संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
विंशत्यधिकशततमोऽध्यायः

भविष्यपर्व - विंशत्यधिकशततमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


भगवता श्रीकृष्णेन यादवसेनासहितं पुष्करतीर्थं गत्वा हंसडिम्बकयोः प्रतीक्षणम्

वैशम्पायन उवाच
प्रविश्य स पुरं विष्णोः सात्यकिः शिनिपुङ्गवः ।
आचचक्षेऽथ कृष्णाय यथा वृत्तं तयोस्तथा ॥१॥
ततः प्रभाते विमले केशवः केशिसूदनः ।
बलाध्यक्षानुवाचेदं चक्रपाणिर्गदाधरः ॥२॥
संनह्यतां बलं सर्वं रथकुञ्जरवाजिमत् ।
अनेकभेरीपणवं प्रासासिपरिघाकुलम् ॥३॥
सध्वजं सपताकं च सालंकारपरिच्छदम् ।
ते तथेति प्रतिज्ञाय सर्वं चक्रुरधीनगाः ॥४॥
आदाय सुदृढं चापं रथमारुह्य दंशिताः ।
अग्रतो जग्मुरत्यर्थं सेनायाः पुरुषोत्तमाः ॥५॥
सात्यकिश्च तथा राजन् प्रगृहीतशरासनः ।
बभौ क्रोधसमायुक्तो जगामाग्रे महाबलः ॥६॥
अन्ये च यादवाः शूरा प्रगृहीतमहायुधाः ।
सिंहनादं प्रकुर्वन्तो जग्मुरत्यर्थमुत्तमाः ॥७॥
हरिस्तु रथमारुह्य संस्कृतं दारुकेण ह ।
शार्ङ्गं भारसहं घोरं गृहीत्वा सशरं धनुः ॥८॥
चक्रपाणिस्तदा शङ्खी गदाशरवरासिमान् ।
बद्धगोधाङ्गुलित्राणः पीतवासा जनार्दनः ॥९॥
पद्ममालावृतोरस्को नवजीमूतसंनिभः ।
ययौ रथगतो विप्रैः स्तूयमानो मुदान्वितैः ॥१०॥
सूतैर्मागधपुत्रैश्च गीयमानस्ततस्ततः ।
आनीय सेनां सकलां ययौ काष्ठामथोत्तराम् ॥११॥
पाञ्चजन्यं मुखे न्यस्य सर्वप्राणेन केशवः ।
दध्मौ महारवं कुर्वञ्छत्रूणां भयवर्धनम् ॥१२॥
आध्मातस्तेन हरिणा स चक्रे शङ्खराट् ध्रुवम् ।
रवः स रोदसी राजन् पूरयामास सर्वतः ॥१३॥
तस्मिञ्छङ्खे तथाऽऽध्माते दध्मुः शङ्खान्सहस्रशः ।
भेर्यश्चापि समाध्माता मृदङ्गा बहवो नृप ॥१४॥
नेदुरत्यर्थमतुलं घर्मान्ते जलदा यथा ।
अथाययुर्महाराज पुष्करं पुण्यवर्धनम् ॥१५॥
सरसस्तस्य राजेन्द्र पुष्करस्य नृपोत्तमाः ।
प्रतीक्ष्य हंसडिम्भकौ युद्धाय समवस्थिताः ॥१६॥
निवेशं कारयामासुर्यादवाः सर्व एव हि ।
स्वं स्वं ययुः सुखं राजन् प्रगृहीतकुटीमठम् ॥१७॥
भगवानपि गोविन्दः सरो दृष्ट्वा सुशोभनम् ।
उपस्पृश्य जले तस्मिन् प्रणम्य यतिपुङ्गवान् ॥१८॥
तयोरागमनं लिप्सुरास्ते तीरे यथासुखम् ।
शृण्वन् वेदध्वनिं विष्णुर्ब्राह्मणानां समन्ततः ॥१९॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने कृष्णपुष्करप्रवेशे विंशत्यधिकशततमोऽध्यायः ॥१२०॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP