संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गौतमीयधर्मशास्त्रेः|प्रथमप्रश्ने| सप्तमोऽध्यायः प्रथमप्रश्ने प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः प्रथमप्रश्ने - सप्तमोऽध्यायः ‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत. Tags : dharmagautamगौतमधर्मसंस्कृत सप्तमोऽध्यायः Translation - भाषांतर आपत्कल्पो ब्राह्मणस्याब्राह्मणाद्विद्योपयोगः ॥१॥ अनुगमनं शुश्रूषा ॥२॥ समाप्ते ब्राह्मणो गुरुः ॥३॥ याजनाध्यापनप्रतिग्रहाः सर्वेषाम् ॥४॥ पूर्वः पूर्वो गुरुः ॥५॥ तदलाभे क्षत्रवृत्तिः ॥६॥ तदलाभे वैश्यवृत्तिः ॥७॥ तस्यापण्यम् ॥८॥ गन्धरसकृतान्नतिलशाणक्षौमाजिनानि ॥९॥ रक्तनिर्णिक्ते वाससी ॥१०॥ क्षीरं सविकारम् ॥११॥ मूलफलपुष्पौषधमधुमांसतृणोदकापथ्यानि ॥१२॥ पशवश्च हिंसासंयोगे ॥१३॥ पुरुषवशाकुमारीवेहतश्च नित्यम् ॥१४॥ भूमिव्रीहियवाजाव्यश्चऋषभधेन्वनडुहश्चैके ॥१५॥ नियमस्तु ॥१६॥ रसानां रसैः ॥१७॥ पशूनां च ॥१८॥ न लवणकृतान्नयोः ॥१९॥ तिलानां च ॥२०॥ समेनाऽऽमेन तु पक्वस्य संप्रत्यर्थे ॥२१॥ सर्वथा वृत्तिरशक्तावशौद्रेण ॥२२॥ तदप्येके प्राणसंशये ॥२३॥ तद्वर्णसंकराभक्ष्यनियमस्तु ॥२४॥ प्राणसंशये ब्राह्मणोऽपि शस्त्रमाददीत ॥२५॥ राजन्यो वैश्यकर्म (वैश्यकर्म ) ॥२६॥ इति श्रीहरदत्तविरचितायां गौतमविवृतौ मिताक्षरायां सप्तमोऽध्यायः ॥७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP