संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|षष्ठः पटलः| पशुभावविवेचनम् षष्ठः पटलः पशुभावविवेचनम् सुषुम्नासाधनम् कुण्डलिनीस्तवः पशुभावप्रशंसा भावविद्याविधिः कुमारीलक्षणम् षष्ठः पटलः - पशुभावविवेचनम् कुमार्युपचर्याविन्यासः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल पशुभावविवेचनम् Translation - भाषांतर भैरव उवाचअथ भावं वद श्रीदे दिव्यवीरपशुक्रमात् ।पशूनां परमाश्चर्यभावं श्रोतुं समुत्सुकः ॥१॥इच्छाम्याहलादजलधौ स्थितोऽहं जगदीश्वरि ।यदि भाग्यवशादाज्ञासारं चिन्तय सिद्धये ॥२॥पशुभावःमहाभैरव्युवाचपशुनाथ वीरनाथ दिव्यनाथ कृपानिधे ।प्रकाशह्रदयोल्लास चन्द्रशेखर तच्छुणु ॥३॥काली कलालताकारं तपस्याद्वयसङुतिम् ।पशुभावस्थितां नाथ देवतां श्रृणु विस्तरीत् ॥४॥दुर्गापूजां शिवपूजां यः करोति पशूत्तमः ।अवश्यं हि यः करोति पशुरुत्तमः स्मृतः ॥५॥केवलं शिवपूजाञ्च करोति यदि साधकः ।पशूनां मध्यमः श्रीमान् शिवया सह चोत्तमः ॥६॥केवलं वैष्णवोऽधीशः पशूनां मध्यमः स्मृतः ।भूतानां देवतानञ्च सेवाम कुर्वन्ति ये सदा ॥७॥पशूनां मध्यमाः प्रोक्तं नरकस्था न संशयः ।त्वत्सेवां मम सेवाञ्च विष्णुब्रह्मादिसेवनम् ॥८॥कृत्वान्यसर्वभूतानां नायिकानां महाप्रभो ।यक्षिणीनां भूतिनीनां ततः सेवा शुभप्रदा ॥९॥यः पशुर्ब्रह्मकृष्णादि सेवाम कुर्वन्ति ये सदा ।तथा शीतारकब्रह्म सेवाद्वये नरोत्तमाः ॥१०॥तेषामसाध्या भूतादिदेवताः सर्वकामदाः ।वर्जयेत् पशुमार्गेण विष्णुसेवापरो जनः ॥११॥प्रवक्तव्यञ्च पटले तेषां तेषां ततस्ततः ।विधिना विधिना नाथ क्रमशः श्रृणु वल्लभ ॥१२॥ N/A References : N/A Last Updated : April 08, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP