संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|द्वयशीतितमः पटलः| हाकिनीपरशिवपूजनम् ५ द्वयशीतितमः पटलः हाकिनीपरशिवपूजनम् १ हाकिनीपरशिवपूजनम् २ हाकिनीपरशिवपूजनम् ३ हाकिनीपरशिवपूजनम् ४ हाकिनीपरशिवपूजनम् ५ हाकिनीपरशिवपूजनम् ६ द्वयशीतितमः पटलः - हाकिनीपरशिवपूजनम् ५ हाकिनीपरशिवपूजनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल हाकिनीपरशिवपूजनम् ५ Translation - भाषांतर सिद्धपुरूषानाम् नामानिततः सिद्धपुरुषाणां भावनं श्रृणु शङ्कर ।मीननाथो गुरुः श्रीमान् आगस्त्यो देवराजकः ॥१५७॥कालाननः सोमराजो वीरनाथो धनञ्जयः ।कृष्णः कान्तमतिर्बुद्धी धर्मावतार एव च ॥१५८॥वशिष्ठो नारदश्चैव शुकः प्रहलाद एव च ।जनको भार्गवेशश्च कुरुक्षेत्रेश्वस्तथा ॥१५९॥विश्वामित्रो भरद्वाजो मैनाको मेरुरेव च ।अनन्तो योगनाथश्च महेन्द्रो मदिरेश्वरः ॥१६०॥ब्रह्मानन्दशिवानन्दौ सनकानन्द एव च ।सर्वेश्वरः कामदेवः शुक्राचार्यः कुलेश्वरः ॥१६१॥इति सिद्धपुरुषाणां ध्यानं कृत्वा विभावयेत् ।रक्तवर्णं महसत्त्वं पुरुषं सर्वभूषणम् ॥१६२॥विभाव्य ध्यानमाकुर्याद् हाकिनीपरदेवयोः ।आदौ श्रीपरदेवस्य ध्यानं श्रृणु महेश्वर ॥१६३॥शुक्लाभं परमेश्वर परशिवं सूक्ष्मातिसूक्ष्मं गुरुं सर्वाऽलङ्कृतविग्रहं त्रिजगतां सारं परं निर्मलम् ।अद्वैतं दशहस्तपङ्कजतलं श्रीदं त्रिनेत्रं शिवंदेवेन्द्रैः परिपूजितं सुखमय्म सच्चित्परानन्ददम् ॥१६४॥ध्यायेत् पञ्चमुखं महास्त्रवरदं भक्तैः सदा पूजितम् ॥१६५॥परदेवतापञ्चमुखशिवध्यानम्एवं ध्यात्वा परनाथं मानसोग्रोपचारतः ।पूजयित्वा नमस्कृत्य हाकिनीध्यानमाचरेत् ॥१६६॥त्रैलोक्योत्सववन्दितां त्रिजगतामानन्दपूर्णोदयांनानाऽलङ्कृतभूषणां सुमुकुटोल्लासैकबीजप्रभाम्श्यामां मोक्षदवेदहस्तकमलां कारुण्यवारानिधिशोभामण्डलमण्डितां पथि भजे श्री हाकिनीमीश्वरीम् ॥१६७॥अस्याः सप्तकुलध्यानं पश्चाद् वक्तव्यमेव च ।महमुद्रादर्शनं तु चेदानीं श्रृणु भैरव ॥१६८॥योनिमुद्रा महामुद्रा सर्वतन्त्रेषु गोपिता ।तया चावाहनं कुर्यात् साधको निश्चलात्मना ॥१६९॥अर्घ्यद्वयं स्थापयित्वा पूर्वचक्र क्रमेण तु ।पुनर्ध्यात्वा तयोः पादाम्भोजे दद्यात् सदाशिवः ॥१७०॥ऋषिध्यानम्षोडशोपचारद्रव्यैस्ततः सम्पूजयेत् सुधीः ।ऋषिध्यानं प्रवक्ष्यामि यस्य मूघ्नि प्रविन्यसेत् ॥१७१॥मूर्तं सदाशिवं देवं नानालङ्कारभूषितम् ।द्विभुजं पीतवसनं धर्माधर्मप्रदर्शकम् ॥१७२॥वराभयकरं शान्तं हाकिनीशिरसि स्थितम् ।विभाव्य पूजयेत् तत्र गन्धपुष्पादिभिः प्रभो ॥१७३॥जीवसंस्कारकथनम्जीवसंस्कारमावक्ष्ये येन जीवस्थितिर्भवेत् ।स्वह्रदये दक्षहस्ते तत्र मुद्राक्रमेण तु ॥१७४॥हाकिनीपरदेवस्य मन्त्रं स्मृत्वा पुनः पुनः ।स्थापयामि स्वचित्तं मे हाकिन्या सह सम्पदैः ॥१७५॥स्थिरो भव महाजीव ममाज्ञां परिपालय ।स्वाहान्तं मन्त्रमुच्चार्य जीवं संस्कारयेत् ततः ॥१७६॥जीवदानतो वक्ष्येः हाकिनीपरदेवयोः ।आदौ श्रीहाकिनीदेव्या जीवदानं श्रृणु प्रभो ॥१७७॥आं ह्रीं क्रा. बीजमुच्चार्य पूर्ववज्जीवसंस्थितिम् ।एकाविंशातिवारं तु हाकिनीह्रदये जपेत् ॥१७८॥स्वाहान्तेनापि मनुना जीवसंस्कार ईरितः ।एवं श्रीपरदेवस्य प्राणदानमुदाह्रतम् ॥१७९॥पुनर्ध्यानं प्रवक्ष्यामि श्रृणु भैरव बल्लभ ।यां ध्यात्वा सर्वग्रन्थीना स्वयं भेत्ता स्वयं हरिः ॥१८०॥अर्घ्यविन्यासयुगलं श्रृणु भद्रोदर प्रभो ॥१८१॥ N/A References : N/A Last Updated : May 01, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP