संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
द्वाविंशत्यधिकशततमोऽध्यायः

भविष्यपर्व - द्वाविंशत्यधिकशततमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


उभयपक्षयोः सैन्यानां घोरयुद्धं

वैशम्पायन उवाच
द्वे सेने संगते राजन् सध्वजे सपरिच्छदे ।
महापरिघसंकीर्णे गदाशक्तिसमाकुले ॥१॥
भेरीझर्झरसम्पूर्णे डिण्डिमारावसंकुले ।
प्रगृहीतमहाशस्त्रशूलासिवरकार्मुके ॥२॥
परस्परकृतोत्साहे चक्राते युद्धमुल्बणम् ।
ते शराः कार्मुकोत्सृष्टा निर्भिद्याथ शरीरिणाम् ॥३॥
शरीराणि महाराज जग्मुर्दूरं सहस्रशः ।
भटबाहुविनिर्मुक्ताः खड्गा निर्भिद्य वक्षसि ॥४॥
स्फुरन्तश्च तथा राजञ्छिरांस्याहृत्य खं ययुः ।
परिघाश्च तथा राज्ञां बाहुभिः परिचोदिताः ॥५॥
तिलशश्चक्रुरतुलं शरीरं नृपरक्षसाम् ।
दैत्यानां कुर्वतां नादमन्योन्यवधकाङ्क्षिणाम् ॥६॥
दैत्या रक्षांसि राजेन्द्र राजानश्च समन्ततः ।
अन्योन्यं परिघैर्जघ्नुश्चापमुक्तैः शिलाशितैः ॥७॥
शरैश्च भोगिभोगाभैस्तीक्ष्णमन्ये महाबलाः ।
राक्षसा दानवाश्चान्ये मत्तमातङ्गविक्रमाः ॥८॥
अन्योन्यं जघ्निरे राजंश्चापमुक्तैर्महाशरैः ।
नागा नागैर्महाराज हया अश्वैः समन्ततः ॥९॥
रथा रथैः समाजग्मुः सादिनः सादिभिस्तथा ।
पट्टिशासिशरव्रातैः कुन्तैः सायककर्षणैः ॥१०॥
सशक्तिपरिघपासपरश्वधसमाकुलैः ।
भिन्दिपालैर्महारौद्रैर्जघ्नुरन्योन्यमाहवे ॥११॥
अन्योन्यं जघ्निरे राजंश्चापमुक्तैः शिलाशितैः ।
राक्षसा दानवा राजन् क्षत्रियाश्च समन्ततः ।
इतश्चेतश्च धावन्तः कुर्वन्तो विस्वरं रवम् ॥१२॥
हताः केचिन्महाराज पेतुरुर्व्यां महासिभिः ।
केचिन्मथितमस्तिष्का गदाभिर्वीर्यवत्तमाः ॥१३॥
भिन्नग्रीवा महाराज परिघैः परिघायुधैः ।
यमराष्द्रं गताः केचित् केचित् स्वर्गं समाययुः॥१४ ।
अप्सरोभिः समासेदुः पश्यन्तः स्वं कलेवरम् ।
केचित्स्वांश्च परांश्चैव हत्वा भ्रान्ता इवाभवन् ॥१५॥
एतस्मिन्नन्तरे राजञ्छङ्खा भेर्यः सहस्रशः ।
सस्वनुः सर्वतः सैन्ये मृदङ्गा बहवस्तथा ॥१६॥
मध्यंदिनगते सूर्ये तापं दधति घोरवत् ।
ततः पिशाचा विकृताः करालविततोदराः ॥१७॥
राक्षसाश्च महाघोराः पिशितं केशशाद्बलम् ।
मुदिता भक्षयामासुः पिबन्तः शोणितं वहु ॥१८॥
संचितानि शवान्यासन् कबन्धाः खड्गपातिताः ।
विभज्य देशं बहुशो युद्धभूमौ शवाशिनः ॥१९॥
अथ श्येना मृगाश्चैव कङ्का गृध्रास्तथा परे ।
तुण्डैः शवान् विनिष्कृष्य भक्षयन्ति ततस्ततः॥२०॥
सप्ताशीतिसहस्राणि हता नागा नृपोत्तम ।
त्रिंशत्सहस्रमयुतं निहता हयसत्तमाः ॥२१॥
हतं लक्षं महाराज रथानां रथिभिः सह ।
त्रिंशत्कोट्यो हतास्तत्र सादिनः सायुधा भृशम्॥२२ ।
मध्यंदिनगते सूर्ये हताः केचन निर्गताः ।
केचिच्च तृषिता राजन् विविशुः पुष्करं सरः ॥२३
केचिद् भूमिं समालिङ्ग्य भीता इत्यब्रुवन् रणे ।
मुक्तकेशाः पतन्ति स्म रथान् संत्यज्य केचन॥२४॥
संदष्टौष्ठपुटाः केचित् सादिनः पुरतो हताः ।
अत्यद्भुतं महायुद्धमासीत् पुष्करतीर्थके ।
यथा देवासुरं युद्धमासीत् पूर्वं नृपोत्तम ॥२५॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने संकुल युद्धे द्वाविंशत्यधिकशततमोऽध्यायः ॥१२२॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP