संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|द्वयशीतितमः पटलः| हाकिनीपरशिवपूजनम् ६ द्वयशीतितमः पटलः हाकिनीपरशिवपूजनम् १ हाकिनीपरशिवपूजनम् २ हाकिनीपरशिवपूजनम् ३ हाकिनीपरशिवपूजनम् ४ हाकिनीपरशिवपूजनम् ५ हाकिनीपरशिवपूजनम् ६ द्वयशीतितमः पटलः - हाकिनीपरशिवपूजनम् ६ हाकिनीपरशिवपूजनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल हाकिनीपरशिवपूजनम् ६ Translation - भाषांतर हाकिणीसदाशिवध्यानम्वेदाङोज्वलप्रभां त्रिनयानन्दैचित्तोज्वलांलावण्यं प्रियवाक्य मोहनिकरां श्रीसन्मुखीं हाकिनीम् ।चण्डालामलभलामहाखड्गप्रभापङ्कजछायापुत्रवरान् भवान् भयहरामश्रं हुयन्तीं भजे ॥१८२॥श्रीं श्रीं श्रीं भैरवेशं सुखमयपुरुषं कोटिदीपप्रकाशंकोट्यलङ्कारभूषणं त्रिजगति वरदं व्याघ्रचर्माम्बराढ्यम् ।योगीन्द्रैर्योगिमुख्यैः सुरवरतरुणैः सर्वदा पूज्यमानंपञ्चास्यं शून्यचन्द्रायत भुजकिरणं योगिचूडामणीशम् ॥१८३॥ध्यायेऽहं शरणागत प्रियतमं मायाश्रयं शङ्करंरौप्यद्रिप्रभविग्रह शवमुखं शून्येन्दुवक्त्राम्बुजम् ।षट्स्थानात्रशतार्क चन्द्रकिरणं भास्वत्त्रिनेत्रं परंनिर्वानाख्यपदप्रदं कुलकलानाथ्म भजे भ्रूदले ॥१८४॥एवं धात्वा महादेवीं हाकिनीं श्रीपरेश्वरम् ।नित्यं स्वयम्भुं नागेन्द्रघण्टामरुणादितम् ॥१८५॥महाकायकराम्भोजपूजितं पञ्चचूडिनम् ।अतिसौन्दर्यवदनं नागेन्द्रहारशोभितम् ॥१८६॥महातेजोमयं कोटिचन्द्रकान्तिस्फुरत्प्रभम् ।घर्घरध्वनिमञ्जीरहंसाकारपदाम्बुजम् ॥१८७॥वृषासनस्थं योगीन्द्र्म हाकिनीपरमेश्वरम् ।हाकिनीसुन्दरीवामशोभाविद्युत्प्रकाशिनम् ॥१८८॥अतिसौन्दर्यलहरी योगमायास्वरुपिनीम् ।कामधेनुस्वरुपाख्यां स्वकान्त्या विश्वमोहिनीम् ॥१८९॥रौप्यद्रिसदृशाकारां चित्रविद्रुमसल्लताम् ।मुक्तकेशीं मेघमाला रौप्यद्रयाच्छादनीं कियत ॥१९०॥चलद्भ्रमरकोट्यर्क चन्द्र वहिन त्रिलोचनाम् ।षण्मुखीं वेदहस्तां तु पद्मरागसमप्रभाम् ॥१९१॥पद्मरागकान्तमालाधारिणीं हेतुसुप्रियाम् ।साधकानां हितार्थाय कपालासिभयानकाम् ॥१९२॥सर्वसौभाग्यदां नित्यां डमरुजमालिकाम् ।धारयन्ती महाविद्यामानन्दोदयसाक्षिणीम् ॥१९३॥भ्रूपद्मकर्णिकामध्ये गतच्छसुपङ्कजे ।शोभारुपं संप्रहन्ती काकिनीसाकिनीप्रियाम् ॥१९४॥लाकिनीनेराकिणीध्येया डाकिनीपरिपूजिताम् ।कुण्डलीबन्धुजननीं पूजयामि महीतले ॥१९५॥एवं ध्यात्वा चार्घ्यसारं क्रमतो युगलं चरेत् ।त्रिकोणमण्डलद्वन्द्वं कृत्वाऽङ्गुलेन च ॥१९६॥तीर्थवाहनकालाद्यैः पूरयेद् गन्धकैस्ततः ।तदाद्ये चापि फट्कारैः खड्गाधारञ्च शङ्खकम् ॥१९७॥क्षालयेन्मनुनानेन श्रृणुष्व कुलभैरव ।ॐ शङ्खस्थं शङ्खं त्वं पुण्यं मङुलानाञ्च मङुलम् ॥१९८॥विष्णुना विधृतो नित्यं मम शान्तिप्रदो भव ।ॐ शङ्खाधारं शोधयामि कूर्माकारेण भास्वता ॥१९९॥विसर्ग बिन्दुसर्गेऽहं त्रिकोणे स्थापयाम्यहम् ।धेनुयोनिंम मत्स्यमुद्रां दशधा मन्त्रमाजपेत् ॥२००॥आत्मानं प्रोक्षयेदादौ ततो द्रव्यादिप्रोक्षणम् ।एवं क्रमेण देवेश देवेदेव महेश्वर ॥२०१॥अर्घ्यद्वय पुरः श्रीमान् स्थापयन् कौलिका जनः ।पूजां कुर्याद्विशेषेण रात्रिशेषे विशेषतः ॥२०२॥महामुद्रादर्शनं तु चाधुनापि समाचरेत् ।अवश्यं सिद्धिमाप्नोति हेतुयुक्तो हि साधकः ॥२०३॥महामुद्रा योनिमुद्रा सर्वतन्त्रे निरुपिता ।यो जानाति महादेव स योगी नात्र संशयः ॥२०४॥महापूजां समाकुर्याद् देवेदेव मयोदिताम् ।ध्यानयुक्तस्य या पूजा सा पूजा सफला भुवि ॥२०५॥सदा कालीपूजनवत् पूजां कुर्यात् समाहितः ।तच्च देशे समागम्य गन्धर्वनगरेऽपि वा ॥२०६॥पर्वते निर्जने वापि शून्यागारे श्मशानके ।महाविद्या कामधेनुं हाकिनीं परिपूजयेत् ॥२०७॥पाद्यमन्त्रं प्रवक्ष्यामि प्रणवं रतिसुन्दरी ।रमाबीजं महादेवि तदन्ते पाद्यमुत्तमम् ॥२०८॥गन्धोदितं गृहण हाकिन्यै हूँ द्विठः प्रभो ।एवं सर्वत्र कर्तव्यं नामभेदेन कारयेत् ॥२०९॥अष्टादशोपचारकथनम्दापयेनाभेदैश्च सर्वद्रव्याणि भैरव ।आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् ॥२१०॥मधुपर्काचमनस्नाननवसभरणानि च ।गन्धपुष्पे धूपदीपौ नैवेद्यं वन्दनं तथा ॥२११॥पानार्थं जलदानं तु बलिदानं ततः परम् ।अष्टादशोपचाराश्च सर्वतन्त्रेषु गोपिताः ॥२१२॥प्राणायामत्रयं कुर्यात् साधको निर्भयः शुचिः ।जपं कुर्याद् विशेषेण महामालाक्रंएण तु ॥२१३॥अन्यं मनुवरं नाथ श्रृणु भैरव ईश्वर ।प्रणवं प्रेतराज्म तु वहिनबीज तदुत्तरे ॥२१४॥हालाहलं महाकाल परनाथाय धीमहि ।कामबीजं हाकिनी च चतुर्थ्यन्तपदात्मिका ॥२१५॥सोऽहं हंसस्ततः स्वाहा महामन्त्रं जपेद् बुधः ।लक्षजपेन सिद्धिः स्यादज्ञानी ज्ञानवान् भवेत् ॥२१६॥असिद्धः सिद्धरुपी स्यादाख्या कीर्तिः प्रवर्धते ।महावाग्मी सर्वशास्त्रवेत्ता सर्वज्ञसिद्धिभाक् ॥२१७॥वाचां सिद्धिरष्टसिद्धिः प्रकाश्या भान्ति तत्करे ।युगयुग्मपुरश्चर्याविधानेनामरो भवेत् ॥२१८॥योगी स्यात् प्रलयस्थायी ध्यानात्मा ज्ञानावाञ्छुचिः ।अप्रकाश्यगुणी भूत्वा राजराजेश्वरो भवेत् ॥२१९॥गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।सिद्धिर्भवतु मे देवि त्वप्रसादात् परमेश्वरी ॥२२०॥इति समर्प्य तद्धस्ते हेमरुपं विचिन्तयन् ।ततः प्राणायामयुतं मन्त्रं तु त्रिगतं जपेत् ॥२२१॥बलिदानमनुं वक्ष्ये श्रृणु श्रीकुलपण्डित ।आदौ मूलं सिद्धबलिं सुधामांससमन्वितम् ॥२२२॥मीनमुद्रासमाक्रान्तमथवा मिष्टसद्बलिम् ।गृहणयुग्मं तथा गृहणापयशुग्मं द्विठस्ततः ॥२२३॥दापयेत् साधकेन्द्रश्च भक्त्या कामसुसिद्धये ।ततः स्तोत्रं पठेद्धीमान् गद्यपद्यादिभेदतः ॥२२४॥पठेच्च कवचं ब्रह्मसम्मतं देहरक्षणम् ।सहस्त्रनामसन्तानं पठेद् वा हरमुद्रया ॥२२५॥स्वस्थाने स्थापयेन्नाथ हाकिन्या परमेश्वरम् ॥२२६॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे हाकिनीपरशिवयजनं नाम द्वयशीतिमनः पटलः ॥८२॥ N/A References : N/A Last Updated : May 01, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP