संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
षट्षष्टितमोऽध्यायः

भविष्यपर्व - षट्षष्टितमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


अदितेः कश्यपेन च सार्धं देवानां ब्रह्मलोकगमनम्

जनमेजय उवाच
पराजिताः सुरा दैत्यैः किमकुर्वत वै मुने ।
कथं च त्रिदिवं लब्धं भूयो देवैर्द्विजोत्तम ॥१॥
वैशम्पायन उवाच
श्रुत्वा वाणीं तु तां दिव्यां सह देवैः सुराधिपः ।
प्राग्दिशं प्रस्थितः श्रीमानदित्यालयमुत्तमम् ॥२॥
अदितिरुवाच
यद्येवं पुत्र युष्माभिर्न शक्यो हन्तुमाहवे ।
बलिर्विरोचनसुतः सर्वैश्चैव मरुद्गणैः ॥४॥
सहस्रशिरसा हन्तुं केवलं शक्यतेऽसुरः ।
तेनैकेन सहस्राक्ष न ह्यन्येन शतक्रतो ॥५॥
तद् वः पृच्छस्व पितरं कश्यपं सत्यवादिनम् ।
पराजयार्थं दैत्यस्य बलेस्तस्य महात्मनः ॥६॥
ततोऽदित्या सह सुराः सम्प्राप्ताः कश्यपान्तिकम् ।
अपश्यन् कश्यपं तत्र मुनिं दिव्यतपोनिधिम् ॥७॥
आद्यं देवं गुरुं दिव्यं क्लिन्नं त्रिषवणाम्बुभिः ।
तेजसा भास्कराकारं गौरमग्निशिखाप्रभम् ॥८॥
न्यस्तदण्डं तपोयुक्तं बद्धकृष्णाजिनोत्तरम् ।
वल्कलाजिनसंवीतं प्रदीप्तं ब्रह्मवर्चसा ॥९॥
हुताशमिव दीप्यन्तमाज्यमन्त्रपुरस्कृतम् ।
स्वाध्यायनिरतं शान्तं वपुष्मन्तमिवानलम् ॥१०॥
तं ब्रह्मवादिनां श्रेष्ठं सुरासुरगुरुं प्रभुम् ।
प्रतपन्तमिवादित्यं मारीचं दीप्ततेजसम् ॥११॥
यः स्रष्टा सर्वभूतानां प्रजानां पतिरुत्तमः ।
आत्मभावविशेषेण तृतीयो यः प्रजापतिः ॥१२॥
ततः प्रणम्य ते वीराः सहादित्या सुरर्षभाः ।
ऊचुः प्राञ्जलयः सर्वे ब्रह्माणमिव मानसाः ॥१३॥
यच्छ्रुतं युधि शक्रेण सरस्वत्या समीरितम् ।
अजेयस्त्रिदशैः सर्वैर्बलिर्दानवसत्तमः ॥१४॥
श्रुत्वा तु वचनं तेषां पुत्राणां कश्यपस्तदा ।
चकार गमने बुद्धिं ब्रह्मलोकाय लोककृत् ॥१५॥
कश्यप उवाच
गच्छाम ब्रह्मसदनं ब्रह्मघोषनिनादितम् ।
यथाश्रुतं च तत्रैव ब्रह्मणे वदतानघाः ॥१६॥
वैशम्पायन उवाच
ततोऽदित्या सह सुरा यान्तं कश्यपमन्वयुः ।
प्रस्थितं ब्रह्मसदनं देवर्षिगणसेवितम् ॥१७॥
ते मुहूर्तेन सम्प्राप्ता ब्रह्मलोकं दिवौकसः ।
दिव्यैः कामगमैर्यानैर्महार्हैः सुमनोहरैः ॥१८॥
दिदृक्षवस्ते ब्रह्माणं तपसो राशिमव्ययम् ।
अभ्यगच्छन्त विस्तीर्णां ब्रह्मणः परमां सभाम् ॥१९॥
षट्पदोद्गीतनिनदां सामगीतविमिश्रिताम् ।
श्रेयस्करीममित्रघ्नीं दृष्ट्वा संजहृषुर्मुदा ॥२०॥
ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः ।
ऋचो बह्वृचमुख्यैश्च शिक्षाविद्भिस्तथा द्विजैः॥२१॥
शब्दनिर्वचनार्थं च प्रेर्यमाणपदाक्षराः ।
शुश्रुवुस्तेऽमरव्याघ्रा विततेषु च कर्मसु ॥२२॥
यज्ञवेदाङ्गविदुषां पदक्रमविदां तथा ।
घोषेण परमर्षीणां सा बभूव निनादिता ॥२३॥
यज्ञसंस्तवविद्भिश्च शिक्षाविद्भिस्तथा द्विजैः ।
शब्दनिर्वचनार्थज्ञैः सर्वविद्याविशारदैः ॥२४॥
मीमांसाहितवाक्यज्ञैः सर्ववादविशारदैः ।
हृष्टपुष्टस्वरैस्तत्र द्विजेन्द्रैर्वल्गुवादिभिः ।
नादितं ब्रह्मसदनं प्रवरं देवसद्मवत् ॥२५॥
ते तत्र समनुप्राप्य शृण्वन्तो वै ध्वनिं सुराः ।
पूतान्यात्मशरीराणि मेनिरे तु न संशयः ॥२६॥
तूष्णींभूता एकचित्ता ब्रह्मण्यागतमानसाः ।
विस्मयोत्फुल्लनयना निरीक्षन्तः परस्परम् ॥२७॥
नमस्कुर्वन्ति च पुनर्गुरुं लोकगुरुं प्रभुम् ।
मनसैव सुरश्रेष्ठाः पुरस्कृत्य तु कश्यपम् ॥२८॥
पुनः सम्पूज्य परमं वेदोच्चारणनिःस्वनम् ।
गम्भीरोदारमधुरं सुस्वरं हंसगद्गदम् ॥२९॥
ऐक्यनानात्वसंयोगसमवायविशारदैः ।
लोकायतिकमुख्यैश्च शुश्रुवुः स्वनमीरितम् ॥३०॥
तत्र तत्र च विप्रेन्द्रान् नियतान् संशितव्रतान् ।
जपहोमपरान् मुख्यान् ददृशुः कश्यपात्मजाः ॥३१॥
तस्यां सभायामास्ते स्म ब्रह्मा लोकपितामहः ।
सुरासुरगुरुः श्रीमान् विधिवद् देवमायया ॥३२॥
उपासते च तत्रैनं प्रजानां पतयः प्रभुम् ।
दक्षः प्रचेताः पुलहो मरीचिश्च द्विजोत्तमः ॥३३॥
भृगुरत्रिर्वसिष्ठश्च गौतमो नारदस्तथा ।
मनुर्द्यौरन्तरिक्षं च वायुस्तेजो जलं मही ॥३४॥
शब्दस्पर्शौ च रूपं च रसौ गन्धस्तथैव च ।
प्रकृतिश्च विकाराश्च यच्चान्यत् कारणं महत् ॥३५॥
साङ्गोपाङ्गाश्चतुर्वेदाः सरहस्यपदक्रमाः ।
क्रियाश्च क्रतवश्चैव संकल्पः प्राण एव च ॥३६॥
एते चान्ये च बहवः स्वयम्भुवमुपस्थिताः ।
अर्थो धर्मश्च कामश्च द्वेषो दर्पश्च नित्यदा ॥३७॥
शक्रो बृहस्पतिश्चैव संवर्तो बुध एव च ।
शनैश्चरोऽथ राहुश्च ग्रहाः सर्वे ह्यशेषतः ॥३८॥
मरुतो विश्वकर्मा च नक्षत्राणि च भारत ।
दिवाकरश्च सोमश्च ब्रह्माणं समुपासते ॥३९॥
सावित्री दुर्गतरणी वाणी सप्तविधा तथा ।
सर्वाणि श्रुतिशास्त्राणि गाथाश्च नियमास्तथा ॥४०॥
भाष्याणि सर्वशास्त्राणि देहवन्ति विशाम्पते ।
क्षणा लवा मुहूर्ताश्च दिवा रात्रिश्च भारत ॥४१॥
अर्धमासाश्च मासाश्च ऋतवः षट् तथैव च ।
संवत्सराश्चतुर्युगं मासा रात्रिश्चतुर्विधा ॥४२॥
कालचक्रं च यद् दिव्यमनित्यं ध्रुवमव्ययम् ।
एते चान्ये च बहवः स्वयम्भुवमुपस्थिताः ॥४३॥
ते प्रविष्टाः सभां दिव्यां ब्रह्मणः सर्वकामदाम् ।
कश्यपस्त्रिदशैः सार्धं पुत्रैर्धर्मविशारदैः ॥४४॥
सर्वतेजोमयीं दिव्यां ब्रह्मर्षिगणसेविताम् ।
ब्राह्म्या श्रिया दीप्यमानमचिन्त्यं विगतक्लमम् ॥४५॥
ब्रह्माणं वीक्ष्य ते सर्वे आसीनं परमासने ।
जग्मुर्मूर्ध्ना शुभौ पादौ ब्रह्मणस्ते दिवौकसः ॥४६॥
शिरोभिः स्पृश्य चरणौ तस्य ते परमेष्ठिनः ।
विमुक्ताः सर्वपापेभ्यः शान्ता विगतकल्मषाः ॥४७॥
दृष्ट्वा तु तान्सुरान्सर्वान्कश्यपेन सहागतान् ।
आह ब्रह्मा महातेजा देवानां प्रभुरीश्वरः ॥४८॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे ब्रह्मलोकगमने षट्षष्टितमोऽध्यायः ॥६६॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP