संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|षड्विंशः पटलः| मानसहोमः षड्विंशः पटलः देव्या वीरध्येयरूपम् योगीनां सूक्ष्मस्नानम् कौलानां संध्या कौलतर्पणम् मानसपूजा मानसहोमः पंञ्चमकार माहात्म्यम् षड्विंशः पटलः - मानसहोमः षट्चक्रभेदः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल मानसहोमः Translation - भाषांतर अथ होमविधिं वक्ष्ये पुरश्चरनसिद्धये ।सङ्केतभाषया नाथ कथयामि श्रृणुष्व तत् ॥११९॥आत्मानमपरिच्छिन्न विभाव्य सूक्ष्मवत् स्थितः ।आत्मत्रयस्वरुपं तु चित्कुण्डं चतुरस्त्रकम् ॥१२०॥आनन्दमेखलायुक्तं नाभिस्थज्ञानवहिनषु ।अर्द्धमात्राकृतिर्योनिभूषितं जुहुयात् सुधीः ॥१२१॥इतिमन्त्रेण तद्वहनौ सोऽहंभावेन होमयेत् ।बाह्यनारीविधिं त्यक्त्वा मूलान्तेन स्वतेजसम् ॥१२२॥नाभिचैतन्यरुपग्नौ हविषा मनसा स्त्रुचा ।ज्ञानप्रदीपिते नित्यमक्षवृत्तिर्जुहोम्यहम् ॥१२३॥इति प्रथममाहुत्या मूलान्ते सञ्चरेत क्रियाम् ।द्वितीयाहुतिदानेन होमं कृत्वा भवेद्वशी ॥१२४॥धर्माधर्मप्रदीप्ते च आत्माग्नौ मनसा स्त्रुचा ।सुषुम्ना वर्त्मना नित्यमक्षवृत्तिं जुहोम्यहम् ॥१२५॥स्वाहान्त मन्त्रमुच्चार्य आद्ये मूलं नियोज्य च ।जुहुयादेकभावेन मूलाम्भोरुहमण्डले ॥१२६॥चतुर्थे पूर्णहवने एतन्मन्त्रेण कारयेत् ।एतन्मन्त्रचतुर्थं तु पूर्णविद्याफलप्रदम् ॥१२७॥अन्तर्निरतरनिरन्धनमेधमानेमायान्धकारपरिपन्थिनि संविदग्नौ ।कस्मिंश्चिदद्भुतमरीचिविकास भूमौविश्वं जुहोमि वसुधादिशिवावसानम् ॥१२८॥इत्यन्तर्यजनं कृत्वा साक्षाद् ब्रह्मामयो भवेत् ।न तस्य पुण्यपापानि जीवन्मुक्तो भवेद् ध्रुवम् ॥१२९॥ N/A References : N/A Last Updated : April 16, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP