संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|षड्विंशः पटलः| मानसपूजा षड्विंशः पटलः देव्या वीरध्येयरूपम् योगीनां सूक्ष्मस्नानम् कौलानां संध्या कौलतर्पणम् मानसपूजा मानसहोमः पंञ्चमकार माहात्म्यम् षड्विंशः पटलः - मानसपूजा षट्चक्रभेदः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल मानसपूजा Translation - भाषांतर स्तोत्रेणानेन दिव्येन तोषयेत् शङ्कर प्रभो ।सहस्त्रनाम्ना कौमार्याः स्तुत्वा देवीं प्रतोषयेत् ॥१०६॥यः करोति पूर्णयज्ञं पञ्चाङं जपकर्मणि ।पुरश्चरणकार्यं च प्राणायामेन कारयेत् ॥१०७॥प्राणवायुः स्थिरो गेहे पूजाग्रहणहेतुना ।यऽन्तस्थं न कुर्वन्ति तेषां सिद्धिः कुतः स्थिता ॥१०८॥अतोऽन्तर्यजनेनैव कुण्डलीतुष्टमानसा ।यदि तुष्टि महादेवी तदैव सिद्धिभाक् पुमान् ॥१०९॥अभिषिच्य जगद्धात्रीं प्रत्यक्षपरदेवताम् ।मूलाम्भोजात् सहस्त्रारे पूजयेद् बिन्दुधारया ॥११०॥गलच्चन्द्रामृतोल्लासिधारयासिच्य पार्वतीम् ।पूजयेत् परया भक्त्या मूलमन्त्रं स्मरन् सुधीः ॥१११॥अर्च्चयन्विषयैः पुष्पैस्तत्क्षणात्तन्मयो भवेत् ।न्यासस्तन्मयताबुद्धिः सोऽहंभावेन पूजयेत् ॥११२॥मन्त्राक्षराणि चिच्छक्तौ प्रोतानि परिभावयेत् ।तामेव परमे व्योम्नि परमानन्दसंस्थिते ॥११३॥दर्शयत्यात्मसद्भावं पूजाहोमादिभिर्विना ।तदन्तर्यजनं ज्ञेयं योगिनां शङ्कर प्रभो ॥१२४॥अन्तरात्मा महात्मा च परमात्मा स उच्यते ।तस्य स्मरणमात्रेण साधुयोगी भवेन्नरः ॥११५॥अमायमनहङ्कारमरागगममदं तथा ।अमोहकमदम्भञ्च अनिन्दाक्षोभकौ तथा ॥११६॥अमात्सर्यमलोभश्च दशपुष्पाणि योगिनाम् ।अहिंसा परमं पुष्पं पुष्पमिन्द्रियनिग्रहः ॥११७॥दया पुष्पं क्षमा पुष्पं ज्ञानपुष्पं च पञ्चमम् ।इत्यष्टसप्तभिः पुष्पैः पूजयेत् परदेवताम् ॥११८॥ N/A References : N/A Last Updated : April 16, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP