संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|द्वयशीतितमः पटलः| हाकिनीपरशिवपूजनम् १ द्वयशीतितमः पटलः हाकिनीपरशिवपूजनम् १ हाकिनीपरशिवपूजनम् २ हाकिनीपरशिवपूजनम् ३ हाकिनीपरशिवपूजनम् ४ हाकिनीपरशिवपूजनम् ५ हाकिनीपरशिवपूजनम् ६ द्वयशीतितमः पटलः - हाकिनीपरशिवपूजनम् १ हाकिनीपरशिवपूजनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल हाकिनीपरशिवपूजनम् १ Translation - भाषांतर श्रीआनदभैरवी उवाचअथ कान्त प्रवक्ष्यामि साधय त्वं सदा निशि ।ह्रदि सिद्धान्तविज्ञानं सिद्धिमष्टां यदिच्छसि ॥१॥गोपय त्वं प्रयत्नेन सच्छिष्ये च निवेदय ।दुष्टेभ्यो वञ्चकेभ्यश्च पुत्रेभ्यो न प्रकाशय ॥२॥निर्जने प्रातरुत्थाय प्रातः कीर्ति समाचरन् ।देहबाह्यस्नानमादौ कृत्वा च साधकोत्तमः ॥३॥आसनञ्च गोपनीयं प्रत्येकेनापि कारयेत् ।पूर्वोक्तयोगचिहनानि आसनानि समाचरेत् ॥४॥आदौ श्रीमत्स्यकूर्माम्बुजविकटकटस्वस्तिकेन्द्रासनानिचित्राथर्वापवर्गानन विषयसमाचन्द्रताज्ञानदानि ।कोकावाक्ताम्रचूढाशवभगमृगभीमाद्यवीरोत्कटानिक्रोधाक्षत्राङुसिद्धाहिगरुम्कुटायोनिभेकासनानि ॥५॥चतुस्त्रिंशत्संख्याघटितकवलं चासनमिहप्रबुद्धं देहस्य क्षयमरणशङ्कविरहितम् ।महच्छब्देनाढ्यं यदि गदितसत्रत्रयमिति प्रभाते मध्याहने निशि विकुरुते योगह्रदयः ॥६॥गौरी गौरवगुर्विणीद्रयमहागार्हाग्निदा योगदायोगानन्तवद्गुणानुगमनाः को वा समर्थो मखैः ।यस्यास्ताम सविता दधाति मतिमान् पादाम्बुजं कोमलंहाकिन्याः परनाथदेववपुषः सम्भाव्य सम्पूज्यते ॥७॥एतान्यासनमूलानि कृत्वा दृढतरः सुधीः ।निर्जने पूजनं कुर्याद् यदि कल्याणमिच्छति ॥८॥दिव्यशङ्खहस्तपद्मो योगी योगमुपाश्रयेत् ।आसनान्ते महापद्मासनं कृत्वाऽर्चयेन्मुदा ॥९॥इति योगाभ्यासकाल इदानीं यजनं श्रृणु ।बाह्यपुजां समाप्यादौ ह्रद्यन्तर्यजनं चरेत् ॥१०॥योगाभ्यासविधिज्ञानमिति शास्त्रार्थनिश्चयम् ।पूजानिर्घण्टनं नाथ श्रृणु संक्षेपतः प्रभो ॥११॥तदन्ते तु प्रवक्तव्य्म पूजाविधानमन्त्रकम् ।सदाभ्यासेन योगेन जीवन्मुक्तिपद्म लभेत् ॥१२॥आदावाचमनं नाथ तदन्ते जलशोधनम् ।आसनादिशोधनं तु चक्रमण्डलभावना ॥१३॥शिखाग्रन्थिबन्धनं तु पीठनिर्माणमेव च ।पुष्पघण्टाशोधनं तु शङ्खशोधनमेव च ॥१४॥पीठपूजा ह्रदि ध्यानं भूतशुद्धिस्ततः परम् ।न्यासजालं ततः सिद्धपुरुषाणाञ्च भावनम् ॥१५॥पुनर्ध्यानम् ऋषिध्यानं हाकिनीपरदेवयोः ।जीवसंस्कारमेवं हि जीवदानं ततः परम् ॥१६॥महामुद्रादर्शनं उ चावाहनादिमुद्रया ।पाद्यमर्घ्यस्थापनं तु कृत्वा युगलमेव च ॥१७॥पाद्यादिभिः पूजनञ्च मङुलं सोपचारकम् ।दशोपचार्म पञ्चोपचारं मूलेन कारयेत् ॥१८॥अष्टादशोपचारं तु महाभक्त्या निवेदयेत् ।षोडशोपचारयुक्तैः पूजयेद् वापि साधकः ॥१९॥ततः प्राणायाम युग्मं कृत्वा च साधकोत्तमः ।जपेत् सहस्त्रं शतं वा चाष्टोत्तर्समन्वितम् ॥२०॥त्रिलक्षं लक्षमेकं वा जपेन्मन्त्रनन्यधीः ।जपसमर्पणं कृत्वा प्रानायामत्रयं चरेत् ॥२१॥ततो हि वन्दनं स्तोत्रकवचं सर्वदा जपेत् ।सहस्त्रनामसन्तानं चाष्टोत्तरशतान्वितम् ॥२२॥पठित्वा भेदमाकृत्य नरो योगीश्वरो भवेत् ।श्रवणाद्दर्शनाज्ज्ञानान्मयि भावानुकीर्तनात् ॥२३॥यादृषी जायते श्रद्धा सन्निकर्षं तमालभेत् ।त्रिलक्षं जपमाकृत्य तद्दशांशेन होमयेत् ॥२४॥तद्दशांशतर्पणं तु तद्दशांशं चाभिषेकम् ।तद्दशांशं विप्रभोज्य कुमारीभोजनं तथा ॥२५॥कुमारीयजनं तत्र कुमारीतन्त्रपठेत् ।कुमारीसहस्त्रनामनि पठेदावश्यक नरः ॥२६॥ततः कुलक्रिया कुर्याद्योगी योगेश्वरो भवेत् ।आद्याशक्तिप्रभावः स्यात्तस्य ह्रत्पद्ममण्ड्ले ॥२७॥यथा मूले स्वाधिष्ठाने मणिपूरे यथा मम ।ह्रत्पङ्कजे यथा पूजा या पूजा कण्ठपङ्कजे ॥२८॥सा पूजा भ्रूमहापद्मे मम मन्त्रेण कारयेत् ।तदायेष्वथ सन्तोषः प्रतिवृद्धिः सदा मम् ॥२९॥मम सन्तोषमात्रेण ग्रन्थिभेत्ता स्वयं भवेत् ।त्रिराचमनं कुर्यान्मूलमन्त्रेण शङ्कर ॥३०॥तथा चाचमनं वारमेकं कृत्वा महासुधीः ।ततो जलं शोधयेद् वै मूलान्ते जलबीजकम् ॥३१॥निर्मलं चन्द्रखण्डेन सुगन्धिचन्दनेन च ।मिलितं शोधयानन्दभैरव प्राणभैरवी ॥३२॥एतन्मन्त्रेण संशोध्य चासनं परिशोधयेत् ।आसने संस्थिते देवि कूर्मचक्रनिवासिनी ॥३३॥ममासनं शोधय त्वं सिद्धिदे परहाकिनि ।एवं संशोध्य मनुना भावयेच्चक्र मण्डलम् ॥३४॥त्रैलोक्यव्यापिनं योगिमहाविष्णुसुमण्डलम् ।अत्युच्चं सर्वदा ध्यात्वा तस्योपरि निजासनम् ॥३५॥विभाव्य पूजयेद् देवीं भ्रूपीठचक्रमण्डले ।शिखाबन्धनमन्त्रं तु श्रृणु भैरव भूपते ॥३६॥यस्यापि कारणेनापि पलायन्तेऽतिविघ्नदाः ।प्रणवञ्च शिखाबन्धवालं बन्धयद्वयम् ॥३७॥तारं मायास्त्राय फट् च मन्त्रोऽयं ज्ञानिदुर्लभः ।प्रणवान्ते वासग्रन्थिं बन्धयामि नमो द्विठः ॥३८॥पीठनिर्माणमावक्ष्ये सावधानोऽवधारय ।त्रिकोणाभ्यन्तरे बिन्दुषट्कोणं संल्लिखेत् सुधीः ॥३९॥तदन्ते सप्तभूबिम्बं ततः शतदलायुतम् ।चतुर्द्वारं स्समालिख्यं मन्त्रसंस्कारमाचरेत् ॥४०॥विस्तीर्णताम्रअपात्रे तु लिखेत स्वर्णशलाकया ।अथवा रौप्यलेखन्या चाथवा बिल्वकण्टकैः ॥४१॥यन्त्रं निर्माय संस्कारं कुर्याच्छ्रीतत्त्वमुद्रया ।प्रणवं यन्त्रराजं तु रुचिरेखासमाकुलम् ॥४२॥योषित्प्रियाराकार्म कुलपीठं प्रशोधये ।स्वाहान्तं मूलमुर्चार्य रक्तवर्ण विचिन्तयेत् ॥४३॥शुक्लचन्दनसारेण रक्तचन्दनकेन वा ।कुङ्कुमेनापि संल्लिख्य चानेन सस्क्रिया चरेत् ॥४४॥पुष्पशोधनमावक्ष्ये प्रणवं भुवनेश्वरीम् ।शोधयामि वरं पुष्पं सुगन्धं रक्तपाटलम् ॥४५॥श्वेतं पीतं नीलकृष्ण कुसुमं गन्धसागरम् ।शोधयामि युगं स्वाहा मन्त्रेणानेन शोधयेत् ॥४६॥प्रणवं शब्दबीजं तु चाकाशीबीजसेचनम् ।घं घण्टां शोधयाम्यद्य वरदा भव हाकिनी ॥४७॥पीठे सम्पूजयेद भक्त्या साधकेन्द्रो न चान्यधीः ।षड्दले च रक्तवर्णा पूजयेत् पीठनायिकाम् ॥४८॥ N/A References : N/A Last Updated : May 01, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP