संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|प्रथमो गुच्छः| शीलपारमिता प्रथमो गुच्छः कुञ्जराख्यायिका ललितलोचनालापकथा मन्त्रगुप्ताख्यायिका विनयवत्याख्यायिका श्रुतधिसमागमः पारावताक्षशापः संसारचक्रम् हंसावलीकथा भीमपराक्रमसमागमः गुणाकरसमागमः दानपारमिता शीलपारमिता क्षान्तिपारमिता धैर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता विनीतमत्याख्यायिका भगवत्याः स्तोत्रम् भूनन्दाख्यायिका श्रीदर्शनाख्यायिका भीमभटाख्यायिका शीलपारमिता क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत शीलपारमिता Translation - भाषांतर विन्ध्ये शुकसहस्रान्तः शुको हेमप्रभोऽभवत् । तस्य चारुमतिर्नाम प्रतीहारोऽभवच्छुकः ॥५१६॥ कदाचित्तस्य निहता जालकैर्वल्लभा शुकी । स तद्वियोगसंतप्तः प्रतीहारः कृशोऽभवत् ॥५१७॥ तं वीक्ष्य विरहोन्मत्तं शीलवाञ्शुकभूपतिः । तस्यामलं सरो गत्वा प्रतिबिम्बमदर्शयत् ॥५१८॥ आत्मनः प्रतिबिम्बं च तस्य चान्तर्जले स्थितम् । निर्दिश्योवाच तं पश्य प्रियामन्येन संगताम् ॥५१९॥ एता मुहूर्तशालिन्यः क्रूराः संध्या इव स्त्रियः । दर्शयन्ति तमः पश्चात्प्रलयावर्तभीषणम् ॥५२०॥ अहो नु सरलः पन्थाः कोऽप्ययं जडचेतसाम् । यद्गताननुगच्छन्ति मत्स्यपुच्छग्रहाः स्त्रियः ॥५२१॥ योषिद्भिर्विप्रलब्धानां शोचतां जनसंसदि । शीलं जनभयेनेव दूरं यात्ययतात्मनाम् ॥५२२॥ सर्वे कङ्कणकेयूरकुण्डलप्रतिमा गुणाः । शीलं त्वकृत्रिमालोके लावण्यमिव भूषणम् ॥५२३॥ इत्येवं शुकराजेन स शीले विनिवेशितः । बभूव मनसा ध्यात्वा त्यक्तमन्मथविक्रियः ॥५२४॥ इति शीलपारमिता ॥१२॥ N/A References : N/A Last Updated : October 21, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP