सामानुष्ठानः - मंत्र ९

उपासना विभागातील मंत्र सिद्ध केल्यास त्याची प्रचिती लगेचच मिळते, या विभागात अनुष्ठानासाठीचे मंत्र आहेत.


अथानंतमन्त्रनवकम् ॥
ॐ उग्रं सच्चिदानंदपूर्णं प्रत्यगानंत्मानं नृसिंह परमात्मानं परं ब्रह्माहं नमामि ॥
इति प्रतिपदं पठेत् ॥
एवं सर्वत्र ॥ वीरं २ महाविष्णुं ३ ज्वलन्तं ४ सर्वतोमुखं ५ नृसिंह ६ भीषणं ७ भद्रं ८ मृत्युमृत्युं ९ इत्यानंतमन्त्रनवकम् ॥
अथात्ममन्त्रनवकम् ॥
ॐ उग्रं सच्चिदानंदपूर्ण प्रत्यगात्मानं नृसिंह परमात्मानं परं ब्रह्माहं नमामि ॥
इति प्रतिपदं पठेत् ॥ वीरं २ महाविष्णुं ३ ज्वलन्तं ४ सर्वतामुख ५ नृसिंह ६ भीषणं ७ भद्रं ८ मृत्युमृत्युं ९ ॥
इत्यात्ममन्त्रनवकं ॥ इति पंचचत्वारिशत् स्तुतिमन्त्राः ॥

एवं श्रीनृसिंहमहरहस्तुवीत ॥
अथाशक्तपक्षे ॥
ॐ इं हं उग्रं हं हं इं ॐ सच्चिदानदपूर्ण प्रत्यक्सच्चिदानंदानंतात्मानं श्रीनृसिंह परमात्मानं परं ब्रह्माहं नमामि ॥
इत्येवमग्रेण च एवं सच्चिदानंदानंतात्मपदैर्मूलन्त्रस्य एकादशभिः पदैः चतुर्भिः पादैः समग्रेण च एवं षोडशस्तुतिमन्त्राः ॥
एवं देवमहरहस्तुवीत ॥ इति पुरश्चरणोपासना ॥
अनया पुरश्चरणोपासनया श्रीनृसिंह संतुष्टमभिमुखीकृत्य ॥
अथ प्रधानोपासनामारभेत् ॥ पूर्ववत् ॐ इं हं उग्रं श्रीनृसिंह नमाम्यहं ॥
एवं प्रणवशक्तिबीजपूर्वकं वीरादि दशपदैश्चतुर्भिः पादैः समग्रेण च षोडश नमस्कारन्विधाय ॥
आपादतलमून्ध्य्रन्त श्रीनृसिंहं मानस्तोषं ध्यात्वा ॥ पूजापरः सरमासनाद्युपच्चारान्मन्सा व्यहूद्वयाय प्रकल्पयेत् ॥

ब्रह्मंकंदसमुद्बतं ज्ञानानलसमान्वितम् । ऐश्वर्याष्टदलोपेतं परं वैराग्यकर्णिकम् ॥१॥
तस्मिन्पीठे चिदात्मानं श्रीनृसिंहं स्वरुपिणम् । पंचवर्णात्मकाशक्ति विद्वांसैः समुदाह्रत. ॥२॥
नादरुप शिवे षष्ठे संह्रत्यात्मानुचिंतनम‍ । उभयोरैक्यचिंता च तभ्दवांतकमांतरम ॥३॥
मानसार्चितैर्द्रव्यैश्चंदमाद्यैर्मनोहरैः । अर्चयेद्देवदेवेशमांतंरं तद्वितीयकम् ॥४॥
आंतरं द्विविधं प्रोक्तं न्यासानामिह योग्नाम् ॥ अन्येषां तु समाख्यातं बाह्यमाभ्यंतरं खलु ॥५॥
मानसैः कुसुमैरर्चा सात्विकी सा शुभा मता । अनिर्माल्या पराशुत्वात् मोक्षदा सिद्धिदा शुभा ॥६॥
तस्मात्सर्वप्रयत्नेन मानसं यजनं ध्रुवम् । आदावेव प्रकर्तव्यं पश्जाद्‌द्रव्यैः सुविस्तरः ॥७॥
तच्चेत्थं ॥

परमेश्वराय पंचोपचारान्कुर्यात् ॥
लं पृथिव्यात्मने गंधतन्मात्राय प्रकृत्यानंदात्मने घ्राणें - द्रियात्मने श्रीनृसिंहाय गंधं कल्पयामि ॥
हं आकाशात्मने शब्दतन्मात्राय प्रकृत्यानंदात्मने श्रोंत्रेंद्रियात्मने श्रीनृसिंहाय पुष्पं कल्पयामि ॥
यं वायव्यात्मने स्पर्शतन्मात्राय प्रकृत्यानंदात्मने त्वगिंद्रियात्मने श्रीनृसिंहाय धूपं कल्पयामि ॥
रं अग्न्यात्मने रुपतन्मात्राय प्रकृत्यानंदात्मने चक्षुरिंद्रयात्मने श्रीनृसिंहाय दीपं कल्पयामि ॥
वं जलात्मने रसतन्मात्राय प्रकृत्यानंदात्मने रसनेंद्रियात्मने श्रीनृसिंहाय षड्र्सोपेतं नैवेद्यं कल्पयामि ॥
अनया पूजया श्रीनृसिंहः प्रीयतम् ॥ एवं पंचोपचारान्विधाय होमं कुर्यात् ॥
आधारकुंडे चिदग्नो प्रणग्नौ प्रणवदीप्ते एकवारोच्चारणेन स्वाहांतेन प्रणवेन सहप्रपंचेन जुहुयात् ॥
ॐ प्रपंचाय स्वाहा ॥ इत्यांतरं होमं विधाय ॥ मनसैव प्रदक्षिणीकृत्य दंडवन्नमस्कृत्वा प्रार्थयेत् ॥
साधु वासाधु वा कर्म यद्याचरितं मया ॥ तत्सत्वेन गृहाणात्र कृपया जगदीश्वर ॥१॥
पूजाहोमादिकं देव यत्कृतं त्वदनग्रहात् । तेन सत्कर्मणा देव प्रीतो भव जगत्पते ॥२॥
श्रीनृसिंहाय शांताय सगणायादिहेतवे ॥ निवेदयामि त्वात्मानं त्वं गतिः परमेश्वर ॥३॥
इत्यात्मानं तेजोमयं श्वासमार्गेणागतं चुलुकोदकेन साक्षस पुष्पेण देवस्य दक्षिणहस्ते निवेदयेत् ॥
सर्वमात्मीयमात्मानं च देवाय समर्प्य ॥
स्वयं सर्वकारणमहाविष्णुरुपेण पूर्णसच्चिदानंदब्रह्मरुपेण वा कियंतं कालमवतिष्ठेत् ॥
अच्युतोहमनंतोहं गोविदोहमहं हरिः ॥ आनंदोहमशेषोहमजोहममृतोस्म्यहम् ॥१॥
नित्योहं निर्विकल्पोहं निराकारोहमद्वयः ॥ सच्चिदानंदपूर्णाहं नित्यमुक्तः स्वभाववान् ॥२॥
अक्षरोहमचिंत्योहमक्ष्योहमदोषभाक् । ब्रह्यैवाहं न संसारी मुक्तेहमिति भावयेत्  ॥३॥
इत्यात्मानं परिभाव्य ॥ सिंहमुखमुद्रामभिमुखीकृत्य द्वात्रिशंन्मुद्राः प्रदर्शयेत् ॥
अंजलि १ र्वदनं २ मुष्टिः ३ प्रधानं च ४ चपेटिका ५ तर्जन्यास्फोटनं तद्वत् ६ शंख ७ चक्र ८ गदा ९ अक १० पाशां ११ कुशौ च १२ मुसलं १३ खङ १४ चर्म १५ सुशाङारक १६ इषु १७ श्च्चात्रं च १८ वक्त्रं च १९ दंष्ट्रा २० श्रीवत्स २१ कौस्तुभं २२ लक्ष्मी २३ र्योनि २४ स्तथ्रा धेनु २५ र्वरदा २६ भयहस्तकौ २७ कर्णौ च २८ केसरं चैव २९ वनमाला ३० खगेश्वरः ३१ उपसंहार मुद्रां च ३२ द्वात्रिंशत्प्रिकीर्तिताः ॥
इति मुद्राः प्रदर्श्य ॥

॥ अथ सिंहमुद्रालक्षणं ॥
जानुमध्यगतौ कृत्वा चुबुकोष्ठौ समावृतौ ॥
हस्तौ तु भूमिसंलग्नौ कंपमानः पुनः मुनः ॥ मुखं विवृत्तकं कुर्याल्ललजिह्रा सुलेहिहा ॥
एषा मुद्रा नारसिंही प्रधाने परिकीर्तिता ॥
ततः पूर्ववत् द्विंस्वरमानुष्टुभं सांगं गीत्वा सपरिकरभूर्लोकाधात्मकोहमिति भावयित्वा ॥
मन्त्रार्थं स्मरन्मंन्त्रदेवतात्मनैक्यं संभाव्य चातुस्वरं गायेत् ॥ तद्यथा ॥
प्रथमं प्रणवसाम ॥
तत्र मात्रद्वयं मिलितं अंगुष्ठेन तर्जनीमध्यपर्वस्पर्शं कृत्वा ततो मध्य्मा ततो अनामिकात्ततः कनिष्टिकामध्यपर्वस्पर्शं कृत्वा ॥
अनुदात्तप्रकर्षेण चतुर्भिः स्वरैश्चतुर्मात्रायुक्तैर्यागेत् ॥ तथैव पुनस्तृतीयमात्राप्रणवश्च द्वयं मिलितं गायेत ॥
इति चतुरावृत्याष्टाक्षरतासंपादनेन प्रणवसाम् ॥
तथैव शक्तिबीजे चतुरावृत्या गायेत् ॥ सर्वत्राप्येवमेव क्रमः ॥ ततः प्रथमपादांगं प्रणवं च गायेत् ॥
द्वितीयपादांग घृणिं च गायेत् ॥ ततस्तृलीयपादांगं यजुर्लक्ष्मी च गायेत् ॥
अत्र चातुःस्वरेण घृणिर्यजुर्लक्ष्म्योरपि गानमित्याचार्यः ॥ एवं चातुस्वरं गीत्वा ॥
त्वं मालेति मालां प्रार्थ्य ॥ मूलमन्त्रस्य यथाशक्ति जपं कृत्वा तद्विगुणं प्रणवं च मौनेन गणयेत् ॥
मौनं च गुरुव्यतिरिक्तेन तेनापि च देवभाषयापृष्टप्रतिवचनादिरुपं वक्तव्यम् ॥
एवं जपं विदधीत पुनः ॐ मालेति मालां प्रार्थ्य ॥
ततः पूर्ववत् द्विस्वरमानुष्टुंभ साङुं गीत्वा स्मार्तरीत्या पंचांगेन विसर्जनं ज्यासं कृत्वा यथोक्तं लक्ष्मीनृसिंह ध्यात्वा ॥
पूर्वत्प्राणानायम्य ॥ गुह्यातिगुह्य गोप्ता त्वं गृहाणास्मत्कृतं जपम् ॥
सिद्धिर्भवतु मे देव त्वत्प्रसादान्नृकेसरीति निवेद्य ॥ यस्य स्मृत्या च नामोक्त्या ॥
न्यूनं संपूर्णतां याति - ॥
अनेन स्मार्तश्रौतो - पासनांतर्यागेन श्रीलक्ष्मीनृसिंहः प्रीयताम न ममेति देवस्य दक्षिणे हस्ते चुलुकधारया भगवति समर्पयेदिति त्यजेत् ॥
इतः पूर्वं वाक्प्राणदेहबुद्धिधर्माधिकारतः जागृत्स्वप्न सुबुप्त्यावस्थासु मनसा कर्मणा वाचा
हस्ताभ्यां पद्‌भ्यामुदरेण शिशना यदुक्तं यत्कृतं यत्स्मृतं तत्सर्वं ब्रहार्पणं भवतु स्वाहा ॥
मां मदीयं च सर्वं अस्मस्वामिने सम्यगर्पयेत् इति ब्रह्मार्पणं कृत्वा ॥
भद्रं कर्णेभिर्‌ऋक् ॥ स्वस्ति न इंद्रो ऋक् ॥ इति शांति पठित्वा नृसिंहपरो भवेत् ॥  क्
इति श्रीमल्लक्ष्मीनृसिंहानुष्ठाननित्यविधिः समाप्तः ॥
इति श्रीमल्लक्ष्मीनृसिंहार्पणमस्तु ॥ अथ पुरश्चरणाधिकारसिद्‍ध्यर्थं द्वात्रिंशत्सहस्त्रं जपेत् ॥
ततः पुश्चरनसिद्‍ध्यर्थं द्वात्रिंसदयुतं जपेत् ॥ निग्रहानुग्रहसमर्थो भवति ॥
अथ सदाशिवात्मकं श्रीनृसिंहधयनमुच्यते ॥
ॐ पंचवक्त्रं महाभीमं कालानलसमप्रभं । रुंडमालाधरं रौद्रं कंठहारेण शोभितम् ॥११॥
नागायज्ञोपवीतं च सर्वालंकारभूषितम् । चंद्रमौलिनीलकंठं प्रतिवक्त्रं त्रिनेत्रकम् ॥२॥
भुजैः परिघसंकाशैर्दसह्भिश्चोपसेवितम् । अक्षरसूत्रगदापद्मं शंखं गोक्षीरसन्निभम् ॥३॥
धनुश्च मुसलं चैव तथा चक्रेण मंडितं । खड्‌गं शूलं च बाणं च नृसिंह रुद्ररुपिणम् ॥४॥
इंद्रं गोपकनीलाभं चंद्राभं स्वर्णसन्निभम् । पूर्वादि चोत्तरांतास्यं स्चोर्ध्वास्यं सर्ववर्णकम् ॥५॥
एवं रुपं हरिं ध्यायेत्सर्वसंकष्टगतेपि च । इदं मृत्युहरं ध्यानं स्मरणात् सर्वसिद्धिदम् ॥६॥
इदं सदाशिवात्मकनृसिंहध्यानम् ॥६॥

अथ महाकर्मणि नृसिंह ध्यानमुच्यते ॥
ध्येयो यदा महाकर्म तद्वा षोडशहस्तवान् । नृसिंहः सर्वलोकेशः सर्वाभरणभूषितः ॥१॥
द्वौ विदारणकर्मणौ द्वौ चांत्रोद्धरणौन धृतौ । चक्रशंखधरौ तुद्वौ च बाणाधनुर्धरौ ॥२॥
खड्‌घखेटधरौ द्वौ च द्वौ गदापद्मधारिणौन। पाशांकुशधरौ द्वौ च द्वौ रिपोर्मुकुटार्पितौ ॥३॥
इति षोडशदोदंडमंडितं नृहरिं विभू । ध्यायेन्नीरदनीलाभं उग्रकर्मण्यन्यधीः ॥४॥
ध्येयो महत्तमे कार्ये षोडशद्वय- हस्तवान् । नृहरिः सर्वभूताद्यः सर्वासिद्धिकरः प्रभुः ॥५॥
दक्षिणे चक्रपद्मे च परशुं पाशमेव च । हस्तं च मुसलं चैवमभयं चांकुशं तथा ॥६॥
पट्टिशं भिंडिपालं च खेटमुन्द्ररतो मदान् । वामभागै करैः शंखखड्‌गपाशं च शूलकम् ॥७॥  न्
अग्निं च वरदं शूलं शक्तिं कां च ततःपरं । कार्मुकं रिपोर्जानुमस्तकपीडनं । ततोर्ध्वीकृतहस्ताभ्यां आंत्रमालाधरं हरिम् ॥९॥
अधस्थिताभ्यां बाहुभ्या हिरण्यकविदारणं । प्रियं करं च भक्तानां दैत्यानां च भयंकरम् ॥१०॥  
नृसिंह संस्मरेदित्थं महामृत्युभयापहं ॥६॥

अथ रोगविषमृत्युशत्रुभयहरहरिध्यानमुच्यते ॥
सुवर्णाद्याभेसुपर्णे स्थितमतिसुमुखं कोटिपूर्णेदुवक्त्रं विद्युन्माला सटासिंत्रिशिखमयदृशं पीतवस्त्रोरुभूषं । हस्तोद्यच्चक्रशंखाभयधरमालिक्ष्वेडरोगादिमृत्युऊतैर्ध्यानैःर्ध्वसयंतं सुखृतमानिशं श्रीयुतं श्रीनृसिंहम् ॥१॥
इति ध्यानं समाप्तम‍ ॥ श्रीनृसिंह जयजय श्रीनृसिंह ॥ इति श्रीमल्लक्ष्मीनृसिंहार्पणमस्तु ॥६॥
श्रीसामराजलक्ष्मीनृसिंहार्पणमस्तु ॥ नरहरि ॥ ॐ तत् सत् ।

N/A

References : N/A
Last Updated : March 24, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP