संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|दशमः पटलः| अष्टोत्तरसहस्त्रनामकवचम् ७ दशमः पटलः अष्टोत्तरसहस्त्रनामकवचम् १ अष्टोत्तरसहस्त्रनामकवचम् २ अष्टोत्तरसहस्त्रनामकवचम् ३ अष्टोत्तरसहस्त्रनामकवचम् ४ अष्टोत्तरसहस्त्रनामकवचम् ५ अष्टोत्तरसहस्त्रनामकवचम् ६ अष्टोत्तरसहस्त्रनामकवचम् ७ दशमः पटलः - अष्टोत्तरसहस्त्रनामकवचम् ७ कुमार्या सहस्त्रनामानि Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल अष्टोत्तरसहस्त्रनामकवचम् ७ Translation - भाषांतर सर्वत्र जयमाप्नोति वीराणां वल्लभो लभेत् ।सर्वे देवा वश्म यान्ति वशीभूताश्च मानवाः ॥१५१॥ब्रह्माण्डे ये च शंसन्ति ते तुष्टा नात्र संशयः ।ये वशन्ति च भूर्लोके देवतुल्यपराक्रमाः ॥१५२॥ते सर्वे भृत्यतुल्याश्च सत्यं सत्यं कुलेश्वर ।अकस्मात् सिद्धिमाप्नोति होमेन यजनेन च ॥१५३॥जाप्येन कवचाद्येन महास्तोत्रार्थपाठतः ।विना यज्ञैर्विना दानैविना जाप्यैर्लभेत् फलम् ॥१५४॥यः पठेत स्तोत्रकं नाम चाष्टोत्तरसहस्त्रकम् ।तस्य शान्तिर्भवेत् क्षिप्रं कन्यास्तोत्रं पठेत्ततः ॥१५५॥वारत्रयं प्रपाठेन राजानं वशमानयेत् ।वारैकपठितो मन्त्री धर्मार्थकाममोक्षभाक् ॥१५६॥त्रिदिनं प्रपठेद्विद्वान् यदि पुत्रं समिच्छति ।वारत्रयक्रमेणैव वारैकक्रमतोऽपि वा ॥१५७॥पठित्त्वा धनरत्नानामधिपः सर्ववित्तगः ।त्रिजगन्मोहयेन्मन्त्री वत्सरार्द्ध प्रपाठतः ॥१५८॥वत्सरं वाप्य यदि वा भक्तिभावेन यः पठेत् ।चिरजीवी खेचरत्त्वं प्राप्य योगी भवेन्नरः ॥१५९॥महादूरस्थितं वर्णं पश्यति स्थिरमानसः ।महिलामण्डले स्थित्त्वा शक्तियुक्तः पठेत् सुधीः ॥१६०॥स भवेत्साधनकश्रेष्ठः क्षीरी कल्पद्रुमो भवेत् ।सर्वदा यः पठेन्नाथ भावोद्गतकलेवरः ॥१६१॥दर्श्नात् स्तम्भनं कर्त्तु क्षमो भवति साधकः ।जलादितस्तम्भने शक्तो वह्रिस्तम्भादिसिद्धिभाक् ॥१६२॥वायुवेगी महावाग्मी वेदज्ञो भवति ध्रुवम् ।कविनाथो महाविद्यो वन्धकः पण्डितो भवेत् ॥१६३॥सर्वदेशाधिपो भूत्त्वा देवीपुत्रः स्वयं भवेत् ।कान्तिं श्रियं यशो वृद्धिं प्राप्नोति बलवान् यतिः ॥१६४॥अष्टसिद्धियुतो नाथ यः पठेदर्थसिद्धये ।उज्जटेऽरण्यमध्ये च पर्वते घोरकानने ॥१६५॥वने वा प्रेतभूमौ च शवोपरि महारणे ।ग्रामे भग्नगृहे वापि शून्यागारे नदीतटे ॥१६६॥गङागर्भे महापीठे योनिपीठे गुरोर्गृहे ।धान्यक्षेत्रे देवगृहे कन्यागारे कुलालये ॥१६७॥प्रान्तरे गोष्ठामध्ये वा राजादिभयहीनके ।निर्भयादिस्वदेशेषु शिलिङालयेऽथवा ॥१६८॥भूतगर्त्ते चैकलिङै वा शून्यदेशे निराकुले ।अश्वत्थमूले बिल्वे वा कुलवृक्षसमीपगे ॥१६९॥अन्येषु सिद्धदेशेषु कुलरुपाश्च साधकः ।दिव्ये वा वीरभावस्थो यष्ट्वा कन्यां कुलाकुलै ॥१७०॥कुलद्रव्यैश्च विविधैः सिद्धिद्रव्यैश्च साधकः ।मांसासवेन जुहुयान्मुक्तेन रसेन च ॥१७१॥हुतशेषं कुलद्रव्यं ताभ्यो दद्यात् सुसिद्धये ।तासामुच्छिष्टमानीय जुहुयाद् रक्तपङ्कजे ॥१७२॥घृणालजाविनिर्मुक्तः साधकः स्थिरमानसः ।पिबेन्मांसरसं मन्त्री सदानन्दो महाबली ॥१७३॥महामांसाष्टकं ताभ्यो मदिराकुम्भपूरितम् ।तारो माया रमावह्रिजायामन्त्रं पठेत् सुधीः ॥१७४॥निवेद्य विधिनानेन पठित्त्वा स्तोत्रमङुलम् ।स्वयं प्रसादं भुक्तवा हि सर्वाविद्याधिपो भवेत् ॥१७५॥शूकरस्योष्ट्रमांसेन पीनमीनेन मुद्रया ।महासवघटेनापि दत्त्वा पठति नरः ॥१७६॥ध्रुवं स सर्वगामी स्याद् विना होमेन पूजया ।रुद्ररुपो भवेन्नित्यं महाकालात्मको भवेत् ॥१७७॥सर्वपुण्यफलं नाथ क्षणात् प्राप्नोति साधकः ।क्षीराब्धिरत्नकोषेशो वियद्व्यापी च योगिराट् ॥१७८॥भक्त्याह्रादं दयासिन्धुं निष्कामत्त्वं लभेद् ध्रुवम् ।महाशत्रुपातने च महाशत्रुभयार्द्दिते ॥१७९॥वारैकपाठमात्रेण शत्रूणां वधमानयेत् ।समर्दयेत् शत्रून् क्षिप्रमन्धकारं यथा रविः ॥१८०॥उच्चाटने मारणे च भये घोरतरे रिपौ ।पठनाद्धारनान्मर्त्त्यो देवा वा राक्षसदयः ॥१८१॥प्राप्नुवन्ति झटित् शान्तिं कुमारीनामपाठतः ।पुरुषो दक्षिणे बाहौ नारी वामकरे तथा ॥१८२॥धृत्वा पुत्रादिसम्पत्तिं लभते नात्र संशयः ॥१८३॥ममाज्ञया मोक्षमुपैति साधकोगजान्तकं नाथ सहस्त्रनाम च ।पठेन्मनुष्यो यहि भक्तिभावत-स्तदा हि सर्वत्र फलोदयं लभेत् च ॥१८४॥मोक्षं सत्फलभोगिनां स्तववरं सारं परानान्ददंये नित्यं हि मुदा पठन्ति विफलं सार्थञ्च चिन्ताकुलाः ।ते नित्याः प्रभवन्ति कीर्तिकमले श्रीरामतुल्यो जये कन्दर्पायुततुल्यरुपगुणिनः क्रोधे च रुद्रोपमाः ॥१८५॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने कुमार्युचर्याविन्यासे सिद्धमन्त्रप्रकरण दिव्यभावनिर्णय अष्टोत्तरसहस्त्रनामङुलोल्लासे दशमः पटलः ॥१०॥ N/A References : N/A Last Updated : April 08, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP