संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गौतमीयधर्मशास्त्रेः|प्रथमप्रश्ने| षष्ठोऽध्यायः प्रथमप्रश्ने प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः प्रथमप्रश्ने - षष्ठोऽध्यायः ‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत. Tags : dharmagautamगौतमधर्मसंस्कृत षष्ठोऽध्यायः Translation - भाषांतर पादोपसंग्रहणं समवायेऽन्वहम् ॥१॥ अभिगम्य तु विप्रोष्य ॥२॥ मातृपितृतद्बन्धूनां पूर्वजानां विद्यागुरुणां तद्गुरुणां च ॥३॥ संनिपाते परस्य ॥४॥ स्वनाम प्रोच्याहमयमित्यभिवादो ज्ञसमवाये ॥५॥ स्त्रीपुंयोगेऽभिवादतोऽनियममेके ॥६॥ नाविप्रोष्य स्त्रीणाममातृपितृव्यभार्याभगिनीनाम् ॥७॥ नोपसंग्रहणं भातृभार्याणां स्वसृणाम् ॥८॥ ऋत्विक्छ्रवशुरपितृव्यमातुलानां तु यवी - यसां प्रत्युत्थानमभिवाद्याः ॥९॥ तथाऽन्यः पूर्वः पौरोऽशीतिकावरः शूद्रोऽप्यपत्यसमेन ॥१०॥ अवरोऽप्यार्यः शूद्रेण ॥११॥ नाम वाऽस्य वर्जयेत् ॥१२॥ राज्ञश्चाजपः प्रेष्यः ॥१३॥ भो भवन्निति वयस्यः समानेऽहनि जातः ॥१४॥ दसवर्षवृद्धः पौरः पञ्चभिः कलाभरः श्रोत्रियश्चारणस्त्रिभिः ॥१५॥ राजन्यवैश्यकर्मा विद्याहीनाः ॥१६॥ दीक्षितश्च प्राक्क्रयात् ॥१७॥ वित्तबन्धुकर्मजातिविद्यावयांसि मान्यानि परबलीयांसि ॥१८॥ श्रुतं तु सर्वेभ्यो गरीयः ॥१९॥ तन्मूलत्वाद्धर्मस्य श्रुतेश्च ॥२०॥ चक्रिदशमीस्थानुग्राह्यवधूस्नात - कराजभ्यः पथो दानम् ॥२१॥ राज्ञा तु श्रोत्रियाय श्रोत्रियाय ॥२२॥ इति श्रीहरदत्तविरचितायां गौतमविवृतौ मिताक्षरायां षष्ठोऽध्यायः ॥६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP