|आयुर्वेदः|आनन्दकन्द|रसविद्या प्रकार २| भाग ३ रसविद्या प्रकार २ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० रसविद्या - भाग ३ रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद. Tags : anandakandchemistryVedआनंदकंदआयुर्वेदरसविद्या भाग ३ Translation - भाषांतर श्रीभैरवः ।रौप्यं शुभ्रं वसुश्रेष्ठं रुचिरं चन्द्रलोहकम् ।रजतं तप्तरूप्यं च चन्द्रभूतिस्तु रौप्यकम् ॥१॥कलधौतं च सौधं च चन्द्रहासं च तारकम् ।रजतभेदाःसहजं खनिसंजातं कृत्रिमं च त्रिधा मतम् ॥२॥रजतं पूर्वपूर्वं हि स्वगुणैरुत्तरोत्तरम् ।कैलासाद्यद्रिसम्भूतं सहजं रजतं भवेत् ॥३॥तत्स्पृष्टं हि महाव्याधिनाशनं देहिनां भवेत् ।हिमाचलादिकूटेषु यद्रूप्यं जायते हि तत् ॥४॥खनिजं कथ्यते तज्ज्ञैः परमं हि रसायनम् ।श्रीरामपादुकान्यस्तं वङ्गं यद्रूप्यतां गतम् ॥५॥तत्पादरूप्यमित्युक्तं कृत्रिमं सर्वरोगनुत् ।ग्राह्याग्राह्यरजतस्वरूपम्घनं स्निग्धं गुरु स्निग्धं दाहे छेदे सितं मृदु ॥६॥वर्णाढ्यं चन्द्रवत्स्वच्छं दाहे छेदे समप्रभम् ।शङ्खाभं मसृणं स्फोटरहितं रजतं शुभम् ॥७॥दाहे रक्तं च पीतं च कृष्णं रूक्षं स्फुटं लघु ।स्थूलाङ्गं कर्कशाङ्गं च रजतं त्याज्यमष्टधा ॥८॥कठिनं कृत्रिमं रूक्षं विवर्णं समलं दलम् ।दाहे छेदे घने नष्टं मध्यमं रजतं मतम् ॥९॥करोति तापं विड्भेदं क्षयं शुक्लबलायुषाम् ।न शुद्धं न मृतं तारं तस्माच्छुद्धं च मारयेत् ॥१०॥रजतशुद्धिनागेन टङ्कणेनैव द्रावितं शुद्धिमृच्छति ।तारं त्रिवारं निक्षिप्तं तैले ज्योतिष्मतीभवे ॥११॥तप्तं तप्तं तारपत्रं सेचयेच्छुद्धिम् आप्नुयात् ।पिशाचसंभवे यद्वा प्रक्षिप्तं शुद्धिमाप्नुयात् ॥१२॥रजतं दोषनिर्मुक्तं नागोत्तीर्णं समाहरेत् ।श्वेतकुम्भोद्भवे नीरे ढालयेत्सप्तवारकान् ॥१३॥रजतभस्म (१, २, ३)कुरण्डमुनिपुष्पोत्थसलिलैः संप्रमर्दयेत् ।तारपत्राणि लिप्तानि पुटयेच्च वनोत्पलैः ॥१४॥म्रियते नात्र सन्देहः लिप्तं वा रसभस्मना ।अम्लवर्गप्रलिप्तेन पूर्ववत्पुटयोगतः ॥१५॥म्रियते तालकं सूतं वङ्गमम्लेन पेषयेत् ।तारपत्राणि संलिप्य पुटित्वा भस्मतां नयेत् ॥१६॥म्रियते गन्धयोगाद्यैर् वैष्णवेन विपद्यते ।रजतभस्म (४)स्नुहीक्षीरैः पचेत्ताप्यं तारपत्राणि लेपयेत् ॥१७॥रुद्ध्वा गजपुटे पक्त्वा पूर्वोक्तैः पाचयेत्पुनः ।चत्वारिंशत्पुटैरेवं पचेत्तारं मृतं भवेत् ॥१८॥रजतभस्म (५)भूधात्रीं माक्षिकं तुल्यं पिप्पलीं सैन्धवाम्लकैः ।लिप्त्वा तारस्य पत्राणि रुद्ध्वा सप्तपुटैः पचेत् ॥१९॥द्रवैः पुनः पुनः पिष्ट्वा म्रियते नात्र संशयः ।रजतभस्म (६)लिकुचद्रवसूताभ्यां तारपिष्टीं प्रकल्पयेत् ॥२०॥रुद्ध्वाधो गन्धकं दत्त्वा मूषागर्भे निरुध्य च ।स्वेदयेद् वालुकायन्त्रे दिनमेकं दृढाग्निना ॥२१॥स्वाङ्गशीतलतां पिष्टिं साम्लतालेन मर्दितम् ।पुटेद्द्वादशवाराणि भस्मीभवति रूप्यकम् ॥२२॥रजतभस्म (७)माक्षिकं चूर्णलुङ्गाम्लमर्दितं पुटितं शनैः ।त्रिंशद्वारेण तत्तारं निरुत्थं भस्म जायते ॥२३॥रागः स्यात् सर्वलोहानां पुटाधिक्ये न संशयः ।रजतभस्म (८)तारपत्त्रं चतुर्भागा भागैकं शुद्धतालकम् ॥२४॥मर्द्यं जम्बीरजैर्द्रावैस्तारपत्राणि लेपयेत् ।शोषयेदन्धयेत्तं च त्रिंशद्वनोत्पलैः पुटेत् ॥२५॥चतुर्दशपुटैरेवं निरुत्थं म्रियते ध्रुवम् ।रजतभस्म (९)रौप्यपत्रं चतुर्भागा भागैकं मृतवङ्गकम् ॥२६॥अथवा गन्धभागैकं लेप्यं जम्बीरपेषितैः ।रुद्ध्वा त्रिभिः पुटैः पाच्यं पञ्चविंशद्वनोत्पलैः ॥२७॥म्रियते नात्र सन्देहो गन्धो देयः पुनः पुनः ।रजतभस्म (१०)रसगन्धौ समं कृत्वा काकतुण्डस्य मूलकम् ॥२८॥मर्दयेन्महिषीक्षीरैः पिष्टिं तां क्षालयेज्जलैः ।हरिद्रागोलके क्षिप्त्वा गोलं हयपुरीषके ॥२९॥क्षिप्त्वा दिनैकविंशच्च तद्गर्भाद् उद्धरेत्पुनः ।तत्पिष्ट्वा तारपत्राणि लेप्यमम्लेन केनचित् ॥३०॥पुटैर् विंशतिभिर् भस्म जायते नात्र संशयः ।भस्मना ह्यम्लपिष्टेन लिम्पेत्ताम्रमयं क्षुरम् ॥३१॥जायते तं मृतं विद्याद्भस्म हाटकतारयोः ।रजतस्य गुणाःरौप्यं स्निग्धं कषायाम्लं विपाके मधुरं रसम् ॥३२॥वयसः स्थापनं शीतं लेखनं वातपित्तजित् ।वृष्यं रुचिकरं बल्यं जठराग्निप्रदीपनम् ॥३३॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP