संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
तृतीयोऽध्यायः

भविष्यपर्व - तृतीयोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


व्यासेन कलियुगस्य स्थित्याः वर्णनम्

जनमेजय उवाच
आसन्नं विप्रकृष्टं वा यदि कालं न विद्महे ।
तस्माद् द्वापरसंविद्धं युगान्तं स्पृहयाम्यहम् ॥१॥
प्राप्ता वयं तु तत् कालमनया धर्मतृष्णया ।
आदद्यात् परमं धर्मं सुखमल्पेन कर्मणा ॥२॥
शौनक उवाच
प्रजासमुद्वेगकरं युगान्तं समुपस्थितम् ।
प्रणष्टधर्मं धर्मज्ञ निमित्तैर्वक्तुमर्हसि ॥३॥
सौतिरुवाच
पृष्ट एवं भविष्यस्य गतिं तत्त्वेन चिन्तयन् ।
युगान्ते सर्वभूतानां भगवानब्रवीत् तदा ॥४॥
व्यास उवाच
अरक्षितारो हर्तारो बलिभागस्य पार्थिवाः ।
युगान्ते प्रभविष्यन्ति स्वरक्षणपरायणाः ॥५॥
अक्षत्रियाश्च राजानो विप्राः शूद्रोपजीविनः ।
शूद्राश्च ब्राह्मणाचारा भविष्यन्ति युगक्षये ॥६॥
काण्डे स्पृष्टाः श्रोत्रियाश्च निष्क्रियाणि हवींष्यथ ।
एकपङ्क्त्यामशिष्यन्ति युगान्ते जनमेजय ॥७॥
शिल्पवन्तोऽनृतपरा नरा मद्यामिषप्रियाः ।
मित्रभार्या भविष्यन्ति युगान्ते जनमेजय ॥८॥
राजवृत्तिस्थिताश्चौरा राजानश्चौरशीलिनः ।
भृत्याश्चानिर्दिष्टभुजो भविष्यन्ति युगक्षये ॥९॥
धनानि श्लाघनीयानि सतां वृत्तमपूजितम् ।
अकुत्सना च पतिते भविष्यन्ति युगक्षये ॥१०॥
प्रणष्टचेतना मर्त्या मुक्तकेशा विचूलिनः ।
ऊनषोडशवर्षाश्च प्रजास्यन्ति नराः सदा ॥११॥
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः ।
प्रमदाः केशशूलाश्च भविष्यन्ति युगक्षये ॥१२॥
सर्वे ब्रह्म वदिष्यन्ति सर्वे वाजसनेयिनः ।
शूद्रा भोवादिनश्चैव भविष्यन्ति युगक्षये ॥१३ ।
तपोयज्ञफलानां च विक्रेतारो द्विजातयः ।
ऋतवश्च भविष्यन्ति विपरीता युगक्षये ॥१४॥
शुक्लदन्ताऽञ्जिताक्षाश्च मुण्डाः काषायवाससः ।
शूद्रा धर्मं चरिष्यन्ति शाक्यबुद्धोपजीविनः ॥१५॥
श्वापदप्रचुरत्वं च गवां चैव परिक्षयः ।
स्वादूनां विनिवृत्तिश्च विद्यादन्तगते युगे ॥१६॥
अन्त्या मध्ये निवत्स्यन्ति मध्याश्चान्तनिवासिनः ।
तथा निम्नं प्रजाः सर्वा गमिष्यन्ति युगक्षये ॥१७॥
तथा द्विहायना दम्यास्तथा पल्वलकर्षकाः ।
चित्रवर्षी च पर्जन्यो युगे क्षीणे भविष्यति ॥१८॥
सर्वे चौरकुले जाताश्चोरयानाः परस्परम् ।
स्वल्पेनाख्या भविष्यन्ति यत्किंचित्प्राप्य दुर्गताः ॥१९॥
न ते धर्मं करिष्यन्ति मानवा निर्गते युगे ।
ऊषार्कबहुला भूमिः पन्थानस्तस्करावृताः ॥२०॥
सर्वे वाणिज्यकाश्चैव भविष्यन्ति कलौ युगे ।
पितृदत्तानि देयानि विभजन्ते सुतास्तदा ।
हरणाय प्रपत्स्यन्ते लोभानृतविरोधिताः ॥२१॥
सौकुमार्ये तथा रूपे रत्ने चोपक्षयं गते ।
भविष्यन्ति युगान्ते च नार्यः केशैरलंकृताः ॥२२॥
निर्विहारस्य भूतस्य गृहस्थस्य भविष्यति ।
युगान्ते समनुप्राप्ते नान्या भार्या समा गतिः ॥२३॥
कुशीलानार्यभूयिष्ठं वृथारूपसमन्वितम् ।
पुरुषाल्पं बहुस्त्रीकं तद् युगान्तस्य लक्षणम् ॥२४॥
बहुयाचनको लोको न दास्यति परस्परम् ।
अविचार्य ग्रहीष्यन्ति दानं वर्णान्तरात् तथा ॥२५॥
राजचौराग्निदण्डार्तो जनः क्षयमुपैष्यति ।
सस्यनिष्पत्तिरफला तरुणा वृद्धशीलिनः ।
ईहयासुखिनो लोका भविष्यन्ति युगक्षये ॥२६॥
वर्षासु वाताः परुषा नीचाः शर्करवर्षिणः ।
संदिग्धः परलोकश्च भविष्यति युगक्षये ॥२७॥
आत्मनश्च दुराचारा ब्रह्मदूषणतत्पराः ।
आत्मानं बहु मन्यन्ते मन्युरेवाभ्ययाद्द्विजान् ॥२८॥
वैश्याचाराश्च राजन्या धनधान्योपजीविनः ।
युगापक्रमणे सर्वे भविष्यन्ति द्विजातयः ॥२९॥
अप्रवृत्ताः प्रपत्स्यन्ते समयाः शपथास्तथा ।
ऋणं सविनयभ्रंशं युगे क्षीणे भविष्यति ॥३०॥
भविष्यत्यफलो हर्षः क्रोधश्च सफलो नृणाम् ।
अजाश्चैवोपरोत्स्यन्ते पयसोऽर्थे युगक्षये ॥३१॥
अशास्त्रविदुषां पुंसामेवमेव स्वभावतः ।
अप्रमाणं वदिष्यन्ति नीतिं पण्डितमानिनः ॥३२॥
शास्त्रोक्तस्याप्रवक्तारो भविष्यन्ति युगक्षये ।
सर्वे सर्वं हि जानन्ति वृद्धाननुपसेव्य वै ॥३३॥
न कश्चिदकविर्नाम युगान्ते समुपस्थिते ।
न क्षत्राणि नियोक्ष्यन्ति विकर्मस्था द्विजातयः ।
चौरप्रायाश्च राजानो युगान्ते पर्युपस्थिते ॥३४॥
कुण्डावृषा नैकृतिकाः सुरापा ब्रह्मवादिनः ।
अश्वमेधेन यक्ष्यन्ति युगान्ते जनमेजय ॥३५॥
अयाज्यान् याजयिष्यन्ति तथाभक्ष्यस्य भक्षिणः ।
ब्राह्मणा धनतृष्णार्ता युगान्ते समुपस्थिते ॥३६॥
भोशब्दमभिधास्यन्ति न च कश्चित्पठिष्यति ।
एकशङ्खास्तदा नार्यो गवेधुकपिनद्धकाः ॥३७॥
नक्षत्राणि वियोगीनि विपरीता दिशस्तथा ।
संध्यारागोऽथ दिग्दाहो भविष्यत्यवरे युगे ॥३८॥
पितॄन्पुत्रा नियोक्ष्यन्ति वध्वः श्वश्रूश्च कर्मसु ।
वियोनिषु चरिष्यन्ति प्रमदासु नरास्तथा ॥३९॥
वाक्छरैस्तर्जयिष्यन्ति गुरूञ्छिष्यास्तथैव च ।
मुखेषु च प्रयोक्ष्यन्ति प्रमत्ताश्च नरास्तदा ॥४०॥
अकृताग्राणि भोक्ष्यन्ति नराश्चैवाग्निहोत्रिणः ।
भिक्षां बलिमदत्त्वा च भोक्ष्यन्ति पुरुषाः स्वयम् ॥४१॥
पतीन्सुप्तान् वञ्चयित्वा गमिष्यन्ति स्त्रियोऽन्यतः ।
पुरुषाश्च प्रसुप्तासु भार्यासु च परस्त्रियम् ॥४२॥
नाव्याधितो नाप्यरुजो जनः सर्वोऽभ्यसूयकः ।
न कृतिप्रतिकर्ता च युगे क्षीणे भविष्यति ॥४३॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कलियुगवर्णने तृतीयोऽध्यायः ॥३॥


N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP