द्वितीयोऽध्याय: - श्लोक ४१ ते ६०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


ज्येष्ठपुत्रकरेणापि कर्मकारकरेण च। अनामिकान्त हस्त: स्यादूर्ध्वबाहो: शरांशक: ॥४१॥

कनिष्ठिका मध्यमा वा प्रमाणे नैव कारयेत। स्वामिहस्तप्रमाणेन ज्येष्ठपत्नीकरेण च ॥४२॥

गर्भमात्रं भवेद्गेहं नृणां प्रोक्तं पुरातनै:। स्वामिहस्ताप्रमाणेन गृहं कृर्य्याद्तन्द्रित: ॥४३॥

हस्तादिरेणुपर्यन्तमयुग्मं युग्ममेव च। कृष्णपक्षे तिर्थि षष्ठी गण्डान्ते रविसंक्रमे ॥४४॥

रविभौमदिने विष्ट्यां व्यतीपाते च वैर्धृतो। मासदग्धं वारदग्धं तिथिं षष्ठिं विवर्जयेत ॥४५॥

अनुक्तेष्वेव धिष्ण्येषु न कर्त्तव्यं कदाचन। क्रकचं तिथिदग्धञ्च योगानां वज्रसंज्ञकम ॥४६॥

उत्पातैर्दूषितमृक्षं निसर्ग दर्शसंज्ञकम॥वज्रव्याघात शुलेषु व्यतिपातातिगण्डयो: ॥४७॥

विष्कम्भं गण्डपरिघं वर्ज्य योगेषु कारयेत। स्वामीमैत्रेऽथ माहेन्द्रे गान्धर्वे भगरौहिणे ॥४८॥

स्तम्भोच्छ्रायादि कर्तव्यमन्यत्र परिवर्जयेत। विस्तारेण हतं दैर्घ्य विभजेदष्टभिस्तत: ॥४९॥

यच्छेषं संभवेदायो ध्वजाद्यास्ते स्युरष्टधा। ध्वजो धूम्रो हरि: श्वा गौ: खरेभौ वायसोऽष्टम: ॥५०॥

पूर्वादिदिक्षु चाष्टानां ध्वजादीनामपि स्थिति:। स्वस्थानात पञ्चमे स्थाने वैरत्वञ्च महद्भवेत ॥५१॥

विषमाय: शुभ: प्रोक्त: समाय: शोकदु:खद:। स्वस्थानगा बलिष्ठा: स्युर्न चान्य स्थानगा: शुभा: ॥५२॥

ध्वज: सिंहे तौ च गजे ह्येत गवि शुभप्रदा:। वृषो न पूजितो ह्यत्र ध्वज: सर्वत्र पूजित: ॥५३॥

वृषसिंह्गजाश्चैव पुटकर्पटकोटयो:। द्विप: पुन: प्रयोक्तव्यो वापीकूपसरस्सु च ॥५४॥

मृगेन्द्रमासने दद्याच्छयनेषु गजं पुन:। वृषं भोजनपात्रेषु च्छत्रादिषु पुनर्ध्वजम ॥५५॥

अग्निवेश्मसु सर्वेषु गृहे वस्त्रो ( स्तू ) पजीविनाम। धूम्रं नियोजयेत्केचिच्छवानं म्लेच्छादिजातिषु ॥५६॥

खरो वैश्यगृहे शस्तो ध्वांक्ष: शेषकुटीषु च। वृषसिंहध्वजश्वापि प्रासादपुरवेश्मसु ॥५७॥

गजाये वा ध्वजाये वा गजानां सदनं शुभंम। अश्वाल्यं ध्वजाये च खराये वृषभेऽपि वा ॥५८॥

उष्ट्राणां मंदिरं काय गजाये वा वृषध्वजे। पशुसद्म वृषाये च ध्वजाये वा शुभप्रदम ॥५९॥

शय्यासु वृषभ: शस्त: पीठे सिंह: शुभप्रदा:। अमत्रच्छ्त्रवस्त्राणां वृषाये वा ध्वजेऽपि वा ॥६०॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP