संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|षष्ठः पटलः| पशुभावप्रशंसा षष्ठः पटलः पशुभावविवेचनम् सुषुम्नासाधनम् कुण्डलिनीस्तवः पशुभावप्रशंसा भावविद्याविधिः कुमारीलक्षणम् षष्ठः पटलः - पशुभावप्रशंसा कुमार्युपचर्याविन्यासः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल पशुभावप्रशंसा Translation - भाषांतर पुनर्भावं पशोरेव श्रृणु सादरपूर्वक ।अकस्मात् सिद्धिमाप्नोति पशुर्नारयणोपमः ॥४९॥वैकुण्ठनगरे याति चतुर्भुजकलेवरः ।शङ्कचक्रगदापद्महस्तो गरुदवाहनः ॥५०॥महाधर्मस्वरुपोऽसौ महाविद्याप्रसादतः ।पशुभावं महाभावं भावानां सिद्धिदं पुनः ॥५१॥आदौ भावं पशोः कृत्वा पश्चात् कुर्यादवश्यकम् ।वीरभावं महाभावं सर्वभावोत्तमोत्तरम् ॥५२॥तत्प्रश्चादतिसौन्दर्य दिव्यभावं महाफलम् ।फलाकाङ्क्षी मोक्शगश्च सर्वभूतहिते रतः ॥५३॥विद्याकाङ्क्षी धनाकाङ्क्षी रत्नाकाङ्क्षी च यो नरः ।कुर्याद भावत्रयं दिव्यं भावसाधनमुत्तमम् ॥५४॥भावेन लभते वाद्यं धनं रत्नं महाफलम् ।कोटिगोदानजैः पुण्यैः कोटिशालग्रामदानजैः ॥५५॥वाराणस्यां कोटिलिङुपूजनेन च यत्फलम् ।तत्फलं लभते मर्त्यः क्षणादेव न संशयः ॥५६॥आदौ दशमदण्डे तु पशुभावमथापि वा ।मध्याहने दशदण्डे तु वीरभावमुदामह्रतम ॥५७॥सायाहनदशदण्डे तु दिव्यभावं शुभप्रदम् ।अथवा पशुभावस्थो यजेदिष्टादिदेवताम् ॥५८॥जन्मावधि यजेन्मन्त्री महासिद्धिमवाप्नुयात् ।सर्वेषां गुरुरुपः स्यादैश्वर्यञ्च दिने दिने ॥५९॥यदि गुरुस्वभावः स्यात्तदा मधुमतीं लभेत् ।यदि विवेकी निर्याति महावनिवासवान् ॥६०॥ब्रह्मचर्यव्रतस्थो वा अथवा स्वपुरे वसन् ।पीठब्राह्मणमात्रेण महाषोढाश्रमेण च ॥६१॥पशुभावस्थितो मन्त्री सिद्धविद्यामवाप्नुयात् ।यदि पूर्वापरस्थाञ्च महाकौलिकदेवताम् ॥६२॥कुलमार्गास्थितो मन्त्री सिद्धिमाप्नोति निश्चितम् ।यदि विद्याः प्रसीदन्ति वीरभावं तदा लभेत् ॥६३॥वीरभावप्रसादेन दिव्यभाववाप्नुयात् ।दिव्यभावं ये गृहणन्ति नरोत्तमाः ॥६४॥वाञ्छाकल्पद्रुमलतापतयस्ते न संशयः ।आश्रमी ध्याननिष्ठश्च मन्त्रतन्त्रविशारदः ॥६५॥भूत्वा वसेन्महापीठं सदा ज्ञानी भवेद् यतिः ।किमन्येन फलेनापि यदि भावादिकं लभेत् ॥६६॥भावग्रहनमात्रेण मम ज्ञानी भवेन्नर. ।वाक्यसिद्धिर्भवेत् क्षिप्रं वाणी ह्रदयगामिनी ॥६७॥नारायणं परिहाय लक्ष्मीस्तिष्ठति मन्दिरे ।मम पूर्णं तु मादृष्टी तस्य देह न संशयः ॥६८॥अवश्यं सिद्धिमाप्नोति सत्यं सत्यं न संशयः ।महाभैरव उवाचसूचितं तु महादेवि कथयस्वानुकम्पया ॥६९॥सर्वतन्त्रेषु विद्यासु भावसङ्केतमेव हि ।तथापि शक्तितन्त्रेषु विशेषात् सर्वसिद्धिदम् ॥७०॥भावविद्याविधिं विद्ये विस्तार्य भावसाधनम् । N/A References : N/A Last Updated : April 08, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP