संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|दशमः पटलः| अष्टोत्तरसहस्त्रनामकवचम् १ दशमः पटलः अष्टोत्तरसहस्त्रनामकवचम् १ अष्टोत्तरसहस्त्रनामकवचम् २ अष्टोत्तरसहस्त्रनामकवचम् ३ अष्टोत्तरसहस्त्रनामकवचम् ४ अष्टोत्तरसहस्त्रनामकवचम् ५ अष्टोत्तरसहस्त्रनामकवचम् ६ अष्टोत्तरसहस्त्रनामकवचम् ७ दशमः पटलः - अष्टोत्तरसहस्त्रनामकवचम् १ कुमार्या सहस्त्रनामानि Tags : रूद्रयामल अष्टोत्तरसहस्त्रनामकवचम् १ Translation - भाषांतर आनन्दभैरव उवाचवद कान्ते सदानन्दस्वरुपानन्दवल्लभे ।कुमार्या देवतामुख्याः परमानन्दवर्धनम् ॥१॥अष्टोत्तरसहस्त्राख्यं नाम मङुलमद्भुतम् ।यदि मे वर्तते विद्ये यदि स्नेहकलामला ॥२॥तदा वदस्व कौमारीकृतकर्मफलप्रदम् ।महास्तोत्रं कोटिकोटि कन्यादानफलं भवेत् ॥३॥आनन्दभैरवी उवाचमहापुण्यप्रदं नाथ श्रृणु सर्वेश्वरप्रिय ।अष्टोत्तरसहस्त्राख्यं कुमार्याः परमादभुतम् ॥४॥पठित्त्वा धारयित्त्वा वा नरो मुच्येत सङ्कटात् ।सर्वत्र दुर्लभं धन्यं धन्यलोकनिषेवितम् ॥५॥अणिमाद्यष्टसिद्धयङुं सर्वानन्दकरं परम् ।मायामन्त्रनिरस्ताङुं मन्त्रसिद्धिप्रदे नृणाम् ॥६॥न पूजा न जपं स्नानं पुरश्चर्याविधिश्च न ।अकस्मात् सिद्धिमवाप्नोति सहस्त्रनामपाठतः ॥७॥सर्वयज्ञफलं नाथ प्राप्नोति साधकः क्षणात् ।मन्त्रार्थ मन्त्रचैतन्यं योनिमुद्रास्वरुपकम् ॥८॥कोटिवर्षशतेनापि फलं वक्तुं न शक्यते ।तथापि वक्तुमिच्छामि हिताय जगतां प्रभो ॥९॥अस्याः श्रीकुमार्याः सहस्त्रनामकवचस्य वटुकभैरवऋषिरनुष्टुप्छन्दः,कुमारीदेवता, सर्वमन्त्रसिद्धिसमृद्धये विनियोगः ॥१०॥ॐ कुमारी कौशिकी काली कुरुकुल्ला कुलेश्वरी ।कनकाभा काञ्चनाभा कमला कालकामिनी ॥११॥कपालिनी कालरुपा कौमारी कुलपालिका ।कान्ता कुमारकान्ता च कारणा करिगामिनी ॥१२॥कन्धकान्ता कौलकान्ता कृतकर्मफलप्रदा ।कार्याकार्यप्रिया कक्षा कंसहन्त्री कुरुक्षया ॥१३॥कृष्णकान्ता कालरात्रिः कर्णेषुहारिणीकरा ।कामहा कपिला काला कालिका कुरुकामिनी ॥१४॥कुरुक्षेत्रप्रिया कौला कुन्ती कामातुरा कचा ।कलञ्चभक्षा कैकेयी काकपुच्छध्वजा कला ॥१५॥कमला कामलक्ष्मी च कमलाननकामिनी ।कामधेनुस्वरुपा च कामहा काममर्दिनी ॥१६॥कामदा कामपूज्या च कामातीता कलावती ।भैरवी कारनावाढ्या च कैशोरी कुशलाङुला ॥१७॥कम्बुग्रीवा कृष्णनिभा कामराजप्रियाकृतिः ।कङ्कणालङकृता कङ्का केवला काकिनी किरा ॥१८॥किरातिनी काकभक्षा करालवदना कृशा ।केशिनी केशिहा केशा कासाम्बष्ठा करिप्रिया ॥१९॥कविनाथस्वरुपा च कटुवाणी कटुस्थिता ।कोटरा कोटराक्षी च करनाटकवासिनी ॥२०॥कटकस्था काष्ठसंस्था कन्दर्पा केतकी प्रिया ।केलिप्रिया कम्बलस्था कालदैत्यविनाशिनी ॥२१॥केतकीपुष्पशोभाढ्या कर्पूरपूर्णजिहिवका ।कर्पूराकरकाकोला कैलासगिरिवासिनी ॥२२॥कुशानसनस्था कादम्बा कुञ्जरेशी कुलानना ।खर्बा खङ्गधरा खड्गा खलहा खलबुद्धिदा ॥२३॥खञ्जना खररुपा च क्षाराम्लतिक्तमध्यगा ।खेलना खेटककरा खरवाक्या खरोत्कटा ॥२४॥खद्योतञ्चला खेला खद्योता खगवाहिनी ।खेटकस्था खलाखस्था खेचरी खेचरप्रिया ॥२५॥ N/A References : N/A Last Updated : October 12, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP