संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|षड्विंशः पटलः| कौलतर्पणम् षड्विंशः पटलः देव्या वीरध्येयरूपम् योगीनां सूक्ष्मस्नानम् कौलानां संध्या कौलतर्पणम् मानसपूजा मानसहोमः पंञ्चमकार माहात्म्यम् षड्विंशः पटलः - कौलतर्पणम् षट्चक्रभेदः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल कौलतर्पणम् Translation - भाषांतर तत्त्वतीर्थे महादेव तर्पणं यः करोति हि ।त्रैलोक्यं तर्पितं तेन तत्प्रकारं श्रृणु प्रभो ॥९७॥मूलाम्भोजे कुण्डलिनी चन्द्रसूर्याग्निरुपिणीम् ।समुत्थाप्य कुण्डलिनीं परं बिन्दुं निवेश्य च ॥९८॥तदुद्भवामृतेनेह तर्पयेद् देहदेवताम् ।कुलेश्वरीमादिविद्यां स सिद्धो भवति ध्रुवम् ॥९९॥चन्द्रसूर्यमहावहिनसम्भूतामृतधारया ।तर्पयेत कौलिनीं नित्याममृताक्तां विभावयेत् ॥१००॥एतत्परपदा काली स्त्रीविद्यादिप्रतर्पणम् ।कृत्वा योगी भवेदेव सत्यं सत्यं कुलेश्वर ॥१०१॥मूले पात्रं चान्द्रमसं ललाटेन्द्वमृते न च ।सम्पूर्य ज्ञानमार्गेण तर्पयेत्तेन खेचरीम् ॥१०२॥सुधासिद्धोर्मध्यदेशे कुलकन्यां प्रतर्पयेत् ।मदिरामृतधाराभिः सिद्धो भवति योगिराट् ॥१०३॥तत्र तीर्थे महाज्ञानी ध्यानं कुर्यात् प्रयन्ततः ।तदगर्भमभ्य सेन्नित्यं ध्यानमेतद्धि योगिनाम् ॥१०४॥स्वीयां कन्यां भोजयेद्वै परकीयामथापि वा ।परितोषाय सर्वेषां युवतीं वा प्रतोषयेत् ॥१०५॥ N/A References : N/A Last Updated : April 16, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP