TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

भीमभटाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


भीमभटाख्यायिका
विचित्रकथवृत्तान्तमिति श्रुत्वा सविस्मयः ।
मृगाङ्कदत्तः परमां प्रीतिं प्राप सहानुगः ॥७६९॥
ततस्तेन सहान्यैश्च स विवेश महद्वनम् ।
तमालतालवलयश्यामलीकृतदिङ्मुखम् ॥७७०॥
उत्तुङ्गतरुसंघातरुद्धसूर्याशुमण्डलम् ।
इन्द्रनीलशिलास्तम्भं तिमिरस्येव मन्दिरम् ॥७७१॥
उत्फुल्लफुल्लशबलं त्वङ्गद्भृङ्गीतरङ्गितम् ।
बर्हिबर्हावलीनीलं केशपाशमिव क्षितेः ॥७७२॥
तत्र सान्द्रलतापुञ्जनिकुञ्जे कुञ्जराधिपम् ।
ददर्श मृगसंघानामिव संकेतमण्डपम् ॥७७३॥
( मनुष्यवच्चित्रगिरा भाषमाणं पुरः स्थितम् ।
नरमन्धं मुहुः प्रेम्णा समाश्वास्य फलाम्बुभिः ॥७७४॥
अपूर्वमथ संलापं श्रुत्वा गजमनुष्ययोः । )
मृगाङ्कदत्तः प्रोवाच सचिवान्विस्मयाकुलः ॥७७५॥
अहो बत मनुष्योऽयमचक्षुः करिणासकृत् ।
संभाष्यते बन्धुरिव प्रेम्णा  दत्वा फलोदकम् ॥७७६॥
प्रचण्डशक्तिसदृशः पुरुषोऽयं स एव वा ।
श्रृणुमस्तावदित्युक्त्वा किमेतद्वदतो मिथः ॥७७७॥
मृगाङ्कदत्तवचनादिति तेषु लतान्तरे ।
स्थितेषु गूढं स गजस्तमन्धं प्रणतोऽवदत् ॥७७८॥
अहं जन्मान्तरे राजपुत्रो भ्रातृवधेच्छया ।
कृतव्रतस्त्रिनेत्रस्य शापात्प्राप्तोऽद्य हस्तिताम् ॥७७९॥
ब्रूहि तावत्स्ववृत्तान्तं पूज्यस्त्वमतिथिर्मम ।
इति पृष्टो गजेन्द्रेण प्राहान्धो बाष्पगद्गदः ॥७८०॥
अहं मृगाङ्कदत्तस्य सचिवो दशमः सखे ।
प्रचण्डशक्तिर्नागस्य शापात्प्राप्तो दशामिमाम् ॥७८१॥
वृत्तान्तमात्मनः सर्वं कथयत्यथ तेन सः ।
( प्रार्थितो द्विरदः प्राह निःश्वस्य पृथु फूत्कृतम् ॥७८२॥
राठायामभवद्भूपः श्रीमानुग्रभटाभिधः ।
अभून्मनोरथा नाम भार्या तस्य मनोरमा ) ॥७८३॥
कदाचिदथ नानादिग्देशसंचारचञ्चुरः ।
नर्तकः कालको नाम तं नृपं द्रष्टुमाययौ ॥७८४॥
तत्सुता दासिका नाम तस्याग्रे वसुधापतेः ।
ननर्ताहितवैकुण्ठवनिताकारभूमिका ॥७८५॥
अमृताहरणं सत्यमनया तु कृतं मुहुः ।
कुतोऽन्यथा करोत्येषा लावण्यनयनामृतम् ॥७८६॥
इति संचिन्त्य तां राजा निदधे वल्लभापदे ।
एतदेवं श्रियः सारं यत्कामो न विमन्यते ॥७८७॥
स तया कण्ठलम्बिन्या लावण्योत्सवशीलया ।
मदावलोलः शुशुभे हलीव वनमालया ॥७८८॥
ततो मनोरमाख्यायां ज्येष्ठो भीमभटाभिधः ।
लासिकायां च समरभटः शौर्यवतां वरः ॥७८९॥
इति पुत्रेष्टियागेन पुत्रौ प्राप स पार्थिवः ।
( स्पर्धानुबन्धसंनद्धौ भीमदुर्योधनाविव ) ॥७९०॥
कलाभिः शस्त्रविद्याभिरभूद्भीमभटोऽधिकः ।
सौभाग्यातिशयान्मातुर्द्वितीयस्तु पितुः प्रियः ॥७९१॥
ततः क्रीदानियुद्धेन भ्रात्रा स्फोटितमस्तकम् ।
रक्ताक्तं लासिका दृष्ट्वा पुत्रं राज्ञे न्यवेदयत् ॥७९२॥
तत्कोपाकुलितो राजा निरस्यान्तःपुरात्सुतम् ।
ज्येष्ठं कनीयसश्चक्रे राजपुत्रान्सहानुगान् ॥७९३॥
पितुः प्रसादाद्दर्पान्धो राजपुत्रः स तैर्वृतः ।
सोऽवमेनेऽग्रजं मूढो भस्मच्छन्नमिवानलम् ॥७९४॥
मित्रं भीमभटस्यासीच्छङ्खदत्ताभिधो द्विजः ।
तच्चित्तदर्पनतले स्वचित्तमिव बिम्बितम् ॥७९५॥
ततो देशान्तरायातं वणिजस्तुरगोत्तम म् ।
भीमो जग्राह मूल्येन जम्भारेरिव विस्मृतम् ॥७९६॥
निजस्त्त्वमिवात्युच्चं संकल्पमिव शीघ्रगम् ।
वडवाकामुकमिव प्राप्तं मार्तण्डमण्डलात् ॥७९७॥
तुरङ्गरत्नमालोक्य भ्रातुस्तल्लासिकासुतः ।
ममायमिति दर्पान्धो हर्तुमभ्याययौ बलात् ॥७९८॥
तदर्थं सुभटान्हत्वा शङ्खदत्तसखो युधि ।
तस्यानुगं वधप्राप्तं न तं भीमभटोऽवधीत् ॥७९९॥
ततो ययौ पितुर्भीत्या स रात्रौ सुहृदा सह ।
मात्रा दत्तं समादाय रत्नभूषणसंचयम् ॥८००॥
तुरगाभ्यां व्रजन्वेगाद्विवेश विषमं वनम् ।
सुप्तसिंहगुहोपान्तसंकुचद्वरवारणम् ॥८०१॥
तत्रोच्चखुरटङ्कारप्रबुद्धैर्हरिणारिभिः ।
निहताश्वो ययौ पद्भ्यां सुहृदाश्वासितः शनैः ॥८०२॥
जाह्नवीतटमासाद्य प्रभाते श्रमकर्षितः ।
ददर्श नीलकण्ठाख्यं विप्रं व्रतिपदे स्थितम् ॥८०३॥
युवा वृद्धोचिताचारः पृष्ठो राजसुतेन सः ।
उवाच धनवैकल्यात्स्थितो नाहं गृहाश्रमे ॥८०४॥
इति श्रुत्वाखिलं तस्मै दत्त्वा रत्नविभूषणम् ।
भीमो वयस्यसहितस्तर्तुं गङ्गां समुद्ययौ ॥८०५॥
उत्फुल्लफेनपटलां साट्टहासामिवालसाम् ।
सताण्डवामिवोद्दण्डवीचिदोर्दण्डमण्डलैः ॥८०६॥
तौ प्रविष्टौ त्रिपथगां भुजाक्षेपैः ससर्पतुः ।
क्षिपन्तौ रत्नकटकच्छायाशबलितं पयः ॥८०७॥
आन्दोलितं कुण्डलवन्नीलरत्नत्विषा मुहुः ।
सेवालवल्लरीजालं कर्षन्ताविव रेजतुः ॥८०८॥
ततः प्रालेयसंकाशैः पुष्करावर्तशालिभिः ।
दूरं हृतः शङ्खदत्तः सलिलैर्बहुविप्लवैः ॥८०९॥
पारं भीमभटः प्राप्य मित्रेणाशु विनाकृतः ।
शोकान्धकारमभवच्चक्रवाक इवाकुलः ॥८१०॥
संपत्सु केलिसदनं व्यसनेषु समाश्रयः ।
कोशो विश्रम्भचर्चासु किं नाम न सुहृन्नृणाम् ॥८११॥
स तद्वियोगसंतप्तः क्षेप्तुमात्मानमम्भसि ।
समुद्ययौ प्रियभ्रंशो धीररैपि न सह्यते ॥८१२॥
ततः साक्षाद्भगवती गङ्गा कान्तितरङ्गिता ।
तं प्राह साहसं पुत्र मा कृथा मित्रमाप्स्यसि ॥८१३॥
इमां च प्रतिलोमाख्यां दिव्यविद्यां गृहाण मे ।
यया भवन्ति सहसा यथेच्छा रूपवृत्तयः ॥८१४॥
इत्युक्त्वा दन्तकिरणैः क्षालयन्तीव दिक्तटीम् ।
ददौ सुरणदी विद्यां तस्मै स्वेच्छाकृतिप्रदाम् ॥८१५॥
ततो व्रजन्धैर्यसखो निजोत्साहरते स्थितः ।
स लाटविषयं प्राप विषयं सर्वसंपदाम् ॥८१६॥
तत्रासौ लाटललनाकटाक्षोत्पलदामभिः ।
भूष्यमाण इवापश्यद्द्यूतशालां सकौतुकः ॥८१७॥
स्वजानुसंधिविन्यस्तकपोलैर्निश्चलेक्षणैः ।
पराजये हहाकारकराहतमहीतलैः ॥८१८॥
अधिक्षेपपरासक्तैः शपथाकोपकम्पिभिः ।
वक्रानेकाङ्गविन्यासपरैः कलकलाकुलैः ॥८१९॥
भुजङ्गैरिव सोच्छ्वासैः पथिकैरिव धूसरैः ।
उन्मत्तैरिव दिग्वस्त्रैर्व्यसनैरिव धिक्कृतैः ॥८२०॥
कितवैर्हलया तत्र द्यूतकेलिं विधाय सः ।
जित्वा धनं ददौ तेभ्यः परादानेष्वशिक्षितः ॥८२१॥
न वयं याचकतया पात्रं ते द्रविणार्पणे ।
इत्युक्त्वा तत्सुहृद्भूत्वा वसुदत्तोऽग्रहीद्धनम् ॥८२२॥
तेन संजातविश्रम्भस्तमपृच्छत्कथान्तरे ।
स्वैरं भीमभटो वृत्तं स च पृष्टोऽभ्यभाषत ॥८२३॥
बभूव शिवदत्ताख्यो द्विजन्मा हस्तिनापुरे ।
तस्याहं वसुदत्ताख्यस्तनयः प्राप्तदुर्नयः ॥८२४॥
स कदाचिन्मम पिता सदाकलहशीलया ।
गृहिण्या विहितोद्वेगो देशं देहमिवात्यजत् ॥८२५॥
गते तस्मिन्मम वधूं सा निष्कारणकोपना ।
तैस्तैः सपरुषालापैश्चकारात्यन्तदुःखिताम् ॥८२६॥
सहासोक्तिषु दौःशील्यं मौने दर्पं श्रमे सुखम् ।
नये मायां भये दम्भं सपर्यायां च वञ्चनम् ॥८२७॥
वक्ति स्नषामविरतं दोषैकन्यस्तलोचना ।
तद्दुःखात्साप्यगात्क्कापि कः सदा सहत्ते व्यथाम् ॥८२८॥
अपरां सुहृदां वाक्यात्परिणीतां मया पुनः ।
वृद्धा क्रमेण तेनैव सा निरासदुराशया ॥८२९॥
तृतीयोद्वाहविषये प्रार्थितोऽहं सुहृज्जनैः ।
गृहे दारुमयीं योषां मिथ्याभार्यामकल्पयम् ॥८३०॥
कृत्वागगुण्ठनामन्तर्निहितामथ तां मया ।
एकाकिनीं समभ्येत्य चक्रे कलहसूचनम् ॥८३१॥
अनुत्तरामथालोक्य वधूगाम्भीर्यशङ्किता ।
कृत्वा रक्ताक्तमात्मानं चुक्रोश करुणस्वनम् ॥८३२॥
अबान्धवाहं स्नुषया निहतेत्युच्चवादिनी ।
मन्मित्रस्वजनैरेत्य पृष्टा क्कासौ वधूरिति ॥८३३॥
दूरात्तयैव निर्दिष्टां मया सह विलोक्यताम् ।
उद्धाट्य दारुललनां जहसुस्ते सनिःस्वनम् ॥८३४॥
इत्यहं दु ःसहैर्मात्रा परुषैः शोषितः सदा ।
त्यक्त्वा स्वदेशमायातः स्वर्गभोगामिमां भुवम् ॥८३५॥
इह द्यूतेन विजिताः पणबद्धा मयानुगाः ।
एते चण्डभुजङ्गाद्याः कितवाः पृथुसाहसाः ॥८३६॥
इति भीमभटः श्रुत्वा तस्थौ तैः सह निर्वृतः ।
गुणिनां भव्यवपुषां पृथिवी निजमन्दिरम् ॥८३७॥
अत्रान्तरे प्रावृषेण्यपयःपूरतरङ्गितान् ।
विपाशासलिलान्प्राप्तो मत्स्यो हस्तीव धीवरैः ॥८३८॥
ततः कोलाहलाकृष्टः प्राप्ते द्रष्टुं महाजने ।
ततो भीमभटोऽपश्यन्मानं निर्दारितोदरम् ॥८३९॥
तन्मध्यादथ निर्यातं शङ्खदत्तं विलोक्य सः ।
बभूवाचिन्तिताप्तेऽस्मिन्परिवृत्ते च जालिकैः ॥८४०॥
निस्तीर्णस्तामवाप्तोऽहं धातुः किं नाम दुर्घटम् ।
इत्युक्त्वा तं परिष्वज्य तद्वृत्तान्तं निशम्य च ।
शङ्खदत्तो नवं सर्वं हर्षात्स्वर्गममन्यत ॥८४१॥
ततो भीमभटस्तत्र नागयात्रामहोत्सवे ।
कदाचित्सानुगोऽपश्यत्कन्यकां स्नातुमागताम् ॥८४२॥
सुतां हंसावलीं नाम चन्द्रादित्यस्य भूपतेः ।
दासीसहस्रानुगतां राकां तारावृतामिव ॥८४३॥
विलोललोचनच्छायालेखनीभिः स्मृताकृतैः ।
जनस्य संकल्पपटे याभिरालिख्यते स्मरः ॥८४४॥
मनोरथशताभ्यस्ता या यत्नशतसूत्रिता ।
घटितेव शशाङ्केन कान्तिस्फटिकपुत्रिका ॥८४५॥
तां विलोक्य स पञ्चेषुसंरम्भाकुलितोऽभवत् ।
दुग्धाम्बुधिरिवास्फारं चन्द्रकान्तितरङ्गितः ॥८४६॥
सा च तद्दर्शनारम्भप्रौढोद्भिन्नमनोभवा ।
हंसावली यथार्थाभून्नलिनीदलशायिनी ॥८४७॥
तद्दूतीकृतसंकेतो निशि भीमभटस्ततः ।
कन्यकान्तःपुरं प्राप विद्याभ्यासादलक्षितः ॥८४८॥
रत्नदीपांशुकपिशे दिव्यगन्धाधिवासिते ।
तत्र गान्धर्वविधिना भेजे तां चारुलोचनाम् ॥८४९॥
ततः कम्पाकुला तत्र सा तेनालिङ्गिता मुहुः ।
लज्जानिमीलन्नयना लेभे कामपि निर्वृतिम् ॥८५०॥
आकृष्यमाणा तेनास्या मेखला मधुरध्वनिम् ।
चकार सुरतारम्भनाट्यप्रस्तारनामिव ॥८५१॥
तस्याः केलिकलास्रस्तकबरीकुसुमोत्थिताः ।
मञ्जुगुञ्जन्मधुकराः सीत्काराचार्यतां ययुः ॥८५२॥
धैर्यस्य यदनायत्तं लज्जाया यदगोचरम् ।
यदशिष्यं विचारस्य सुरतं तदभूत्तयोः ॥८५३॥
प्रातः प्रयाते भूपालसुते हंसावली शनैः ।
रतारम्भसमुत्सृष्टनिद्रारुणविलोचना ॥८५४॥
विलोलिता वजेनेव नलिनी कम्पशालिनी ।
राज्ञे निवेदिता शङ्काकुलैरत्नःपुराधिपैः ॥८५५॥
राजापि यत्नादन्विष्य द्वितीयेऽह्नि समागतम् ।
परिज्ञाय ददौ तस्मै प्रियां पुत्रीं श्रिया सह ॥८५६॥
अपुत्रेण ततो राज्ञा श्रियं तेन समर्पिताम् ।
लेभे भीमभटो लाटविषये पौरसंमतः ॥८५७॥
शङ्खदतादिभिः सार्धं संमन्त्र्य भ्रातुरन्तिके ।
प्राहिणोत्प्रतिराजस्य स दूतं विग्रहोत्सुकः ॥८५८॥
मिथो बलैरधिक्षेपे ज्वलन्मन्युमहानलौ ।
चक्रतुस्तौ बलाम्भोधिसज्जखङ्गोर्मिभीषणम् ॥८५९॥
ततो भीमभटः प्राप्य राढां दृढविनिश्चयः ।
दिशश्चक्रे गजघटापुष्करावर्तसंकटाः ॥८६०॥
तस्योच्चचार कल्पान्तविभ्रमो रणदुन्दुभिः ।
यत्कम्पाप्तौरनारीणां चक्रन्दुरिव मेखलाः ॥८६१॥
ततः ससैन्यः समरभटो युद्धाय निर्ययौ ।
कुर्वन्खङ्गप्रभाजालैर्नभो नीलाभ्रविम म् ॥८६२॥
क्षिप्रं निपेतुर्वीरेषु स्वर्गसोपानमालिकाः ।
लक्ष्मीकटाक्षशबलाः करवालपरम्पराः ॥८६३॥
वैरवह्नौ रणमुखे तेषां सुभटयज्वनाम् ।
विस्फारचापक्रेङ्कारमन्त्रा रेजुः करिस्वरैः ॥८६४॥
चक्रुः शिरांसि शूराणां पतितानि महीतले ।
जयश्रियो रक्तपङ्के पादन्यासोपलभ्रम म् ॥८६५॥
ततो भीमभटोऽभ्येत्य स्वयं समरशालिनः ।
रिपोश्चकर्त खङ्गेन शिरो व्याकुलकुण्डलम् ॥८६६॥
बिभ्राणस्तच्छिरो रेजे खङ्गाग्रे क्षिप्रसंकटम् ।
दर्शयन्निव वीराणां निजवीर्यतरोः फलम् ॥८६७॥
निपातितेऽथ समरभटे भटशतानुगे ।
लेभे भीमभटो राज्यं राजमानः सुहृज्जनैः ॥८६८॥
मनोरमां प्रणम्याथ प्रहृष्टां तत्र मातरम् ।
प्रददौ शङ्खदत्ताय लाटराज्यमुदारधीः ॥८६९॥
स्वयं स्थितः स राढायां पञ्चगौडमहीपतिः ।
दिशो भीमभटः सर्वा जित्वा साम्रज्यमाप्तवान् ॥८७०॥
ततः कदाचिदैश्वर्यविलासोद्यानकौमुदीम् ।
हंसावलीं सेव्यमाने तस्मिन्मधुमदाकुले ॥८७१॥
यदृच्छया समभ्यायादुत्तङ्कस्तेजसां निधिः ।
यद्गिरा सर्पसत्रेऽभूद्भुजङ्गानां कुलक्षयः ॥८७२॥
स्वदर्शनविलम्बेन राज्ञः कोपमुपागतः ।
मदद्विपो भवत्वाशु तं शशाप स्मरालयम् ॥८७३॥
ततः प्रसादितो यत्नान्मुनिर्भीटभटेन तम् ।
उवाच राजन्विपिने समाश्वास्य फलाम्बुभिः ॥८७४॥
मृगाङ्कदत्तसचिवं यदा त्वं तोषयिष्यसि ।
त्वत्कथां च निशम्यैव चक्षुश्मान्स भविष्यति ॥८७५॥
प्रचण्डशक्तिरुत्तीर्य नागशापमहोदधिम् ।
आराधितस्त्वया भक्त्या पूर्वं चन्द्रार्धशेखरः ।
अतस्तवैषा शापान्ते राजन्गन्धर्वराजता ॥८७६॥
उत्क्वेत्यदर्शनं याते मुनीन्द्रे सोऽभवद्गजः ।
सोऽहमेवेह कालेन त्वया पुण्यैः समागतः ॥८७७॥
कथयित्वेति नागेन्द्रो गन्धर्वः सहसाभवत् ।
प्रचण्डशक्तिस्तद्वृत्तं श्रुत्वाभूच्च सुलोचनः ॥८७८॥
मृगाङ्कदत्तस्तच्छ्रुत्वा विलोक्य च महाद्भुतम् ।
प्रचण्डशक्तिमालिङ्ग्य प्रीतिं प्राप सहानुगः ॥८७९॥
तां शशाङ्कवतीं कान्तामचिरात्समवाप्स्यसि ।
मृगाङ्कदत्तमवदद्गन्धर्वं प्रणयादिति ॥८८०॥
स्मृतमात्रः समेष्यामीत्युक्त्वा तस्मिंस्तिरोहिते ।
ध्यायन्मृगाङ्कदत्तोऽभूदानन्दामृतनिर्झरः ॥८८१॥
प्राग्जन्मपूजितमहेश्वरदिष्टदिव्य -
गन्धर्वभावसुभगेन विधाय तेन ।
सख्यं स पञ्च सचिवान्समवाप्य हृष्टः
शेषाप्तये विपुलसत्त्वसखः प्रतस्थे ॥८८२॥
प्रचण्डशाक्तिसमागमः । भीमभटाख्यायिका ॥२१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-21T20:45:30.5870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

folded distribution

  • घडीचे वितरण 
RANDOM WORD

Did you know?

पंचप्राणांना भोजनापूर्वी आहुती का द्यावी ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site