संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गौतमीयधर्मशास्त्रेः|प्रथमप्रश्ने| चतुर्थोऽध्यायः प्रथमप्रश्ने प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः प्रथमप्रश्ने - चतुर्थोऽध्यायः ‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत. Tags : dharmagautamगौतमधर्मसंस्कृत चतुर्थोऽध्यायः Translation - भाषांतर गृहस्थः सदृशीं भार्यां विन्देता - नन्यपूर्वां यवीयसीम् ॥१॥ असमानप्रवरैर्विवाहः ॥२॥ ऊर्ध्वं सप्तमात्पितृबन्धुभ्यो बीजिनश्च मातृबन्धुभ्यः पञ्चमात् ॥३॥ ब्राह्मो विद्याचारित्रबन्धुशीलसंपन्नाय दद्यादाच्छाद्यालंकृताम् ॥४॥ संयोगमन्त्रः प्राजापत्ये सह धर्मश्चर्यतामिति ॥५॥ आर्षे गोमिथुनं कन्यावते दद्यात् ॥६॥ अन्तर्वेद्यृत्विजे दानं दैवोऽलंकृत्य ॥७॥ इच्छन्त्याः स्वयं संयोगो गान्धर्वः ॥८॥ वित्तेनाऽऽनतिः स्त्रीमतामासुरः ॥९॥ प्रसह्याऽऽदानाद्राक्षसः ॥१०॥ असंविज्ञातोपसंगमात्पैशाचः ॥११॥ चत्वारो धर्म्याः प्रथमाः ॥१२॥ षडित्येके ॥१३॥ अनुलोमानन्तरैकान्तरद्व्यन्तरासु ज्ञाताः सव - र्णाम्बष्ठोग्रनिषाददौष्मन्तपारशवाः ॥१४॥ प्रतिलोमास्तु सूतमागधायोगवकृतवैदेहकचण्डालाः ॥१५॥ ब्राह्मण्यजीजनत्पुत्रान्वर्णेभ्य आनुपूर्व्या - द्ब्राह्मणसूतमागधचण्डालान् ॥१६॥ तेभ्य एव क्षत्रिया मूर्धाघसिक्थक्षत्रियधीवरपुल्कसां - स्तेभ्य एव वैश्या भृज्जकण्ठमाहिष्यवैश्यवैदेहान्पा - रशवयवनकरणशूद्राञ्छूद्रेत्येके ॥१७॥ वर्णान्तरगमनमुत्कर्षापकर्षाभ्यां सप्तमे पञ्चमे वाऽऽचार्याः ॥१८॥ सृष्टयन्तरजातानां च ॥१९॥ प्रतिलोमास्तु धर्महीनाः ॥२०॥ शूद्रायां च ॥२१॥ असमानायां तु शूद्रात्पतितवृत्तिः ॥२२॥ अन्त्यः पापिष्ठः ॥२३॥ पुनन्ति साधवः पुत्राः ॥२४॥ त्रिपुरुषमार्षात् ॥२५॥ दश दैवाद्दशैव प्राजापत्यात् ॥२६॥ दश पूर्वान्दश परानात्मानं च ब्राह्मीपुत्रो ब्राह्मीपुत्रः ॥२७॥ इति श्रीहरदत्तविरचितायां गौतमविवृतौ मिताक्षरायां चतुर्थोऽध्यायः ॥४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP