संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|द्वयशीतितमः पटलः| हाकिनीपरशिवपूजनम् ३ द्वयशीतितमः पटलः हाकिनीपरशिवपूजनम् १ हाकिनीपरशिवपूजनम् २ हाकिनीपरशिवपूजनम् ३ हाकिनीपरशिवपूजनम् ४ हाकिनीपरशिवपूजनम् ५ हाकिनीपरशिवपूजनम् ६ द्वयशीतितमः पटलः - हाकिनीपरशिवपूजनम् ३ हाकिनीपरशिवपूजनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल हाकिनीपरशिवपूजनम् ३ Translation - भाषांतर श्रीकण्ठादिन्यासविधानम्मन्त्रेण पुटितं रुद्रं मातृस्थाने प्रविन्यसेत् ।श्रीकण्ठोऽनन्तसूक्ष्मेश त्रिमूर्तीशामरेशकौ ॥८५॥अर्घीशो भारभूतीशोऽतिथीशो हि ततः परम् ।स्थाणुकेशो हरेशश्च झिण्टीशो भौतिकेश्वरः ॥८६॥सद्योजातेश्वरः पश्चादनुग्राहेश्वरस्ततः ।अक्रूरेशो महासेनः सूराणामधिपेश्वरः ॥८७॥क्रोधीशश्चापि चण्डेशः पञ्चान्तकेश एव च ।शिवोक्तमेशश्चात्रापि चैकरुद्रेश्वरस्ततः ॥८८॥कूर्मेश एकनेत्रेशश्चतुरानन एव च ।अजेशश्चापि सर्वेसः सोमेशस्तदनस्तरम् ॥८९॥लाङुलीशो दारुकेशोऽर्धनारीश्वर एव च ।उमाकान्तेश्वरः पश्चादाषाढीशस्ततः परम् ॥९०॥दण्डीशो द्रीशमीनेशौ मेघेशस्तदनस्तरम् ।लोहितेशः शिखीशश्च छागलण्डेश एव च ॥९१॥द्विरण्डेशो महाकालेश्वरो वाणीश एव च ।भुजङेशः पिनाकीशः खड्गीशस्तदनन्तरम् ॥९२॥बकेश्वरश्च श्वेतशो भृग्वीशस्तदनन्तरम् ।नकुलीशः शिवेशश्च संवर्तकेश एव च ॥९३॥पञ्चाशदेकयुक्ताः स्यू रुद्राद्याः क्रोधभैरवाः ।आदौ मूलं ततो मातृवर्णमेक्म क्रमेण तु ॥९४॥मातृकास्थानमध्ये तु श्रीकण्ठदीश्वरास्ततः ।चतुर्थ्यन्ते नमः शब्दं ततो मूलं पुनः पुनः ॥९५॥इति श्री कण्ठविन्यासः कथितः कुलभैरव ।तदिदानी ग्रहन्यासं श्रृणु वक्ष्यामि तत्त्वतः ॥९६॥ह्रदये च भ्रुवोर्मध्ये लोचनत्रितये ततः ।ह्रदये च कण्ठकूपे गलदेशे ततः परम् ॥९७॥नाभिमूले मुखाम्भोजे गुह्ये च विन्यसेद् ग्रहान् ।रविसोमौ मङुलश्च बुधो बृहस्पतिस्तथा ॥९८॥शुक्रः शनैश्चः पश्चाद् राहुः केतुस्ततः परम् ।न्यसेत्तु स्वस्वमुद्रया ममोक्तस्थानमण्डले ॥९९॥ग्रहन्यासविधानम्स्वरैः सूर्यं यादिरान्तैः सोमं कादिशरैः कुजम् ।चादिपञ्चाक्षरं नाथ बुधं टादिशरैर्गुरुम् ॥१००॥डादिहान्तैस्तथा शुक्रं पादिमान्तैः शनैश्चरम् ।शादिहान्तैस्तथा राहुं लक्षाद्यां केतुमेव च ॥१०१॥लोकपालन्यासमादौ वक्ष्यामि कुलभैरव ।शिरोमण्डलमध्ये तु दक्षिणावर्तयोगतः ॥१०२॥अधःपर्यन्तमाल्यस्य मूलेन पुटितं सदा ।इन्द्राय शक्तिहस्ताय सवाहनाय ॐ नमः ॥१०३॥ह्रस्वपञ्चस्वरेणापि मूलान्त संन्यसेत् सुधीः ।एकादशस्वरेणापि युक्ताय वहनये नमः ॥१०४॥सवाहनाय सर्वास्त्रधारिणे तादृशाय च ।यमाय वाहस्थाय शूलास्त्रधारिणे नमः ॥१०५॥कादिपञ्चवर्णसारैर्मूलेन पुटिततैरपि ।कर्णे दक्षिणमूलोर्ध्वे हस्तस्य तत्त्वमुद्रया ॥१०६॥यमन्यासं प्रकृत्याशु नैऋत्ये न्यासमाचरेत् ।आदौ बीजं चादिञ्चबीजान्ते नैऋताय च ॥१०७॥वसोऽधिपतये सर्वास्त्रादिवाहनवाहिने ।नमोऽन्ते मूलमन्त्रं तु इति सर्वत्र भावना ॥१०८॥मूलं टादिपञ्चवर्णं वरुणाय ततः परम् ।सवाहनाय सर्वास्त्रधारिणे नम एव च ॥१०९॥तदन्ते मूलमन्त्रं तु वरुणाय समाचरेत् ।मूलान्ते तादिपञ्चार्ण सवाहनाय वायवे ॥११०॥सर्वास्त्रधारिणे पश्चान्नमो मूलं ततः परम् ।ततः कुर्यात् कुबेरस्य न्यासं परमदुर्लभम् ॥१११॥आदौ मूलं पादिपञ्चाक्षरमुच्चार्य साधकः ।कुबेराय सर्वास्त्रधारिणे नरवाहिने ॥११२॥नमोऽन्ते मूलमन्त्रं तु वामकर्णोपरि न्यसेत् ।आदौ मूलं पादिवान्तमीशानाय ततः परम् ॥११३॥सवाहनाय सर्वास्त्रधारिणे नम उच्चरेत् ।तदन्ते बीजविन्यासमीशानन्यास ईरितः ॥११४॥आदौ मूलं शादिहान्तं शक्रोर्ध्वे हस्तमर्पयन् ।अधोऽनन्ताय देवाय सर्वास्त्रधारिणे ततः ॥११५॥सवाहनाय ह्रच्छब्दं मूलं चापि तदन्तरे ।आदौ मूलं ततो लक्षं ब्रह्मणेऽस्त्रादिधारिणे ॥११६॥सवाहनाय ह्रच्छब्दं मूलञ्च तदनन्तरम् ।ब्रह्मरन्ध्रे प्रविन्यस्य ब्रह्मज्ञानमवाप्नुयात् ॥११७॥ N/A References : N/A Last Updated : May 01, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP