वैराग्यशतकम् - तृष्णादूषणम्

'वैराग्यशतकम्’ काव्यात कवी भर्तृहरिने आयुष्यातील वैराग्य जीवनाचे वर्णन केले आहे.


चूडोत्तंसितचन्द्रचारुकलिकाचञ्चच्छिखाभास्वरो

लीलादग्धविलोलकामशलभः श्रेयोदशाग्रे स्फुरन् ।

अन्तःस्फूर्जदपारमोहतिमिरप्राग्भारमुच्चाटयनः

चेतःसद्मनि योगिनां विजयते ज्ञानप्रदीपो हरः ॥१॥

भ्रान्तं देशमनेकदुर्गविषमं प्राप्तं न किञ्चित्फलम्

त्यक्त्वा जातिकुलाभिमानमुचितं सेवा कृता निष्फला ।

भुक्तं मानविवर्जितं परगृहेष्वाशङ्कया काकवत्

तृष्णे जृम्भसि पापकर्मपिशुने नाद्यापि सन्तुष्यसि ॥२॥

उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवो

निस्तीर्णः सरितां पतिनृर्पतयो यत्नेन संतोषिताः ।

मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः

प्राप्तः काणवराटकोऽपि न मया तृष्णे सकामा भव ॥३॥

खलालापाः सोढाः कथमपि तदाराधनपरैः

निगृह्यान्तर्बाष्पं हसितमपि शून्येन मनसा ।

कृतो वित्तस्तम्भप्रतिहतधियामञ्जलिरपि

त्वमाशे मोघाशे किमपरमतो नर्तयसि माम् ॥४॥

अमीषां प्राणानां तुलितबिसिनीपत्रपयसां

कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम् ।

यदाढ्यानामग्रे द्रविणमदनिःसंज्ञमनसां

कृतं वीतव्रीडैर्निजगुणकथापातकमपि ॥५॥

क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः

सोढादुःसहशीतवाततपनक्लेशा न तप्तं तपः ।

ध्यातं वित्तमहर्निशं नियमितप्राणैर्न शंभोः पदं

तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तै फलैर्वञ्चिताः ॥६॥

भोगा न भुक्ता वयमेव भुक्ताः

तपो न तप्तं वयमेव तप्ताः ।

कालो न यातो वयमेव याता-

स्तृष्णा न जीर्णा वयमेव जीर्णाः ॥७॥

वलीभिर्मुखमाक्रान्तं पलितेनाङ्कितं शिरः ।

गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥८॥

निवृत्ता भोगेच्छा पुरुषबहुमानोऽपि गलितः

समानाः स्वर्याताः सपदि सुहृदो जीवितसमाः ।

शनैर्यष्ट्युत्थानं घनतिमिररुद्धे च नयने

अहो मूढः कायस्तदपि मरणापायचकितः ॥९॥

आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला

रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी ।

मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी

तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः ॥१०॥

N/A

References : N/A
Last Updated : April 03, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP