संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|द्वयशीतितमः पटलः| हाकिनीपरशिवपूजनम् ४ द्वयशीतितमः पटलः हाकिनीपरशिवपूजनम् १ हाकिनीपरशिवपूजनम् २ हाकिनीपरशिवपूजनम् ३ हाकिनीपरशिवपूजनम् ४ हाकिनीपरशिवपूजनम् ५ हाकिनीपरशिवपूजनम् ६ द्वयशीतितमः पटलः - हाकिनीपरशिवपूजनम् ४ हाकिनीपरशिवपूजनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल हाकिनीपरशिवपूजनम् ४ Translation - भाषांतर शिवशक्तिन्यासविधानम्इति दिक्पालविन्यासः कथितः कालभैरव ।शिवशक्तिन्यासजालं श्रृणुष्व परमाद्भुतम् ॥११८॥यस्य करणमात्रेण षट्चक्रभेदको भवेत् ।आदौ स्थानं प्रवक्ष्यामि यत्र न्यासं स्वमुद्रया ॥११९॥मूलाधारपद्ममध्ये स्वाधिष्ठानाम्बुजे ततः ।मणिपूरे महापद्मे ह्रदयाम्भोजमण्डले ॥१२०॥कण्ठे विशुद्धपद्मे च तथा भ्रूपद्मण्डले ।एतेषु षट्सु पद्मेषु शक्तियुक्तं शिवं न्यसेत् ॥१२१॥आदौ मूलं वादिसान्तं डाकिनीसहिताय च ।ब्रह्मणे नम उच्चार्य मूलमन्त्रं ततः परम् ॥१२२॥आदौ मूलं बादिलान्तं राकिणीसहिताय च ।विष्णवे नम उच्चार्य मूलविद्यां ततो वदेत् ॥१२३॥आदौ मूलं डादिफान्तं लाकिनीसहिताय च ।रुद्राय नम उच्चार्य ततो मूलं प्रविन्यसेत् ॥१२४॥आदौ मूलं कादिठान्तं काकिनीसहिताय च ।ईश्वराय नमो मूलं विन्यसेत् साधकाग्रणीः ॥१२५॥आदौ मूलं स्वरान् पश्चात् शाकिनीसहिताय च ।सदाशिवाय ह्रच्छब्दं मूलमुच्चार्य विन्यसेत् ॥१२६॥आदौ मूलं ततो हं क्षं हाकिनीसहिताय च ।ततः परशिवायान्ते नमो मूलं प्रविण्यसेत् ॥१२७॥शिवशक्तिन्यासमेवं कथितं तव यत्नतः ।इदानीं शक्तिविन्यासं कथयामि श्रृणुष्व तत् ॥१२८॥ब्रह्मारन्ध्रे ललाटे च भ्रूमध्ये कण्ठगहवरे ।ह्रदये नाभिमूले च लिङुमूले स्वमूलके ॥१२९॥ऊरुमूले तथा जङ्वायुगले विन्यसेत् सुधीः ।पादद्वये तथा गुह्ये युगले पादयोस्तले ॥१३०॥शक्तिविनासकथनम्क्रमेण विन्यसेद्धीमान् मूलमन्त्रेण सम्पुटम् ।शक्तिनाम श्रृणु प्राणवल्लभ प्राणरक्षक ॥१३१॥शक्तिर्माया रमादेवी भवानी दीनवत्सला ।सुमना काकिनी हंसी तथा संसारतारिणी ॥१३२॥योगिनी गोपिका माला वज्राख्या चित्रिणी तथा ।नटिनी भारवी दुर्गा रतिर्महिषमर्दिनी ॥१३३॥एता अष्टादश(श)क्तिमुख्याः संन्यासकर्मणि ।आदौ मूलं स्वरं चैकं षोडशादिक्रमेण तु ॥१३४॥तदन्ते शक्तिमुच्चार्य चतुर्थ्यन्तपदान्वितम् ।नमः शब्द तदन्ते तु ततो मूलं वदेत् सुधीः ॥१३५॥कादिनान्ताक्षरानां तु चाद्ये बीजं निधाय च ।रत्यै नमो मूलमन्त्रं चाङ्गुष्ठं युगले न्यसेत् ॥१३६॥आदौ मूलं पादिक्षान्तं शक्तिञ्च तदनन्तरम् ।चतुर्थ्यन्तं नमो मूलं शक्तिन्यासः समीरितः ॥१३७॥पीठन्यासविधानम्पीठन्यासं प्रवक्ष्यामि सावधानोऽवधारय ।मूलाधारे कामरुपं कामाख्यं लिङुमूलके ॥१३८॥कामराजं त्रिकोणे तु ह्रदि ज्वालन्धरं तथा ।ह्रद्यूर्ध्वे मधुकरस्थानं तदूर्ध्वे गगनाख्यकम् ॥१३९॥ललाटे पूर्णगिर्याख्यमुड्ड्यानं तदूर्ध्वके ।तदूर्ध्व शाङ्करीपीठं रुद्रपीठं तदूर्ध्वके ॥१४०॥तदूर्ध्व करूणापीठं चोन्मनीपीठमेव च ।रोधनीपीठमेवं तु बिन्दुपीठं तदूर्ध्वके ॥१४१॥तदूर्ध्वे रत्नपीठं तु तदूर्ध्वे शुक्रपीठकम् ।तदूर्ध्वे वासनापीठं विसर्गपीठमेव च ॥१४२॥ब्रह्मपीठं तदूर्ध्वे तु कालीपीठं तदूर्ध्वके ।तदूर्ध्वे तारिणीपीठं एकपीठं तदूर्ध्वके ॥१४३॥तदूर्ध्वे च जटापीठं पिङुलापीठमेव च ।वाराणसीमहापीठं भ्रुवोर्मध्ये प्रविन्यसेत् ॥१४४॥लोचनत्रयमध्ये तु अवन्तीपीठमेव च ।मायावतीं मुखवृत्ते जिहवाग्रे तु मधूत्तमम् ॥१४५॥तन्मध्ये रसनापीठं दंष्ट्रापीठं तदन्तिके ।विद्यापीठं तदग्रे तु योगिनीपीठमेव च ॥१४६॥कण्ठे चाष्टपुरीपीठं तथा मधुपुरीत्रयम् ।भुजद्वये भोगपीठं श्रीपीठं पार्श्वयुग्मके ॥१४७॥उदरे रहनलापीठं धर्मपीठ निवीतके ।काञ्चीपीठं कटितटे देवपीठ्म तदुत्तरे ॥१४८॥तदधः श्यामलापीठं गोपीपीठं तदन्तिके ।अयोध्यापीठचक्रं तु नाभिमूले प्रविन्यसेत् ॥१४९॥श्मशानपीठं गुह्ये तु शिवापीठं तथा तले ।ऊरुयुग्मे शीतले वा पीठयुग्मं प्रविन्यसेत् ॥१५०॥रङ्किणीपीठनगरं जङ्वायुग्मे उदाह्रतम् ।स्तनयुग्मे क्षीरपीठमङ्गुष्ठे द्वे प्रविन्यसेत् ॥१५१॥कालपीठं क्रोधपीठं विन्यसेत् साधकाग्रणीः ।पञ्चाशदेकपीठं तु केशाग्रे राज्यपीठकम् ॥१५२॥आदौ मूलं ततो वर्णं स्थाननाम ततः परम् ।पीठनाम चतुर्थ्यतं नमोमूलं ततः परम् ॥१५३॥इति पीठन्यासमूलं कथितं तव यत्नतः ।अस्य करनमात्रेण योगी सिद्धिवाप्नुयात् ॥१५४॥चिरजीवी स्वयं देवः प्रभाकरसमो बली ।यन्नमन्ति महेशानि षोढापुटितविग्रहाः ॥१५५॥अल्पायुः स भवेत् सद्यो देवता कम्पते भिया ।इति ते कथितं नाथ षोडन्यासं महाशुभम् ॥१५६॥ N/A References : N/A Last Updated : May 01, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP