संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
एकोनसप्ततितमोऽध्यायः

भविष्यपर्व - एकोनसप्ततितमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


कश्यपाय अदितये देवेभ्यश्च भगवतः विष्णोः वरदानं, अदितेः गर्भात् प्राकट्यम्

वैशम्पायन उवाच
नारायणस्तु भगवाञ्छ्रुत्वैतत् परमं स्तवम् ।
ब्रह्मज्ञेन द्विजेन्द्रेण कश्यपेन समीरितम् ॥१॥
स्निग्धगम्भीरनिर्घोषजीमूतस्वननिःस्वनम् ।
मनसा प्रीतियुक्तेन विबुधानां महात्मनाम् ॥२॥
उवाच वचनं सम्यग् हृष्टपुष्टपदाक्षरम् ।
आकाशाच्छुश्रुवे शब्दो दर्शनं नोपलभ्यते ।
श्रीमान् प्रीतमना देवः प्रोवाच प्रभुरीश्वरः ॥३॥
विष्णुरुवाच
प्रीतोऽस्मि वः सुरश्रेष्ठाः सर्वे मत्तो विनिश्चयम् ।
वरं वृणुत भद्रं वो वरदोऽस्मि सुरोत्तमाः ॥४॥
कश्यप उवाच
यदैव भगवान् प्रीतः सर्वेषाममरोत्तमः ।
तदैव कृतकृत्याः स्म त्वं हि नः परमा गतिः ॥५॥
यदि प्रसन्नो भगवान् दातव्यो वा वरो यदि ।
वासवस्यानुजो भ्राता ज्ञातीनां नन्दिवर्धनः ।
अदित्यां वामनः श्रीमान् भगवानस्तु वै सुतः ॥६॥
वैशम्पायन उवाच
अदितिर्देवमाता च एतमेवार्थमुत्तमम् ।
पुत्रार्थे वरदं प्राह भगवन्तं वरार्थिनी ॥७॥
अदितिरुवाच
याचे त्वां पुत्रकामा वै भवान् पुत्रो भवत्विति ।
निःश्रेयसाय सर्वेषां देवानां हि महात्मनाम् ॥८॥
देवा ऊचुः
भ्राता भर्ता च दाता च शरणं च भवस्व नः ।
अदित्याः पुत्रतां याते त्वयि देवाः सवासवाः ।
देवशब्दं वहिष्यन्ति कश्यपस्यात्मजो भव ॥९॥
वैशम्पायन उवाच
ततस्तानब्रवीद् विष्णुर्देवान् कश्यपमेव च ।
एवं भवतु भद्रं वो यथेष्टं काममाप्नुत ॥१०॥
सर्वेषामेव युष्माकं ये भविष्यन्ति शत्रवः ।
मुहूर्तमपि ते सर्वे न स्थास्यन्ति ममाग्रतः ॥११॥
हत्वासुरगणान् सर्वान् ये चान्ये देवशत्रवः ।
करिष्ये देवताः सर्वा यज्ञभागाग्रभोजिनः ॥१२॥
हव्यादांश्च सुरान् सर्वान् कव्यादांश्च पितॄनपि ।
करिष्ये विबुधश्रेष्ठाः पारमेष्ठ्येन कर्मणा ॥१३॥
यथागतेन मार्गेण निवर्तध्वं सुरोत्तमाः ।
देवमातुस्तथादित्याः कश्यपस्यामितात्मनः ।
यथामनीषितं कर्ता गच्छध्वं स्वं स्वमालयम् ॥१४॥
वैशम्पायन उवाच
एवमुक्ते तु वचने विष्णुना प्रभविष्णुना ।
देवाः प्रहृष्टमनसः पूजयन्ति स्म सर्वशः ॥१५॥
विश्वेदेवा महात्मानः कश्यपोऽदितिरेव च ।
साध्या मरुद्गणाश्चैव शक्रश्चैव महाबलः ॥१६॥
नमस्कृत्य सुरेशाय तस्मै देवाय रंहसे ।
प्रयाताः प्राग्दिशं दिव्यं विपुलं कश्यपाश्रमम् ॥१७ ।
गत्वा ते आश्रमं तत्र ब्रह्मर्षिगणसेवितम् ।
चेरुः स्वाध्यायनियता अदित्या गर्भमीप्सवः ॥१८॥
अदितिर्देवमाता च गर्भे दध्रेऽतितेजसम् ।
भूतात्मानं महात्मानं दिव्यं वर्षसहस्रकम् ॥१९॥
पूर्णे वर्षसहस्रे तु प्रसूता गर्भमुत्तमम् ।
सुराणां शरणं देवमसुराणां विनाशनम् ॥२०॥
गर्भस्थेन तु देवेन परित्राताः सुरास्तदा ।
आददानेन तेजांसि त्रैलोक्यस्य महात्मना ॥२१॥
तस्मिञ्जाते तु देवेशे त्रैलोक्यस्य सुखावहे ।
भयदे दैत्यसंघानां सुराणां नन्दिवर्धने ॥२२॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे एकोनसप्ततितमोऽध्यायः ॥६९॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP