संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|षड्विंशः पटलः| पंञ्चमकार माहात्म्यम् षड्विंशः पटलः देव्या वीरध्येयरूपम् योगीनां सूक्ष्मस्नानम् कौलानां संध्या कौलतर्पणम् मानसपूजा मानसहोमः पंञ्चमकार माहात्म्यम् षड्विंशः पटलः - पंञ्चमकार माहात्म्यम् षट्चक्रभेदः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल पंञ्चमकार माहात्म्यम् Translation - भाषांतर ज्ञानिनां योगिनामेव अन्तर्यागो हि सिद्धिदः ।अथान्तः पञ्चमकारयजनं श्रॄणु शङ्कर ॥१३०॥अन्तर्यजनकाले तु दृढभावेन भावयेत् ।त्वां मां नाथैकथां ध्यात्वा दिवारात्र्यैकतां यथा ॥१३१॥सुराशक्तिः शिवो मांसं तद्भक्तो भैरवः स्वयम् ।तयोरैक्यसमुत्पन्न आनन्दो मोक्षनिर्णयः ॥१३२॥आनन्दं ब्रह्मकिरणं देहमध्ये व्यवस्थितम् ।तदभिव्यञ्जकैर्द्रव्यैः कुर्याद् ब्रह्मादितर्पणम् ॥१३३॥आनन्दं जगतां सारं ब्रह्मरुपं तनुस्थितम् ।तदाभिव्यञ्जकं द्रव्यं योगिभिस्तैः प्रपूजयेत् ॥१३४॥लिङुत्रयं च षट्पद्माधारमध्येन्दुभेदकः ।पीठस्थानानि चागत्य महापद्मवनं व्रजेत् ॥१३५॥मूलाम्भोजो ब्रह्मारन्ध्रं चालयेदसुचालयेत् ।गत्वा पुनः पुनस्तत्रं चिच्चन्द्रः परमोदयः ॥१३६॥चिच्चन्द्रः कुण्डलीशक्तिः सामरस्यमहोदयः ।व्योमपङ्कजनिस्पन्दसुधापानरतो नरः ॥१३७॥मधुपानमिदं नाथ बाह्ये चाभ्यन्तरे सताम् ।इतरं मद्यपानं तु योगिनां योगघातनात् ॥१३८॥इतरं तु महापानं भ्रान्तिमित्याविवर्जितः ।महावीरः सङ्करोति योगाष्टाङुसमृद्धये ॥१३९॥पुण्यापुण्यपशुं हत्वा ज्ञानखड्गेन योगवित् ।परशिवेन यश्चित्तं नियोजयति साधकः ॥१४०॥मांसाशी स भवेदेव इतरे प्राणिघातकाः ।शरीरस्थे महावहनौ दग्धमत्स्यानि पूजयेत् ॥१४१॥शरीरस्थजलस्थानि इतराण्यशुभानि च ।महीगतस्निसौम्योद्भवमुद्रामहाबलाः ॥१४२॥तत्सर्वं ब्रह्मकिरणे आरोप्य तर्पयेत् सुधीः ।तत्र मुद्राभोजनानि आनन्दवर्द्धकानि च ॥१४३॥इतराणि च भोगार्थे एतद्वि परम् ।परशक्त्यात्ममिथुनसंयोगानन्दनिर्भराः ॥१४४॥मुक्तास्ते मैथुनं तत्स्यादितरे स्त्रीनिषेवकाः ।एतत्पञ्चमकारेण पूजयेत् परनायिकाम् ॥१४५॥पुरश्चरणगूढार्थसारमन्त्रप्रपूजनम् ।एतद्योगं सदाभ्यसेद् निद्रालस्यविवर्जितः ॥१४६॥प्राणवायुरयं कुर्यात् कालकारणवारणात् ।एतत्क्रियां प्राणवशे यः करोति निरन्तरम् ॥१४७॥तस्य योगसमृद्धिः स्यात् कालसिद्धिमवाप्नुयात् ॥१४८॥॥ इति श्रीरुद्रयामले उत्तरमन्त्रे महातन्त्रोद्दीपने भावनिर्णये सूक्ष्मयोगसिद्धयधिकरणे पाशवकल्पे षट्चक्रसारसङ्केते सिद्धिमन्त्रप्रकरणे भैरवभैरवीसंवादे षड्विंशः पटलः ॥२६॥ N/A References : N/A Last Updated : April 16, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP