संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गौतमीयधर्मशास्त्रेः|प्रथमप्रश्ने| तृतीयोऽध्यायः प्रथमप्रश्ने प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः प्रथमप्रश्ने - तृतीयोऽध्यायः ‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत. Tags : dharmagautamगौतमधर्मसंस्कृत तृतीयोऽध्यायः Translation - भाषांतर तस्याऽऽश्रमविकल्पमेके ब्रुवते ॥१॥ ब्रह्मचारी गृहस्थो भिक्षुर्वैखानसः ॥२॥ तेषां गृहस्थो योनिरप्रजनत्वादितरेषाम् ॥३॥ तत्रोक्तं ब्रह्मचारिणः ॥४॥ आचार्याधीनत्वमान्तम् ॥५॥ गुरोः कर्मशेषेण जपेत् ॥६॥ गुर्वभावे तदपत्यवृत्तिस्तदभावे वृद्धे सब्रह्मचारिण्यग्नौ वा ॥७॥ एवंवृत्तो ब्रह्मलोकमवाप्नोति जितेन्द्रियः ॥८॥ उत्तरेषां चैतदविरोधि ॥९॥ अनिचयो भिक्षुः ॥१०॥ ऊर्ध्वरेताः ॥११॥ ध्रुवशीलो वर्षासु ॥१२॥ भिक्षार्थी ग्राममियात् ॥१३॥ जघन्यमनिवृत्तं चरेत् ॥१४॥ निवृत्ताशीः ॥१५॥ वाक्चक्षुःकर्मसंयतः ॥१६॥ कौपीनाच्छादनार्थे वासो बिभृयात् ॥१७॥ प्रहीणमेके निर्णिज्य ॥१८॥ नाविप्रयुक्तमोषधिवनस्पतीनामङगमुपाददीत ॥१९॥ न द्वितीयामपर्तु रात्रिं ग्रामे वसेत् ॥२०॥ मुण्डः शिखी वा ॥२१॥ वर्जयेद्वीजवधम् ॥२२॥ समो भूतेषु हिंसानुग्रहयोः ॥२३॥ अनारम्भी ॥२४॥ वैखानसो वने मूलफलाशी तपःशीलः ॥२५॥ श्रावणकेनाग्निमाधाय ॥२६॥ अग्राम्यभोजी ॥२७॥ देवपितृमनुश्यभूतर्षिपूजकः ॥२८॥ सर्वातिथिः प्रतिषिद्धवर्जम् ॥२९॥ वैष्कमप्युपयुञ्जीत ॥३०॥ न फालकृष्टमधितिष्ठेत् ॥३१॥ ग्रामं च न प्रविशेत् ॥३२॥ जटिलश्चईराजिनवासाः ॥३३॥ नातिसंवत्सरं भुञ्जीत ॥३४॥ ऐकाश्रम्यं त्वाचार्याः प्रत्यक्षविधाना - द्गार्हस्थस्य गार्हस्थस्य ॥३५॥ इति श्रीहरदत्तविरचितायां गौतमविवृतौ मिताक्षरायां तृतीयोऽध्यायः ॥३॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP